अक्षर आकार:

श्रीराधिकाध्यानामृतस्तोत्रम्

Shri Radhikadhyanamritastotram

श्रीराधिकाध्यानामृतस्तोत्रम्

तडिच्चम्पकस्वर्णकाश्मीरभासः स्वकान्त्या भृशं दण्डयित्र्या विलासः । स्वरूपस्य तस्यास्तु वर्ण्यः सुबोधद्रवो नामवर्णोऽपि कर्ण्यः ॥ १॥ प्रफुल्लकुसुमप्रभाद्योतितानां लसच्चन्द्रिकाप्रोतमेघोपमानाम् । कचानां सचातुर्यबन्धेयमेणी दृशः सच्चमर्याग्रिमा भाति वेणी ॥ २॥ महानर्घ्यचूडामणीकामलेखा प्लुता राजते चारुसीमन्तरेखा । उडुद्योतिमुक्तैकपङ्क्तिं वहन्ती किमास्येन्दुसौधैकधारोच्चलन्ती ॥ ३॥ नवेन्दूपमे पत्रपाश्याप्रभाले सुलीलालकालीवृते चारुभाले । मदेनान्तरा चित्रितं चित्रकं तत् विभात्यच्युतातृप्तनेत्रैकसम्पत् ॥ ४॥ अतिश्यामला विज्यकन्दर्पचाप प्रभाजिष्णुतां भ्रूद्वयी कुञ्चिताप । मुखाम्भोजमाध्वीकपानादभीष्टा- दचेष्टालिपङ्क्तिः किमेषा निविष्टा ॥ ५॥ सफर्याविव प्रेष्ठलावण्यवन्ये प्सिते राजतस्ते दृशौ हन्त धन्ये । लसत्कज्जलाक्ते तयोः श्यामपक्ष्म क्वचिद्विन्दते कान्तताम्बूललक्ष्म ॥ ६॥ तडित्कन्दली मूर्ध्नि नक्षत्रयुक्ता स्थिराधःसुधाबुद्बुदद्वन्द्वसक्ता । यदि स्यात्सरोजान्तरे तां च भासा मृगाक्ष्यास्तिरस्कुर्वती भाति नासा ॥ ७॥ कपोलाक्षिबिम्बाधरश्रीविषक्तं बह्वेन्मौक्तिकं पीतनीलातिरक्तम् । स्मितोद्यत्पुटोदीर्णमाधुर्यवृष्टि- र्लसत्यच्युतस्वान्ततर्षैकसृष्टिः ॥ ८॥ लसत्कुण्डले कुण्डलीभूय मन्ये स्थिते कामपाशायुधे हन्त धन्ये । श्रुती रत्नचक्रीशलाकाञ्चिताग्रे दृशौ कर्षतः श्रीहरये समग्रे ॥ ९॥ अतिस्वच्छमन्तःस्थताम्बूलराग- च्छटोद्गारि शोभाम्बुधौ किं ललाग । कपोलद्वयं लोलताटङ्करत्न द्युमच्चुम्बितं प्रेयसो यत्र यत्नः ॥ १०॥ स्फुटद्बन्धुजीवप्रभाहारिदन्त- च्छदद्वन्द्वमाभाति तस्या यदन्तः । स्मितज्योत्स्नया क्षालितं या सतृष्णं चकोरीकरोत्यत्यन्वहं हन्त कृष्णम् ॥ ११॥ न सा विन्दते पाकिमारुण्यभाजि- च्छविर्यत्तुलां दाडिमीबीजराजिः । कथं वर्ण्यतां या त्वियं दन्तपङ्क्ति- र्मुकुन्दाधरे पौरुषं या व्यनक्ति ॥ १२॥ मुखाम्भोजमाधुर्यधारा वहन्ती यदन्तः कियन् निम्नतां प्रापयन्ती । किमेषा कस्तूरिकाबिन्दुभृत्तं हरिं किं दधानं विभात्यासावृत्तम् ॥ १३॥ स कण्ठस्तडित्कम्बुसौभाग्यहारी त्रिरेखः पिकस्तव्यसौस्वर्यधारी । स्रजं मालिकां मालिकां मौक्तिकानां दधत्येव यः प्रेयसा गुम्फितानाम् ॥ १४॥ उरोजद्वयं तुङ्गतापीनताभ्यां समं सख्ययुक् कृष्णपाण्यम्बुजाभ्याम् । नखेन्दुर्यदोदेतुमिच्छां विधत्ते तदा कञ्चुकी कालिका नापि धत्ते ॥ १५॥ म्रदिम्णा शिरीषस्य सौभाग्यसारं क्षिपन्त्या वहन्त्या भुजाभोगभारम् । तुलाशून्यसौन्दर्यसीमां दधत्या निजप्रेयसेऽजस्रसौख्यं ददत्याः ॥ १६॥ श्रितायाः स्वकान्तस्वतां कम्रगात्र्याः श्रियाः श्रीविलासान् भृशं खर्वयन्त्याः । गतांसद्वयी सौभगैकान्तकान्तं यदा पाणिनोत्क्रामयेति सालकान्तम् ॥ १७॥ तडिद्धामभृत्कङ्कणानद्धसीमा घनद्योतचूडावली सास्त्रसीमा । चकास्ति प्रकोष्ठद्वये या स्वनन्ती स्मराजौ सुखाब्धौ सखीः प्लावयन्ती ॥ १८॥ तद्भाति रक्तोत्पलद्वन्द्वशोचि- स्तिरस्कारिपाणिद्वयं यत्र रोचिः । शुभाङ्कावलेः सौभगं यद्व्यनक्ति प्रियान्तर्हृदि स्थापने यस्य शक्तिः ॥ १९॥ (चतुर्भिः कुलकम्) नखज्योतिषा भान्ति ताः पाणिशाखाः करोत्यूर्मिकालङ्कृता या विशाखा । समासज्य कृष्णाङ्गुलीभिर्विलास- स्तदासां यदा राजते हन्त रासः ॥ २०॥ जनित्वैव नाभिसरस्युद्गता सा मृणालीव रोमावलिर्भाति भासा । स्तनच्छद्मनैवाम्बुजाते यदग्रे मुखेन्दुप्रभामुद्रिते ते समग्रे ॥ २१॥ कृशं किं नु शोकेन मुष्तिप्रमेयं न लेभे मणिभूषणं यत्पिधेयम् । निबद्धं वलीभिश्च मध्यं तथापि स्फुटं तेन सुस्तव्यसौन्दार्यमपि ॥ २२॥ क्वनत्किङ्किणीमण्डितं श्रोणीरोधः परिस्फारि यद्वर्णने क्वास्ति बोधः । कियान्वा कवेर्हन्त यत्रैव नित्यं मुकुन्दस्य दृक्खञ्जनोऽवाप नृत्यम् ॥ २३॥ प्रियानङ्गकेलिभरैकान्तवाटी पटीव स्फुरत्यञ्चिता पट्टशाटी । विचित्रान्तरीयोपरि श्रिभरेण क्षिपन्ती नवेन्दीवराभाम्बरेण ॥ २४॥ कदल्याविवानङ्गमाङ्गल्यसिद्धौ समारोपिते श्रीमदूरू समृद्धौ । विभातः परं वृत्ततापीनताभ्यां विलासैर्हरेः चेतनाहारि याभ्याम् ॥ २५॥ विराजत्यहो जानुयुग्मं पटान्तः समाकर्षति द्रागथाप्यच्युतान्तः । यदालक्ष्यते तत्र लावण्यसम्पत् सुव्रित्तं लसत्कानकं सम्पुटं तत् ॥ २६॥ तनुत्वं क्रमान्मूलतश्चारुजङ्घे प्रयातः परिप्राप्तसौभाग्यसङ्घे । पदाम्भोजयोर्नालता धारयन्त्यौ स्वभामन्तरीयान्तरे गोपयन्त्यौ ॥ २७॥ जयत्यङ्घ्रिपङ्केरुहद्वन्द्वमिष्टं दलाग्रे नखेन्दुव्रजेनापि हृष्टम् । क्वनन्नूपुरं हंसकारावभक्तं हरिं रञ्जयत्येव लाक्षारसाक्तम् ॥ २८॥ दराम्भोजताटङ्कवल्लीरथद्यै- र्महालक्षनैर्भव्यवृन्दाभिवाद्यैः । युतं यत्तलं मार्दवारुण्यशालि स्मृतं यद्भवेदच्युताभीष्टपालि ॥ २९॥ प्रिये श्यामलो लेढुभृङ्गो नलिन्या मरन्दं परं दन्दशीति क्षुदन्या । यदेतं बतेत्यच्युतोक्त्याञ्चलान्त- र्मुखाब्जे सितेन्दुं दधे सालकान्तः ॥ ३०॥ तमालम्ब्य लब्धौजसो माधवस्य स्फुटं पाणिचापल्यमल्पं निरस्य । तया स्वाधरः साधु कर्पूरलिप्तः कृतो नेति नेत्यक्षरोद्गारदीप्तः ॥ ३१॥ स जागर्ति तस्याः परिवारचेत- स्तटेऽनुक्षणं रम्यलीलासमेतः । अथाप्यष्टयामिक्यमुष्याः सपर्या यथाकालमाचर्यते तेन वर्या ॥ ३२॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीराधिकाध्यानामृतस्तोत्रं सम्पूर्णम् ।