अक्षर आकार:

श्रीराधिकाष्टोत्तरशतनामस्तोत्रम्

Shri Radhika Ashtottarashatanama Stotram

श्रीराधिकाष्टोत्तरशतनामस्तोत्रम्

अवीक्षितेश्वरी काचिद्वृन्दावनमहेश्वरीम् । तत्पदाम्भोजमात्रैकगतिः दास्यतिकातरा ॥ १॥ पतिता तत्सरस्तीरे रुदत्यार्तरवाकुलम् । तच्छ्रीवक्त्रेक्षणप्राप्त्यै नामान्येतानि सञ्जगौ ॥ २॥ राधा गन्धर्विका गोष्ठयुवराजैककामिता । गन्धर्वाराधिता चन्द्रकान्तिर्माधवसङ्गिनी ॥ ३॥ दामोदराद्वैतसखी कार्तिकोत्कीर्तिदेश्वरी । मुकुन्ददयितावृन्दधम्मिल्लमणिमञ्जरी ॥ ४॥ भास्करोपासिका वार्षभानवी वृषभानुजा । अनङ्गमञ्जरीज्येष्ठा श्रीदामावरजोत्तमा ॥ ५॥ कीर्तिदाकन्यका मातृस्नेहपीयूषपुत्रिका । विशाखासवयाः प्रेष्ठविशाखाजीविताधिका ॥ ६॥ प्राणाद्वितीयाललिता वृन्दावनविहारिणी । ललिताप्राणरक्षैकलक्षा वृन्दावनेश्वरी ॥ ७॥ व्रजेन्द्रगृहिणी कृष्णप्रायस्नेहनिकेतनम् । व्रजगोगोपगोपालीजीवमात्रैकजीवनम् ॥ ८॥ स्नेहलाभीरराजेन्द्रा वत्सलाच्युतपूर्वजा । गोविन्दप्रणयाधारा सुरभीसेवनोत्सुका ॥ ९॥ धृतनन्दीश्वरक्षेमा गमनोत्कण्ठिमानसा । स्वदेहाद्वैततादृश्टाधनिष्ठाध्येयदर्शना ॥ १०॥ गोपेन्द्रमहिषीपाकशालावेदिप्रकाशिका । आयुर्वर्धाकरद्वानारोहिणीघ्रातमस्तका ॥ ११॥ सुबलान्यस्तसारूप्या सुबलाप्रीतितोषिता । मुखरादृक्सुधानप्त्री जटिलादृष्टिभासिता ॥ १२॥ मधुमङ्गलनर्मोक्तिजनितस्मितचन्दिरका । मुखरादृक्सुधानप्त्री जटिलादृष्टिभासिता ॥ १२॥ मधुमङ्गलनर्मोक्तिजनितस्मितचन्दिरका । पौर्णमासीबहिःखेलत्प्राणपञ्जरसारिका ॥ १३॥ स्वगुणाद्वैतजीवातुः स्वीयाहङ्कारवर्धिनी । स्वगणोपेन्द्रपादाब्जस्पर्शालम्भनहर्षिणी ॥ १४॥ स्वीयब्रुन्दावनोद्यानपालिकीकृतबृन्दका । ज्ञातवृन्दाटवीसर्वलतातरुमृगद्विजा ॥ १५॥ ईषच्चन्दनसङ्घृष्ट नवकाश्मीरदेहभाः । जपापुष्पप्रीतहरी पट्टचीनारुणाम्बरा ॥ १६॥ चरणाब्जतलज्योतिररुणीकृतभूतला । हरिचित्तचमत्कारि चारुनूपुरनिःस्वना ॥ १७॥ कृष्णश्रान्तिरश्रेणीपीठवल्गितघण्टिका । कृष्णसर्वस्वपीनोद्यत्कुचाञ्चन्मणिमालिका ॥ १८॥ नानारत्नेल्लसच्छङ्खचूडचारुभुजद्वया । स्यमन्तकमणिभ्राजन्मणिबन्धातिबन्धुरा ॥ १९॥ सुवर्णदर्पणज्योतिरुल्लङ्घिमुखमण्डला । पक्वदाडिमबीजाभ दन्ताकृष्टाघभिच्छुका ॥ २०॥ अब्जरागादिसृष्टाब्जकलिकाकर्णभूषणा । सौभाग्यकज्जलाङ्काक्त नेत्रानन्दितखञ्जना ॥ २१॥ सुवृत्तमौकित्कामुक्तानासिकातिलपुष्पिका । सुचारुनवकस्तूरीतिलकाञ्चितफालका ॥ २२॥ दिव्यवेणीविनिर्धूतकेकीपिञ्चवरस्तुतिः । नेत्रान्तसारविध्वंसकृतचाणूरजिद्धृतिः ॥ २३॥ स्फुरत्कैशोरतारुण्यसन्धिबन्धुरविग्रहा । माधवोल्लासकोन्मत्त पिकोरुमधुरस्वरा ॥ २४॥ प्राणायुतशतप्रेष्ठमाधवोत्कीर्तिलम्पटा । कृष्णापाङ्गतरङ्गोद्यत्सिमतपीयूषबुद्धुदा ॥ २५॥ पुञ्जीभूतजग्गलज्जावैदग्धीदिग्धविग्रहा । करुणाविद्रवद्देहा मूर्तिमन्माधुरीघटा ॥ २६॥ जगद्गुणवतीवर्गगीयमानगुणोच्चया । शच्यादिसुभगाबृन्दवन्द्यमानोरुसौभगा ॥ २७॥ वीणावादनसङ्गीत रसलास्यविशारदा । नारदप्रमुखोद्गीतजगदानन्दिसद्यशाः ॥ २८॥ गोवर्धनगुहागेहगृहिणीकुञ्जमण्डना । चण्डांशुनन्दिनीबद्धभगिनीभावविभ्रमा ॥ २९॥ दिव्यकुन्दलतानर्मसख्य दामविभूषणा । गोवर्धनधराह्णादि श‍ृङ्गाररसपण्डिता ॥ ३०॥ गिरीन्द्रधरवक्षः श्रीः शङ्खचूडारिजीवनम् । गोकुलेन्द्रसुतप्रेमकामभूपेन्द्रपट्टणम् ॥ ३१॥ वृषविध्वंसनर्मोक्ति स्वनिर्मितसरोवरा । निजकुण्डजलक्रीडाजितसङ्कर्षणानुजा ॥ ३२॥ मुरमर्दनमत्तेभविहारामृतदीर्घिका । गिरीन्द्रधरपारिण्द्ररतियुद्धरुसिंहिका ॥ ३३॥ स्वतनूसौरभोन्मत्तीकृतमोहनमाधवा । दोर्मूलोच्चलनक्रीडाव्याकुलीकृतकेशवा ॥ ३४॥ निजकुण्डततीकुञ्ज क्लृप्तकेलीकलोद्यमा । दिव्यमल्लीकुलोल्लासि शय्याकल्पितविग्रहा ॥ ३५॥ कृष्णवामभुजन्यस्त चारुदक्षिणगण्डका । सव्यबाहुलताबद्धकृष्णदक्षिणसद्भुजा ॥ ३६॥ कृष्णदक्षिणचारूरुश्लिष्टवामोरुरम्भिका । गिरीन्द्रधरदृग्वक्षेमर्दिसुस्तनपर्वता ॥ ३७॥ गोविन्दाधरपीयूषवासिताधरपल्लवा । सुधासञ्चयचारूक्ति शीतलीकृतमाधवा ॥ ३८॥ गोविन्दोद्गीर्णताम्बूल रागरज्यत्कपोलिका । कृष्णसम्भोग सफलीकृतमन्मथसम्भवा ॥ ३९॥ गोविन्दमार्जितोद्दामरतिप्रस्विन्नसन्मुखा । विशाखाविजितक्रीडाशान्तिनिद्रालुविग्रहा ॥ ४०॥ गोविन्दचरणन्यस्तकायमानसजीवना । स्वप्राणार्बुदनिर्मच्छय हरिपादरजः कणा ॥ ४१॥ अणुमात्राच्युतादर्शशय्यमानात्मलिचना । नित्यनूतनगोविन्दवक्त्रशुभ्रांशुदर्शना ॥ ४२॥ निःसीमहरिमाधुर्यसौन्दर्याद्येकभोगिनी । सापत्न्यधाममुरलीमात्रभाग्यकटाक्षिणी ॥ ४३॥ गाढबुद्ध्बलक्रीडाजितवंशीविकर्षिणी । नर्मोक्तिचन्दिरकोत्फुल्ल कृष्णकामाब्धिवर्धिनी ॥ ४४॥ व्रजचन्द्रेज्दिरयग्राम विश्रामविधुशालिका । कृष्णसर्वेन्दिरयोन्मादि राधेत्यक्षरयुग्मका ॥ ४५॥ इदं श्रीराधिकानाम्नामष्टोत्तरशतोज्ज्वलम् । श्रीराधलम्भकं नाम स्तोत्रं चारु रसायनम् ॥ ४६॥ योऽधीते परमप्रीत्या दीनः कातरमानसः । स नाथामचिरेणैव सनाथामीक्षते ध्रुवम् ॥ ४७॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीराधिकाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।