अक्षर आकार:

श्रीराधिकाष्टोत्तरशतनामावलिः

shrIrAdhikAShTottarashatanAmAvaliH

श्रीराधिकाष्टोत्तरशतनामावलिः

राधायै नमः । गन्धर्विकायै । गोष्ठयुवराजैककामितायै । गन्धर्वाराधितायै । चन्द्रकान्त्यै । माधवसङ्गिन्यै । दामोदराद्वैतसख्यै । कार्तिकोत्कीर्तिदेश्वर्यै । मुकुन्ददयितावृन्दधम्मिल्लमणिमञ्जर्यै । भास्करो पासिकायै । वृषभानुजाय् । अनङ्गमञ्जरीज्येष्ठायै । श्रीदामावरजोत्तमायै । कीर्तिदाकन्यकायै । मातृस्नेहपीयूषपुत्रिकायै । विशाखासवयसे । प्रेष्ठविशाखाजीविताधिकायै । प्राणाद्वितीयललितायै । वृन्दावनविहारिण्यै नमः ॥ २० ललिताप्राणरक्षैकलक्षायै नमः । वृन्दावनेश्वर्यै । व्रजेन्द्रगृहिण्यै । कृष्णप्रायस्नेहनिकेतनायै । व्रजगोगोपगोपालीजीवमात्रैकजीवनायै । स्नेहलाभीरराजेन्द्रायै । वत्सलायै । अच्युतपूर्वजायै । गोविन्दप्रणयाधारायै । सुरभीसेवनोत्सुकायै । धृतनन्दीश्वरक्षेमायै । गमनोत्कण्ठिमानसायै । स्वदेहाद्वैततादृष्टधनिष्ठाध्येयदर्शनायै । गोपेन्द्रमहिषीपाकशालावेदिप्रकाशिकाय । आयुर्वर्धाकरद्धानारोहिणीघ्रातमस्तकायै । सुबलान्यस्तसारूप्यायै । सुबलाप्रीतितोषितायै । मुखरादृक्सुधानप्त्र्यै । जटिलादृष्टिभासितायै । मधुमङ्गलनर्मोक्तिजनितस्मितचन्द्रिकायै । पौर्णमासीबहिःखेलत्प्राणपञ्जरसारिकायै नमः ॥ ४० स्वगणाद्वैतजीवातवे नमः । स्वीयाहङ्कारवर्धिन्यै । स्वगणोपेन्द्रपादाब्जस्पर्शालम्भनहर्षिण्यै । स्वीयवृन्दावनोद्यानपालिकीकृतवृन्दकायै । ज्ञातवृन्दाटवीसर्वलतातरुमृगद्विजायै । ईषच्चन्दनसङ्घृष्टनवकाश्मीरदेहभासे । जपापुष्पहप्रीतहर्यै । पट्टचीनारुणाम्बरायै । चरणाब्जतलज्योतिररुणीकृतभूतलायै । हरिचित्तचमत्कारिचारुनूपुरनिःस्वनायै । कृष्णश्रान्तिहरश्रेणीपीठवल्गितघण्टिकायै । कृष्णसर्वस्वपीनोद्यत्कुचाञ्चन्मणिमालिकायै । नानारत्नेल्लसच्छङ्खचूडचारुभुजद्वयायै । स्यमन्तकमणिभ्राजन्मणिभ्राजन्मणिबन्धातिबन्धुरायै । सुवर्णदर्पणज्योतिरुल्लङ्घिमुखमण्डलायै । पक्वदाडिमबीजाभदन्ताकृष्टाघभिच्छुकायै । अब्जरागादिसृष्टाब्जकलिकाकर्णभूषणायै । सौभाग्यकज्जलाङ्काक्त- नेत्रानन्दितखञ्जनायै । सुवृत्तमौक्तिकामुक्तानासिकातिलपुष्पिकायै । सुचारुनवकस्तूरीतिलकाञ्चितफालकायै ॥ ६० दिव्यवेणीविनिर्धूतकेकीपिञ्छवरस्तुत्यै । नेत्रान्तसारविध्वंसकृतचाणूरजिद्धृत्यै । स्फुरत्कैशोरतारुण्यसन्धिबन्धुरविग्रहायै । माधवोल्लासकोन्मत्तपिकोरुमधुरस्वरायै । प्राणायुतशतप्रेष्ठमाधवोत्कीर्तिलम्पटायै । कृष्णापाङ्गतरङ्गोद्यत्स्मितपीयूषबुद्बुदायै । पुञ्जीभूतजगल्लज्जावैदग्धीदिग्धविग्रहायै । करुणाविद्रवद्देहायै । मूर्तिमन्माधुरीघटायै । जगद्गुणवतीवर्गगीयमानगुणोच्चयायै । शच्यादिसुभगावृन्दवन्द्यमानोरुसौभगायै । वीणावादनसङ्गीतरसलास्यविशारदायै । नारदप्रमुखोद्गीत- जगदानन्दिसद्यशसे । गोवर्धनगुहागेहगृहिणीकुञ्जमण्डनायै । चण्डांशुनन्दिनीबद्धभगिनीभावविभ्रमायै । दिव्यकुन्दलतानर्मसख्यदामविभूषणायै । गोवर्धनधराह्लादिश‍ृङ्गाररसपण्डितायै । गिरीन्द्रधरवक्षःश्रियै । शङ्खचूडारिजीवनाय । गोकुलेन्द्रसुतप्रेमकामभूपेन्द्रपट्टणाय नमः ॥ ८० वृषविध्वंसनर्मोक्तिस्वनिर्मितसरोवरायै । निजकुण्डजलक्रीडाजितसङ्कर्षणानुजाय । मुरमर्दनमत्तेभविहारामृतदीर्घिकायै । गिरीन्द्रधरपारीन्द्ररतियुद्धोरुसिंहिकाय । स्वतनूसौरभोन्मत्तीकृतमोहनमाधवायै । दोर्मूलोच्चलनक्रीडाव्याकुलीकृतकेशवायै । निजकुण्डततीकुञ्जक्लृप्तकेलीकलोद्यमायै । दिव्यमल्लीकुलोल्लासिशय्याकल्पितविग्रहायै । कृष्णवामभुजन्यस्तचारुदक्षिणगण्डकायै । सव्यबाहुलताबद्धकृष्णदक्षिणसद्भुजायै । कृष्णदक्षिणचारूरुश्लिष्टवामोरुरम्भिकायै । गिरीन्द्रधरदृग्वक्षोमर्दिसुस्तनपर्वतायै । गोविन्दाधरपीयूषवासिताधरपल्लवायै । सुधासञ्चयचारूक्तिशीतलीकृतमाधवायै । गोविन्दोद्गीर्णताम्बूलरागरज्यत्कपोलिकायै । कृष्णसम्भोगसफलीकृतमन्मथसम्भवायै । गोविन्दमार्जितोद्दामरतिप्रस्विन्नसन्मुखायै । विशाखाविजितक्रीडाशान्तिनिद्रालुविग्रहायै । गोविन्दचरणन्यस्तकायमानसजीवनायै । स्वप्राणार्बुदनिर्मञ्छ्यहरिपादरजःकणायै नमः ॥ १०० अणुमात्राच्युतादर्शशप्यमानात्मलोचनायै नमः । नित्यनूतनगोविन्दवक्त्रशुभ्रांशुदर्शनायै । निःसीमहरिमाधुर्यसौन्दर्याद्येकभोगिन्यै । सापत्न्यधाममुरलीमात्रभाग्यकटाक्षिण्यै । गाढबुद्धिबलक्रीडाजितवंशीविकर्षिण्यै । नर्मोक्तिचन्द्रिकोत्फुल्लकृष्णकामाब्धिवर्धिन्यै । व्रजचन्द्रेन्द्रियग्रामविश्रामविधुशालिकायै । कृष्णसर्वेन्द्रियोन्मादिराधेत्यक्षरयुग्मकायै नमः ॥ १०८ इति श्रीराधिकाष्टोत्तरशतनामावलिः समाप्ता ।