अक्षर आकार:

श्रीराधिकाष्टकम्

Shri Radhikashtakam by shrikrishnadasakavi

श्रीराधिकाष्टकम्

श्रीकृष्णदासकविराजविरचितं । कुङ्कुमाक्तकाञ्चनाब्ज गर्वहारि गौरभा पीतनाञ्चिताब्जगन्धकीर्तिनिन्दसौरभा । वल्लवेशसूनु सर्ववाञ्छितार्थसाधिका मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ १॥ कौरविन्दकान्तनिन्दचित्रपत्रशाटिका कृष्णमत्तभृङ्गकेलि फुल्लपुष्पवाटिका । कृष्णनित्यसङ्गमार्थपद्मबन्धुराधिका मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ २॥ सौकुमार्यसृष्टपल्लवालिकीर्तिनिग्रहा चन्द्रचन्दनोत्पलेन्दुसेव्यशीतविग्रहा । स्वाभिमर्शवल्लवीशकामतापबाधिका मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ३॥ विश्ववन्द्ययौवताभिवन्दतापि या रमा रूपनव्ययौवनादिसम्पदा न यत्समा । शीलहार्दलीलया च सा यतोऽस्ति नाधिका मह्यमात्मपादपद्मदास्यदास्तु राधिका ॥ ४॥ रासलास्यगीतनर्मसत्कलालिपण्डिता प्रेमरम्यरूपवेशसद्गुणालिमण्डिता । विश्वनव्यगोपयोषिदालितोपि याऽधिका मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ५॥ नित्यनव्यरूपकेलिकृष्णभावसम्पदा कृष्णरागबन्धगोपयौवतेषु कम्पदा । कृष्णरूपवेशकेलिलग्नसत्समाधिका मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ६॥ स्वेदकम्पकण्टकाश्रुगद्गदादिसञ्चिता मर्षहर्षवामतादि भावभूषणाञ्चिता । कृष्णनेत्रतोषिरत्नमण्डनालिदाधिका मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ७॥ या क्षणार्धकृष्णविप्रयोगसन्ततोदिता- नेकदैन्यचापलादिभाववृन्दमोदिता । यत्नलब्धकृष्णसङ्गनिर्गताखिलाधिका मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ८॥ अष्टकेन यस्त्वनेन नौति कृष्णवल्लभां दर्शनेऽपि शैलजादियोषिदालिदुर्लभाम् । कृष्णसङ्गनन्दतात्मदास्यसीधुभाजनं तं करोति नन्दतालिसञ्चयाशु सा जनम् ॥ ९॥ इति श्रीकृष्णदासकविराजविरचितं श्रीराधिकाष्टकं सम्पूर्णम् ।