अक्षर आकार:

श्रीराधिकाष्टकम्

Shri Radhikashtakam

श्रीराधिकाष्टकम्

रस-वलित-मृगाक्षी मौलिमाणिक्यलक्ष्मीः प्रमुदितमुरवैरिप्रेमवापीमराली । व्रजवरवृषभानोः पुण्यगीर्वाणवल्ली स्नपयतु निजदास्ये राधिका मां कदा नु ॥ १॥ स्फुरदरुणदुकूलद्योतितोद्यन्नितम्ब- स्थलमभिवरकाञ्चीलास्यमुल्लासयन्ती । कुचकलशविलासस्फीतमुक्तासरःश्रीः स्नपयतु निजदास्ये राधिका मां कदा नु ॥ २॥ सरसिजवरगर्भाखर्वकान्तः समुद्यत्- तरुणिमघनसाराश्लिष्टकैशोरसीधुः । दरविकसितहास्यस्यन्दबिम्बाधराग्रा स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ३॥ अतिचटुलतरं तं काननान्तर्मिलन्तं व्रजनृपतिकुमारं वीक्ष्य शङ्काकुलाक्षी । मधुरमधुवचोभिः संस्तुता नेत्रभङ्गया स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ४॥ व्रजकुलमहिलानां प्राणभूताऽखिलानां पशुपपतिगृहिण्याः कृष्णवत्प्रेमपात्रम् । सुललितललितान्तः स्नेहफुल्लान्तरात्मा स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ५॥ निरवधि सविशाखा शाखियूथप्रसूनैः स्रजमिह रजयन्ती वैजयन्तीं वनान्ते । अघविजयवरोरः प्रेयसी श्रेयसी सा स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ६॥ प्रकटितस्वनिवासं स्निग्धवेणुप्रणादैः द्रुतगतिहरिमारात्प्राप्य कुञ्जे स्मिताक्षी । श्रवणकुहरकण्डूं तन्वती नम्रवक्त्रा स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ७॥ अमलकमलराजिस्पर्शवातप्रशीते निजसरसि निदाघे सायमुल्लासिनीयम् । परिजनगणयुक्ता क्रीडयन्ती बकारिं स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ८॥ पठति विमलचेताः मिष्टराधाष्टकं यः परिहृतनिखिलाशासन्ततिः कातरः सन् । पशुपपतिकुमारः कम्रमामोदितस्तं निजजनगणमध्ये राधिकायास्तनोति ॥ ९॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीराधिकाष्टकं सम्पूर्णम् ।