अक्षर आकार:

श्रीराधाप्रार्थना उद्धवकृता

shrIrAdhAprArthanA uddhavakRitA

श्रीराधाप्रार्थना उद्धवकृता

उद्धव उवाच । चेतनं कुरु कल्याणि जगन्मातर्नमोऽस्तुते । त्वमेव प्राक्तनं सर्वं कृष्णं द्रक्ष्यसि साम्प्रतम् ॥ १॥ त्वत्तो विश्वं पवित्रं च त्वत्पादरजसा मही । सुपवित्रं त्वद्वदनं पुण्यवत्यश्च गोपिकाः ॥ २॥ लोकास्त्वामेव गायन्ति गीतैर्मङ्गलसंस्तवैः । त्वत्सुकीर्तिं च वेदाश्च सनकाद्याश्च संततम् ॥ ३॥ कृतपापहरां पुण्यां तीर्थपुजां च निर्मलाम् । हरिभक्तिप्रदां भद्रां सर्वविघ्नविनाशिनीम् ॥ ४॥ त्वमेव राधा त्वं कृष्णस्त्वं पुमान् प्रकृतिः परा । राधामाधवयोर्भेदो न पुराणे श्रुतौ तथा ॥ ५ ॥ ॥ इति श्रीब्रह्मवैवर्ते पुराणे श्रीकृष्णजन्मखण्डे उद्धवकृता श्रीराधा प्रार्थना सम्पूर्णा ॥