अक्षर आकार:

श्रीराधातापिनीस्तुतिः

Shri RadhAtApinIstutiH

श्रीराधातापिनीस्तुतिः

सहोवाच । का सा राधा कीदृशं रूपं का मूर्तिः किं ध्यानं किं कीलकं किं बीज्ं को मन्त्रः ॥ का निवाहनानि कत्यङ्गानि किं पुरश्चरणं कः समाधिः ॥ किमनेन साध्यते ॥ किं फलं किं बलं गुणो यथा मन्त्रस्तत्सर्वं ब्रूह्हीति ॥ सहोवाच । श्रीराधेति परमप्रकृतिः सैव लक्ष्मीः सरस्वती सैव लोककर्त्री लोकमाता देवजननी ॥ गोलोकवासिनी गोलोकनियन्त्री वैकुण्ठाधिष्ठात्री रूपं दाहोवतीर्णा सुवर्णवर्णप्रध्वंसनमूर्तिः ॥ सर्वाङ्गसुन्दरी ध्यानं द्विभुजा कमलनयना त्रैलोक्यमोहिनी ध्यायेदिति ॥ अथर्वणोक्तध्यानं किं कीलकमिति ॥ सहोवाच ॥ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॥ इति महाकीलकमिति किं बीजमिति ॥ सहोवाच ॥ ॐ श्रीराधिकायै हुं फट् ॥ इति कीलकमेष वै परमो मन्त्रः ॥ इति बीजमुच्यते ॥ को मन्त्र इति सहोवाच ॥ ॐ श्रीं ह्रीं क्लीं हुं फट् स्वाहेति मन्त्रः ॥ एतस्य श्रीभगवान् कृष्णः परमात्मा देवतेति षडक्षरोयं मन्त्र इति ॥ ओमिति बीजं फडिति शक्तिः श्रीमिति कीलकं ह्रीमित्यस्रं क्लीमिति कीलकमिति चतुर्वर्गसिद्धौ विनियोगः ॥ अथ ध्यानं श‍ृणु सुवर्णकेतकीवर्णाभ्यां द्विभुजां कमलनयनां बिम्बोष्ठीं राधिकां कृष्णमनोहरवतीं त्रैलोक्यमोहिनीम् ॥ श्रीमद् वृन्दावननिकेतनां ध्यायेदिति यो जपति शतमष्टोत्तरम् ॥ सर्वलोकाञ्जयति सर्वजनान् वशीकरोति सर्वदेवाधिको भवति ॥ वाञ्छति चेत् पुत्रपौत्रादिकमाप्नोति सस्वर्गलोकमश्नुते ब्रह्मलोके महीयते दिक् पालत्वमाप्नोति गन्धर्वविद्यानिपुणो भवति सङ्गीतविद्याचतुरो भवति सर्ववेदपारायणं लभते सर्वतीर्थफलमश्नुते ॥ सर्वाँल्लोकाञ्जयति सर्वान् देवाञ्जयति लोकाधिपो भवति ॥ सुतलादिलोकमनोहरो भवति ॥ अर्तीव प्रियतरो भगवद्विष्णोर्भवति ॥ इयं श्रीराधातापिनी पठिता श्रुता गृहे लिखित्वा स्थापिता श्रीमतः ॥ श्रीकृष्णस्य प्रेमभक्तिं कारयति श्रीकृष्णवल्लभो भवति ॥ श्रद्धावान् पठनशील इति ॥ सहोवाच ॥ सर्वलोकासाधारण्यं प्राप्नोति ॥ सर्ववेदपाठजनितपुण्यापुण्यतरो भवति ॥ एवं यो वेदसपरमज्ञानी भवति ॥ परमभागवतो भवति परमसन्तुष्टो भवति ॥ परमाह्लादवान् भवति ॥ एतद् गुप्तं गोलोके ततो मनुष्यलोकमवतीर्णम् ॥ इति ह वेदवेदविद्भवति इत्याथर्वणीयम् ॥ इति श्रीराधातापिनीसमाप्तिमगात् ॥ From shrI sarasa stotrasangrahaH (Lucknow, 1909).