अक्षर आकार:

श्रीराधास्तुतिः

shrIrAdhAstutiH

श्रीराधास्तुतिः

॥ श्रीराधा॥ मूलप्रकृतिरेका सा पूर्वब्रह्मस्वरूपिणी । सृष्टौ पञ्चविधा सा च विष्णुमाया सनातनी ॥ प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः । सर्वासां प्रेयसी कान्ता सा राधा च प्रकीर्तिता ॥ ब्रह्मवैवर्तपुराण ब्रह्म खण्ड अध्याय ३० १८१९ ॥ श्रीराधा॥ श्रीदेवीभागवतम् गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती । सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥ स्का । ९। अ४ - ४ पञ्चप्राणाधिदेवी या पञ्चप्राणस्वरूपिणी । प्राणाधिकप्रियतमा सर्वाभ्यः सुन्दरी परा ॥ सर्वयुक्ता च सौभाग्यमानिनी गौरवान्विता । वामाङगार्धस्वरूपा च गुणेन तेजसा समा ॥ परावरा सारभूता परमाद्या सनातनी । परमानन्दरूपा च धन्या मान्या च पूजिता ॥ रासक्रीडाधिदेवी श्रीकृष्णस्य परमात्मनः । रासमण्डलसम्भूता रासमण्डलमण्डिता ॥ रासेश्वरी सुरसिका रासवासनिवासिनी । गोलोकवासिनी देवी गोपीवेषविधायिका ॥ परमाह्लादरूपा च सन्तोषहर्षरूपिणी । निर्गुणा च निराकारा निर्लिप्ताऽऽत्मस्वरूपिणी ॥ निरीहा निरहङ्कारा भक्तानुग्रहविग्रहा । वेदानुसारिध्यानेन विज्ञाता सा विचक्षणैः ॥ दृष्टिदृष्टा न सा चेशैः सुरेन्द्रैर्मुनिपुङ्गवैः । वह्निशुद्धांशुकधरा नानालङ्कारभूषिता ॥ कोटिचन्द्रप्रभा पुष्टसर्वश्रीयुक्तविग्रहा । श्रीकृष्णभक्तिदास्यैककारा च सर्वसम्पदाम् । अवतारे च वाराहे वृषभानुसुता च या । यत्पादपद्मसंस्पर्शात्पवित्रा च वसुन्धरा ॥ ब्रह्मादिभिरदृष्टा या सर्वैर्दृष्टा च भारते । स्त्रीरत्नसारसम्भूता कृष्णवक्षःस्थले स्थिता ॥ यथाम्बरे नवघने लोला सौदामिनी मुने । षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा ॥ यत्पादपद्मनखरदृष्टये चात्मशुद्धये । न च दृष्टं च स्वप्नेऽपि प्रत्यक्षस्यापि का कथा ॥ तेनैव तपसा दृष्टा भुवि वृन्दावने वने । कथिता पञ्चमी देवी सा राधा च प्रकीर्तिता ॥ श्रीदेवीभागवतं स्कन्धः ९ - अ-१ श्लोकाः ४३ - ५७ इति राधास्तुतिः सम्पूर्णा । From kalyANamanjarI, dvitIya bhAgaH rAdhAkalyaNam saNgrahItaM rA. dattagopAlakRRiShNaH, svarNaprakAshanam