अक्षर आकार:

राधाप्रार्थनाचतुःश्लोकी

rAdhAprArthanAchatuHshlokI

राधाप्रार्थनाचतुःश्लोकी

कृपयति यदि राधा बाधिताशेषबाधा किमपरमवशिष्टं पुष्टिमर्यादयोर्मे । यदि वदति च किञ्चित्स्मेरहासोदितश्री- र्द्विजवरमणिपङ्क्त्या भुक्तिशुक्त्या तदा किम् ॥ १॥ श्यामसुन्दर शिखण्डशेखर स्मेरहास्य मुरलीमनोहर । राधिकारसिक मां कृपानिधे स्वप्रियाचरणकिङ्करं कुरुष्व ॥ २॥ प्राणनाथ वृषभानुनन्दिनी श्रीमुखाब्जरसलोलषट्पद । राधिकापदतले कृतस्थिति- स्त्वां भजामि रसिकेन्द्रशेखर ॥ ३॥ संविधाय दशने तृणं विभो प्रार्थये व्रजमहेन्द्रनन्दन । अस्तु मोहन तवातिवल्लभा जन्मजन्मनि मदीश्वरी प्रिया ॥ ४॥ इति श्रीविठ्ठलेश्वरविरचिता राधाप्रार्थनाचतुःश्लोकी सम्पूर्णा ।