अक्षर आकार:

राधायाः परिहारस्तोत्रम् (ब्रह्मवैवर्तपुराणान्तर्गतम्)

shrI rAdhAyAH parihArastotram

राधायाः परिहारस्तोत्रम् (ब्रह्मवैवर्तपुराणान्तर्गतम्)

त्वं देवी जगतां माता विष्णुमाया सनातनी । कृष्णप्राणाधिदेवि च कृष्णप्राणाधिका शुभा ॥ १॥ कृष्णप्रेममयी शक्तिः कृष्णसौभाग्यरूपिणी । कृष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे ॥ २॥ अद्य मे सफलं जन्म जीवनं सार्थकं मम । पूजितासि मया सा च या श्रीकृष्णेन् पूजिता ॥ ३॥ कृष्णवक्षसि या राधा सर्वसौभाग्यसंयुता । रासे रासेश्वरीरूपा वृन्दा वृन्दावने वने ॥ ४॥ कृष्णप्रिया च गोलोके तुलसी कानने तुया । चम्पावती कृष्णसंगे क्रीडा चम्पककानने ॥ ५॥ चन्द्राक्ली चन्द्रवने शतश्रिङ्गे सतीति च । विरजादर्पहन्त्रि च विरजातटकानने ॥ ६॥ पद्मावती पद्मवने कृष्णा कृष्णसरोवरे । भद्रा कुञ्जकुटीरे च काम्या च काम्यके वने ॥ ७॥ वैकुण्ठे च महालक्ष्मीर्वाणी नारायणोरसि । क्षीरोदे सिन्धुकन्या च मर्त्ये लक्ष्मीर्हरिप्रिया ॥ ८॥ सर्वस्वर्गे स्वर्गलक्ष्मीर्देवदुःखविनाशिनी । सनातनी विष्णुमाया दुर्गा शंकरवक्षसि ॥ ९॥ सावित्री वे! दमाता च कलया ब्रह्मवक्षसि । कलया धर्मपत्नी त्वं नरनारायणप्रसूः ॥ १०॥ कलया तुलसी त्वं च गङ्गा भुवनपावनी । लोमकूपोद्भवा गोप्यः कलांशा हरिप्रिया ॥ ११ ॥ कलाकलांशरूपा च शतरूपा शचि दितिः। अदितिर्देव्माता च त्वत्कलांशा हरिप्रिया ॥ १२॥ देव्यश्च मुनिपत्न्यश्च्ज त्वत्कलाकलया शुभे । कृष्णभक्तिं कृष्णदास्यं देहि मे कृष्णपूजिते॥ १३॥ एवं कृत्वा परीहारं स्तुत्वा च कवचं पठेत् । पुरा कृतं स्तोत्रमेतद् भक्तिदास्यप्रदं शुभम् ॥ १४॥ ॥ इति श्री ब्रह्मवैवर्ते श्रीराधायाः परिहारस्तोत्रं सम्पूर्णम् ॥