अक्षर आकार:

श्रीमद्राधादेव्या नाम्नामष्टादशशती

1800 names of Radha

श्रीमद्राधादेव्या नाम्नामष्टादशशती

(श्रीकृष्णयामले महातन्त्रे) चतुर्विंशोऽध्यायः ब्राह्मण उवाच ततः सा त्वरया वृन्दा दासी कृष्णस्य योगिनी । सम्मुखस्था महादेव्या गृहीत्वा करपङ्कजम् । अपृच्छन्मधुरालापा तन्नाम चरितानि च ॥ १॥ वृन्दा उवाच किं ते नाम महादेवि तन्मे कथय सुव्रते । मया त्वं कृत्ययाविष्टा लक्ष्यसे मन्दगामिनि ॥ २॥ श्रुतमस्ति मया किञ्चित्तदाकर्णय सुव्रते । परब्रह्मस्वरूपस्य कृष्णस्याऽद्भुतरूपिणः ॥ ३॥ देहाद्विनिर्गता पूर्वं राधिका सकलाधिका । तां दृष्ट्वा रूपिणीं देवीं स्वयं कृष्णो मुमोह सः ॥ ४॥ ततस्तुष्टाव विकलो राधा राधेति जल्पकः । तामेव नीलराजीवलोचनीं शोकमोचनीम् ॥ ५॥ ततः सा च महादेवी भुवनेश्याऽवरोधिता । कृष्णदेहोद्भवाऽप्यद्य रतिभीताऽद्रवत् क्षणात् ॥ ६॥ हस्तप्राप्तां च तां देवीं न स जग्राह केशवः । प्रेमभङ्गभयात् साऽपि ततश्चान्तर्दधे क्षणात् ॥ ७॥ अन्तर्हितायां राधायां तत्कामासक्तचेतनः । चिन्तयामास विश्वात्मा कथं मद्वशगा भवेत् ॥ ८॥ अपूर्वरूपसम्पन्ना नवयौवनगर्विणी । तत्र चिन्तयतस्तस्य कृष्णस्य परमात्मनः ॥ ९॥ देहादाविर्बभूवाऽसौ परब्रह्मस्वरूपिणी । समस्तलोकजननी श्रीमत्त्रिपुरसुन्दरी ॥ १०॥ यथा कृष्णे न भेदोऽस्ति परमानन्दरूपिणी । बहुरूपा च सा देवी ततो जाताः सहस्रशः ॥ ११॥ अनङ्गकुसुमाद्याश्च नित्यलीला महाबलाः । नानारूपधराः सर्वा नानाशक्तिसमन्विताः ॥ १२॥ अन्वेषणाय राधायाः प्रेषिता विश्वरूपया । राधया चापि ताः सर्वा निर्जिता निजमायया ॥ १३॥ तच्छ्रुत्वा त्रिपुरादेवी योगिनी त्रिपुरातनी । चकार कर्म तद्दिव्यं मन्त्रमुद्रासमन्वितम् ॥ १४॥ संक्षोभणं द्रावणं च वश्याकर्षणमादनम् । त्रिखण्डाद्या मुद्रिकाश्च वश्यकर्मकुतूहलाः ॥ १५॥ याभिर्विरचिताभिश्च का स्त्री न स्याद्वशङ्गता । मायया मोहिता याश्च उन्माद्यन्त्यो मनस्विनि ॥ १६॥ न जाने कीदृशी तासां गतिर्भवति शोभने । त्रिपुरा त्रिजगद्धात्री साक्षाद्या भगवत्तनुः ॥ १७॥ तया विरचिता माया न कस्या वा हरेन्मनः । न जाने कासि देवी त्वं किं ते नाम प्रकाश्यताम् ॥ १८॥ नवलावण्यवश्याभिः समाप्लावितविग्रहाः । न क्वापि कापि मे दृष्टा सृष्टाविह विहारिणी ॥ १९॥ ब्राह्मण उवाच इत्युक्ता सा महादेवी कृष्णदेवस्य वल्लभा । वाणीं सुमधुरां कान्तामकरोदतिथिं मुखे ॥ २०॥ श्रीराधिका उवाच न जानामि कुतो जाता कस्मादत्र समागता । किं मे नाम न जानामि स्वभावचपलाऽस्म्यहम् ॥ २१॥ एकं स्मरामि पुरुषं श्यामलं पुरुषाकृतिम् । तत्कटाक्षबाणभिन्नहृदया हृदयाम्बुजे ॥ २२॥ रिरंसुरपि तं दूरे भयात् प्रथमसङ्गमे । दैवादहं गता दूरे नीपमूलादिति स्मरे ॥ २३॥ ब्राह्मण उवाच ततो वृन्दा भगवती भूयः प्रोवाच कामिनी । तामेव राधिकां देवीं प्रणयाविष्टमानसा ॥ २४॥ वृन्दा उवाच कथयस्व महेशानि नाम किं ते सुखावहे । रूपं दृष्ट्वा मोहितायै मह्यं शुश्रूषवे परम् ॥ २५॥ रूपमीदृङ्नाम कीदृक् सुधासहचरं भवेत् । इति व्याकुलिताया मे सत्यमान्दोलितं मनः ॥ २६॥ करुणाकरुणापूर्णमरुणायतलोचने । यद्यस्ति कुरु चेतस्त्वं मम शोकविमोचने ॥ २७॥ श्रीराधिका उवाच श‍ृणु ते कथयिष्यामि वृन्दे वृन्दारवन्दिते । अष्टादशशतीं नाम्नां वेदागमसुगोपिताम् ॥ २८॥ पवित्रां परमां पुण्यां पापसंहारकारिणीम् । श्रीकृष्णविरहाक्रान्तमनसो यदि नो सुखम् ॥ २९॥ तथापि तव सौभाग्यान्मुखे वाणीं युनज्म्यहम् । यत्ते प्रवर्त्तयिष्यामि प्रवर्त्त्यं न कदाचन । केभ्योऽपि प्राणतुल्येभ्यो भक्तेभ्योऽपि विशेषतः ॥ ३०॥ अस्याऽष्टादशशतीनामस्तोत्रस्य नारदऋषिरनुष्टुपछन्दः श्रीकृष्णाऽभिन्ना राधारसमयीशक्तिर्देवता पुरुषस्य पुरुषार्थचतुष्टय- साधने श्रीराधानाम्नामष्टादशशतीपाठे विनियोगः । ॐ राधा परमा शक्तिः श्रीकृष्णप्राणवल्लभा । नित्या रसमयी शुद्धा प्रबुद्धा बुद्धरूपिणी ॥ ३१॥ कमला कमलास्या च कमलासनवन्दिता । कमलासना कामिनी च कान्ता कान्तमनोहरा ॥ ३२॥ कान्तिमत्यनुरागाढ्या कामकेलिविलासिनी । वृन्दारण्येश्वरी वृन्दा वृन्दारकमनोरमा ॥ ३३॥ विश्वेषां जननी विश्वा विश्वपालनकारिणी । विश्वाधारा विश्वरूपा विश्वसृष्टिविकासिनी ॥ ३४॥ विश्वेश्वरी विश्वमाया विश्वसंहारचारिणी । अमृता मोक्षदा मोक्षा मोक्षलक्ष्मीः सुलक्षणा ॥ ३५॥ नित्यं विलासरसिका नित्यं कौतुकलम्पटा । गोपी राज्ञी शशिमुखी खञ्जनाक्षी च खञ्जना ॥ ३६॥ क्रीडानिकुञ्जनिलया कदम्बतरुवासिनी । अभक्तोत्सारणकरी सदा प्रणतवत्सला ३७॥ जगन्मोहा मोहरूपा गजेन्द्रमृदुगामिनी । नितम्बिनी कामदेवजयजङ्गमदेवता ॥ ३८॥ शिवदा विपदुद्धारकारिणी विजयप्रदा । विजया भामिनी देवी श्रीमती रतिलालसा ॥ ३९॥ मदोन्मत्ता मादिनी च दीप्ता त्रैलोक्यसुन्दरी । वृषभानुसुता दुर्गा दुर्गोत्तारणकारिणी ॥ ४०॥ श्रीवृन्दावनचन्द्राक्षिचकोरवरचन्द्रिका । लावण्यवश्या स्नाताङ्गी पूर्णामृतरसोदया ॥ ४१॥ अनन्तानन्तचरिताऽनन्तविक्रमचातुरी । अरूपा अधिकाकारा अमिता अहिता हिता ॥ ४२॥ अलीकहीना अध्यास्या अरिष्टगणभञ्जनी । अरिक्ता अघृताशक्ता अत्युज्ज्वलसमुज्ज्वला ॥ ४३॥ अत्यद्भुता अविकृतिरविचारविवर्जिता । अवचोगोचरा व्यक्तिरमनो वर्त्मगामिनी ॥ ४४॥ अनुच्छ्वसन्मानसा च अतिकान्तिकलापिनी । अजन्मा कर्मसुकृता अमला अतिसुन्दरी ॥ ४५॥ अभिरामाऽभिचलिताप्यभिसारविहारिणी । अतीवरतिसञ्चारिमानसा चातिकामुकी ॥ ४६॥ अनङ्गरङ्गचतुरा चाङ्गसङ्गतचन्दना । अपाङ्गभङ्गसञ्चारा अतिथिप्रियसेविनी ॥ ४७॥ अमराधिताङ्घ्र्यब्जा अलिका कलिकाकुला । अचिन्त्यरूपचरिता अधिकानन्दशालिनी ॥ ४८॥ अमन्दरससम्पन्ना अकला चाकुला तथा । अकाला चाकृतिरताऽप्यचला चलसन्निभा ॥ ४९॥ अमन्दा अरुणाक्षी च अरुणारुणिमाधरा । अपराधभञ्जिनी च अखला चाबला तथा ॥ ५०॥ अगलन्ती छलाढ्या च अम्बुदागमहर्षिता । अम्बरावीतसर्वाङ्गी अम्बुराशिनिवासिनी ॥ ५१॥ अतलाघातिनी चापि अनिलानलरूपिणी । अफलाढ्याप्यभीता च अमूलाप्ययमादरा ॥ ५२॥ अरविन्देक्षणाऽलास्याऽप्यबोधा चाहृदर्पिता । अक्षमालाधरा चाक्षकुन्तकाप्यक्षणेक्षणा ॥ ५३॥ अकामाऽकालमिलिता अकान्ताऽगामिनी तथा । अचारिका जालगता अतानाऽतान्तरूपिणी ॥ ५४॥ अदान्ताऽघारिणी चैव अलास्याऽपालिता तथा । अवारिताप्यभाव्या च अमाल्या मार्द्दवाऽपरा ॥ ५५॥ आकल्पाकलिता कल्या चाक्वणन्मणिनूपुरा । आकम्रा कमिता कम्प्रा चाकुञ्चितशिरोरुहा ॥ ५६॥ आखेलमाना खेला च आखेटकविहारिणी । आलस्येन विहीना च आलया लास्यकारिणी ॥ ५७॥ आगमोक्ताद्दऽप्यगणिता आगमे गोपिता गता । आघृणा चञ्चलाऽभ्यर्च्या आज्ज्वलज्वलनोज्ज्वला ॥५८॥ आतन्वती रतिकथामादरोदारभाविता । आनतानतिसुप्रीता चापन्नैरापदि स्मृता ॥ ५९॥ आफलितावृता वीता भासयन्त्यभया तथा । आमूलरससंस्निग्धहृदयाऽऽमयवर्जिता ॥ ६०॥ आयता रतिशीला च आलीढा हसितानना । आबुद्धाप्याश्रिताऽखिन्ना हाररूपा च जीविनाम् ॥ ६१॥ आक्षोदा क्षीणमध्या च आक्षालनकरी तथा । इन्दीवरवरामोदा इन्दुकोटिसुशीतला ॥ ६२॥ इच्छामयीष्टा शिष्टानामिन्दीवरवनप्रिया । इनसेवनसन्तुष्टा इकास्येभा मदागमा ॥ ६३॥ ईश्वरी ईशवशगा चेक्षणाह्लादकारिणी । ईहमाना ईतिहीना ईडिता सर्वदैवतैः ॥ ६४॥ उमा उचितकर्त्री च उक्तिप्रत्युक्तिकारिणी । उन्मदाऽप्युषितोल्लासा चोच्चैस्तेजोभिरुज्ज्वला ॥ ६५॥ उग्रा चोग्रप्रभा उल्काप्युक्षवाहनसेविता । उच्चस्वराऽप्युदीर्णा च उन्नीतोन्वयशालिनी ॥ ६६॥ उच्चार्यमाणचरिता चोद्धतोद्धारकारिणी । उपपन्नाऽप्युन्मनाश्च उपपातकपातिनी ॥ ६७॥ उदाराऽप्युन्नसोपायाऽप्यूरीकृतजगत्त्रया । उल्ललन्ती तथोल्लोलाऽप्युच्छ्रितोच्छ्रायकारिणी ॥६८॥ उछ्वासाऽप्युच्छ्वसद्वक्त्रा उच्छ्वासनविवर्जिता । उषा उषःकालगता उषसिप्रतिचिन्तिता ॥ ६९॥ उत्साहवर्धनकरी उत्सहन्ती परां व्यथाम् । उत्सेधोत्सेककलिता उत्सारितविदूषणा ॥ ७०॥ ऊर्ध्वोर्ध्वगमनी ऋक्षा ऋक्षवृन्दनिषेविता । ऋक्षव्यूहाभयङ्कारी ऋभुक्षा ऋक्षरूपिणी ॥ ७१॥ एकाकिनी त्वेधमाना एणाक्षी एकसेविता । ऐङ्काररूपिणी ऐक्यशालिनी ऐच्छिकी तथा ॥ ७२॥ ऐश्वर्येण विनार्च्या च ऐन्द्रिया चैन्द्रदायिनी । ओकःस्वरूपिणी ओघा ओघतारणकारिणी ॥ ७३॥ ओजस्विनी औचिती च औदरिक्यौर्द्धिकी तथा । कालिका कलिका कीला कीलालाकुलनिग्रहा ॥ ७४॥ कुलीना कुलधर्माढ्या कुचकुट्टलकुट्टिता । कृता कृतमयी कृत्या हीनाकृतिनिषेविता ॥ ७५॥ केलिलोला केलिरूपा कौलिकी कौलरूपिणी । कौलाचारपरा कौलैःसेविता कौलधर्मिभिः ॥ ७६॥ काञ्चनाङ्गी कण्टकिनी कण्टकेन विवर्जिता । कुत्साविहीना कन्दर्पदर्पसंहारकारिणी ॥ ७७॥ कलिन्दकन्या कूलस्था कालिन्दी कलनिःस्वना । काकी कङ्कतिका कङ्करूपिणी चैव किङ्करी ॥ ७८॥ काचा काचमयी चैव कच्छपी कज्जलोज्ज्वला । कटकर्त्री कटिपटी कटन्दीनिरता कटा ॥ ७९॥ कठोरा कठिनव्यक्ता कठिना कठिनस्तनी । कडारा काण्डसम्पूर्णा कण्डूः कण्डूतिकारिणी ॥ ८०॥ कुण्डा कुण्डलिनी कुण्डरूपिणी कुण्डसंस्थिता । कुण्डिना कुण्डिनस्था च कण्डोलस्थितिकारिणी ॥ ८१॥ कातरा क्वथिता क्वाथा कनकाचलवासिनी । काननी काननमयी काननेन स्तुता कदा ॥ ८२॥ काधारा कृपणा कूपा कूपशोषणकारिणी । कफप्रहारिणी चैव कैवल्यमोक्षदायिनी ॥ ८३ ।१ कामाकुला कूलहीना कर्मकार्मणकारिणी । कामदीप्ता काररूपा कलाढ्या काशिकामयी ॥ ८४॥ काशीश्वरप्रकाशा च कौशिकी कोशरूपिणी । कशा कशाताडिनी च केशिनी केशिसूदनी ॥ ८५॥ काष्ठा काष्ठिनी कुष्ठनाशिनी कुशजनकरी । कुशेशया कृशाङ्गी च कीशकेश्वरसेविता ॥ ८६॥ कुशला कुशलाढ्या च कुशला कलिका तथा । काषायवसना काष्ठा काष्ठिनी कुष्ठनाशिनी ॥८७॥ कूर्मजलकरी कंसध्वसिनी कसृतिक्षमा । काहारकारिणी कक्षा कक्षाकोटिविहारिणी ॥ ८८॥ कक्षरूपा कक्षमयी कौक्षेयककरी तथा । कुक्षिसंस्थापिता चैव कुक्षतिः कुक्षमाकरी ॥ ८९॥ चक्रपाणिश्च चकिता चक्राढ्या चक्रवर्तिनी । चामीकराकारगौरी चमूरुरमणीक्षणा ॥ ९०॥ चञ्चला चिञ्चिनाथेष्टा चञ्चदङ्गी च चिञ्चिका । चटका चटकप्रीता चण्डिका चण्डविक्रमा ॥ ९१॥ चित्तेशा चातकी चन्द्रा चन्द्रिका चन्द्ररूपिणी । चीनाचारपरा चैव चीनदेशभवा तथा ॥ ९२॥ चपला चम्पकामोदा चम्पकाङ्गी तथैव च । चयरूपा चयाकारा चारुरूपा चराचरा ॥ ९३॥ चरित्रचारिणी चर्व्यमानासुरनराधिपा । चतुश्चरिधरा चीरा चिरचारणचारिता ॥ ९४॥ चलाचलप्रिया चैव चलद्विन्दिमनोहरा । चाषरूपा चूष्यरसा चषकास्यतपायिनी ॥ ९५॥ चक्षुर्लक्षणयुक्ता च चरमाऽचरमाऽचला । टीका टङ्कारिणी चैव टलण्टलकरी तथा ॥ ९६॥ तिक्ता चैव तथा तङ्का तङ्किनी तङ्कवर्जिता । तिग्मा तकारसन्तुष्टा तिग्मवह्निप्रिया तथा ।१ ९७॥ तङ्कनी तङ्कमहिमा तच्छ्रीस्ताच्छील्यशालिनी । तुच्छहीना तेजिता च तज्जिता तज्जयात्मिका ॥ ९८॥ तटिनी तटरूपा च तडित्ताडनकारिणी । तडागनिलया ताड्या तडित्वत्प्रीतिदायिनी ॥ ९९॥ ताण्डवा ताण्डवप्रीता तण्डा ताण्डवितानना । तूणीरा तूणकुशला तुण्डिनी तुण्डभूषणा ॥ १००॥ तताततिकरी तानप्रिया तित्तिरिनिःस्वना । तोत्रा तोत्रकरा चैव तत्सत्तत्सन्निवेशिता ॥ १०१॥ ततिनी तडिनी चैव तथास्त्वितिवरप्रदा । तथागतागताभिज्ञा तथ्यवाणी तथैव च ॥ १०२॥ तथ्यातथ्यवता चैव तिथिस्तिथिपतिप्रिया । तदाराध्यतनुस्तन्वी तनुरूपा तनीयसी ॥ १०३॥ तानिनी तानरसिका तपस्या तपसारता । तपस्विनी तापहीना तापिनी तापसप्रिया' ॥ १०४॥ तृप्ता तेमनसुप्रीता तेमना ताम्यतीतमा । तापिनी तारिणी तारा त्रिनेत्रा त्रिशरीरिणी ॥ १०५॥ त्रयी त्राणकरी त्रेता त्रेतायुगसमुत्थिता । तरिस्तरणिसन्तुष्टा तरुणी तरुरूपिणी ॥ १०६॥ तरुणानन्दिनी तीररसिका तीरसंस्थिता । तला तल्लयमापन्ना तानोत्सवपरायणा ॥ १०७॥ तालाङ्करसिका तालप्रिया तिलकिनी तिला । तिलोत्तमा तुलाहीना तुलिता तृणकारिणी ॥ १०८॥ तुषिनी तुषहीना च तुष्टिस्तुष्टमनास्तथा । तृष्णा तृष्णावर्जिता च तोषिणी तोषकारिणी ॥ १०९॥ तक्षिणी तक्षरूपा च तक्षकादिनिषेविता । तीक्ष्णा तीक्ष्णप्रभा पाका पाकसम्पादिनी तथा ॥ ११०॥ पिकस्वरा पक्षिरता पक्षिराजनिषेविता । पक्षव्रतपरा चैव पक्षिणी पक्षरूपिणी ॥ १११॥ पूग पूगरता पङ्का पङ्काकुलसुदुर्लभा । पचिनी पाचिनी पृच्छा पृच्छाकुशलकारिणी ॥ ११२॥ पूज्या पूजनशक्ता च पञ्चानननिषेविता । पञ्चवक्त्रा पञ्चबाणमोहिनी पञ्चसेविता ॥ ११३॥ पञ्चत्वहा पञ्चपापनाशिनी च तथैव च । पञ्चमस्वरसन्तुष्टा पञ्चास्यक्षीणमध्यमा ॥ ११४॥ पाञ्चालिका पाञ्चजन्यनिनदा पिञ्जशालिनी । पञ्जरा पञ्जरस्था च पुञ्जिनी पुञ्जरूपिणी ॥ ११५॥ पटीसिन्दूरतिलका पटशाटीसमावृता । पाटला पुटिनी चैव पेटीपोटा तथैव च ॥ ११६॥ पठनासक्तहृदया पाठिनी पीडितासुरा । पणकर्त्री पाणिपद्मशोभिता पण्डिता तथा ॥ ११७ १। पाण्डित्यदायिनी चैव पिण्डदा पिण्डतोषिता । पतितोद्धारकर्त्री च पातिताऽमित्रसंहतिः ॥ ११८ १। पितृभक्तिरता चैव पुत्रिणी पुत्रदायिनी । पूतना पूतनाशत्रुः पृतना पृतनावती ॥ ११९॥ पोताधानाधानकर्त्री पोतनिस्तारकारिणी । पथिपूज्या पथिप्रज्ञा पथिकोच्छ्वासकारिणी ॥ १२०॥ पाथोरुहनिवासा च पृथिवी पृथिवीश्वरी । पदा पादपतद्भक्ता पिदधाना पिधायिनी ॥ १२१॥ पानीयजसमुच्चेताः पीनस्तनकटिद्वया । पुनःपुनारसावेशा पौनःपुन्यविधायिनी ॥ १२२॥ पन्थाः पान्थस्वरूपा च पान्थदुःखविनाशिनी । पापनाशी पुष्परता पवनोत्सुकमानसा ॥ १२३॥ पावकोज्ज्वलतेजाश्च पिबपिबेतिवादिनी । पीवरा पामरा प्राप्या पम्पापदविलासिनी ॥ १२४॥ पयस्विनी पयोजाढ्या पायसप्रीतमानसा । प्रियालकुसुमासक्ता परोन्मूलनकारिणी ॥ १२५॥ पारप्रदा पुराणार्च्या पूर्वोत्था पूर्वसेविता । पौर्वापर्यकरी चैव पलायनविवर्जिता ॥ १२६॥ पालनी पुलकाङ्गी च पाशहस्ता तथैव च । पृश्निगर्भावतारा च पिण्डघोरसुदुर्धरा ॥ १२७॥ पुष्टदेहा पुष्टरूपा पोष्यपोषणकारिणी । पौषमासनिदाघा च पाक्षिकी पक्षिनिःस्वना ॥ १२८॥ पक्षद्वयविधात्री च पक्षान्तार्हणतोषिता । खकृता खगतिश्चैव खगतिर्लधुपायिनी ॥ १२९॥ खगे खगी खगरुती खगनागस्वरूपिणी । खञ्जा खञ्जप्रिया चैव खञ्जनाक्षी च खञ्जनी ॥ १३०॥ खट्वारता च खड्वाङ्गघारिणी खेटकप्रिया । खण्डा खाण्डवदाहा च खण्डिता सुरयूथपा ॥ १३१॥ खादन्ती खाद्यमाना च खण्डहीना च खेदनी । खनित्री खननासक्ता खनिरूपा खनीलिभा ॥ १३२॥ खिन्ना खरतरा चैव खरांशुमालिनी तथा । खलखली खारकरी खलीनकुरुकाश्रया ॥ १३३॥ खलीना खिलहीना च खिलाखिलनिषेविता । गौर्गोभिःकमिता चैव गोखुरार्चनसंरता ॥ १३४॥ गगना गगनाधारा गोगता गोगणार्चिता । गोग्रहा गोग्रहाह्लादकारिणी च तथैव च ॥ १३५॥ गोधनाह्लादसन्तुष्टा गोघटा घटिता तथा । गङ्गा च गाङ्गता चैव गञ्जनी गञ्जनोज्झिता ॥ १३६॥ गुञ्जन्मधुव्रतरुता गुञ्जामालाविभूषणा । गणेश्वरी गणरता गणेश्वरनिषेविता ॥ १३७॥ गुणिता गुणपूर्णा च गौणा गुणविवर्जिता । गण्डा गण्डवती चैव गण्डकुण्डलमण्डिता ॥ १३८॥ गण्डकी चैव गाण्डीवधारिणी गेन्दुकप्रिया । गता गतिमती चैव गीता गीताप्रचारिता ॥ १३९॥ गोतनुर्गोतता गाथा गाथागानपरायणा । गदिता गदसंहन्त्री गोदानव्रतचारिणी ॥ १४०॥ गोधा गोधाङ्गुलित्रा च गोधान्यधनवर्द्धिनी । गानासक्तमना गन्त्री गन्धा गन्धवहा तथा ॥ १४१॥ गोपी गोपालसक्ता च गोपालबालपालिता । गोपगोपार्चिता चैव गोपतिप्रणयान्विता ॥ १४२॥ गोफला गोफलकरी गोवर्धनघरी तथा । गोबला गोबलीवर्दनर्दनोत्सवमानसा ॥ १४३॥ गोबालकलिताभूषा गोविन्दप्रेमलालसा । गोवाहनमनोज्ञा च गोवृता गोवनस्थिता ॥ १४४॥ गोभारभरणासक्ता गोभूता गोऽमृतप्रिया । गमिता गमने मन्दा गामिनी गोमती तथा ॥ १४५॥ गम्भीरी चैव गम्भीरा गयासुरनिषूदनी । गया गयावासिनी च गायत्री चैव गायनी ॥ १४६॥ गेया गोयानरसिका गरला गरलाकुला । गानोन्मत्तमणिश्रीका गिरन्ती च गिरामयी ॥ १४७॥ गीर्यमाणा गोरसाढ्या गोरसक्रयकारिणी । गौरी गोश्वसितामोदा गृष्टिरूपा तथैव च ॥ १४८॥ गोसारणकरी चैव गोसुलक्षणलक्षिता । गोसर्जनकरी चैव गहना गहनप्रिया ॥ १४९॥ गाहा गुहनिषेव्या च गुह्या च गृहदेवता । गेहिनी गोक्षमाधीरा घूका घूकारुतोत्सवा ॥ १५०॥ घाटिता घटिता चैव घाटावत्यपि घाटिका । घोटकाकारकलिता घण्टा घण्टाविमोदिनी ॥ १५१॥ घण्टाकर्णनिषेव्या च घाणामौक्तिकराजिता । घृणावती घातकरी घृतामोदविधायिनी ॥ १५२॥ घनानन्दा घनमयी घनाघननिषेविता । घनागमरकृतरतिर्धर्मागमसुशीतला ॥ १५३॥ घर्षणा घृष्टरूपा च घृष्टिर्घासाभिलाषिणी । छेकाछेक रवेलमाना छगली छागवाहिनी ॥ १५४॥ छागवाहनसेव्या च छटात्रैलोक्यमोहिनी । छत्राछत्रमयी छत्रछादिता छात्ररूपिणी ॥ १५५॥ छदाकर्णा छादिनी च छेदिनी छेदवर्जिता । छदरूपा छन्नरूपा छन्ननाम्नी तथैव च ॥ १५६॥ छिन्नमस्ता छन्नमूर्तिश्छन्नप्रच्छन्नकारिणी । छन्दा छन्दमयी चैव छन्दोगा छन्दसाम्प्रभुः ॥ १५७॥ छायामयी छायिनी च छायाकर्त्री छलप्रिया । छलाछलकरी छल्या जगन्नाथप्रियापि च ॥ १५८॥ जगतामुपकर्त्री च तथा जागरणक्षमा । जङ्गमा जङ्गमेशानी तथा जङ्गमचारिणी ॥ १५९॥ जटाजूटधारिणी च जडाजडनिपातिनी । जितामित्रा च जेत्री च जैत्रकर्मविधायिनी ॥ १६०॥ जननी जननीतिज्ञा जिनाचारपरायणा । जपा जप्या जपकरी जापिनी जीवधारिणी ॥ १६१॥ जीवापि जीवजीवातुर्जैवात्रिकमनोरमा । जडिनी जडसुप्रीता जमलार्जुनभञ्जिनी ॥ १६२॥ जेमना जेमनकरी जैमिनिस्तवनप्रिया । जम्बूलमालिकारक्ता जम्बूप्रीता च जाम्बवी ॥ १६३॥ जाम्बवत्यपि जम्बाला जम्बालकलिताऽपि च । जम्बुवत्सेविता चैव जम्बूनदविभूषणा ॥ १६४॥ जम्बीरविपिनासक्ता जम्बुकाननवासिनी । जृम्भापि जृम्भमानास्या जम्भसूदनवन्दिता ॥ १६५॥ जम्भप्रवैरिणी चैव जया च जयिनी तथा । जाया जेयविजेत्री च जरामरणवर्जिता ॥ १६६॥ जला जलमयी चैव जलेश्वरनिषेविता । जलवासा जालहीना जालक्षेपणकारिणी ॥ १६७॥ जक्षिणी जक्षसेव्या च जक्षिणीगणसेविता । जक्षराडभिलाष्या च झङ्कारा झङ्कृतिप्रिया ॥ १६८॥ झञ्झारूपा झटा चैव झिण्टीकुसुमपूजिता । झररूपा झषाकारा झषराशिनिषेविता ॥ १६९॥ ठं ठं ठनितिशब्दाढ्या ठद्वया ठठरूपिणी । डमड्डमरुहस्ता च ढक्कावाद्यविनोदिनी ॥ १७०॥ दण्डा दण्डधरा चैव दण्डपाणिनिषेविता । दात्री दूती दूत्यसक्ता दूतिसञ्चारकारिणी ॥ १७१॥ दानसञ्चारसन्तुष्टा दानद्विरदगामिनी । दण्डिनी दण्डधवला दान्ता द्वन्द्वविनाशिनी ॥ १७२॥ दन्दशूकसमाकारा दवाग्निवीर्यसम्भृता । दावम्थिता दविष्ठा च देवतागणसेविता ॥ १७३॥ देवी देववसुस्निग्धा देवकी देवकप्रिया । तथा दैवविधानज्ञा दैवविद्भिर्निषेविता १। १७४॥ दमरूपा दामिनी च दम्भा दम्भोलिविक्रमा । दम्भा दम्भवती चैव दया चापि दयामयी ॥ १७५॥ दायाढ्या दायरूपा च दूयमाना सुराधिपा । देयप्राप्या दराढ्या च दरहीना दरावहा ॥ १७६॥ दारिणी दूरलभ्या च दलपूर्णा दलप्रिया । दोलायमानसर्वाङ्गी दिव्यतेजःप्रकाशिनी ॥ १७७ १। दिव्या दिविविहारा च दिवारात्रिकरी तथा । दशदिग्ज्योतिनी चैव दशाफलविधायिनी ॥ १७८॥ दशादशकलादेशकालोचितपराक्रमा । दिशन्ती दाशरूपा च दोषलेशविवर्जिता ॥ १७९॥ दोषक्षयकरी दुष्टदूषणोद्धारकारिणी । दासीप्रिया दास्यकरी दासीगणविराजिता ॥ १८०० दहना दहनेशा च दाहनिर्मूलकारिणी । दहनी दीहमाना च दिहन्नितम्बशालिनी ॥ १८१॥ देहधात्री दौहिकी च दोहिनी दोहरूपिणी । दक्षा दक्षिणदिग्जाता दक्षिणा दक्षिणप्रिया ॥ १८२॥ दाक्षिण्यनिरता दीक्षा दीक्षाकृतिपरायणा । दीक्षितप्रणयाविष्टा दीक्षितातिवशस्थिता ॥ १८३॥ धिक्कारिणी च धटिनी धेटीकटिसुशोभिता । धेटिनी धेटरूपा च धृतश्रीर्धौतविग्रहा ॥ १८४॥ धन्या धनदसन्तुष्टा धन्वानोदनकारिणी । धूपिनी धूपसम्मोदा धवलाङ्गी च धाविनी ॥ १८५ १। धमिनी धामिनी धूम्रा धूमकेतुविनाशिनी । धूमयोनिकतप्रीतिर्धूम्रलोचनमर्दिनी ॥ १८६॥ धूमा धौम्या धौम्यरता ध्मायमानाऽम्बुजापि च । धिया प्राप्या धूयमाना ध्येया ध्यानविगोचरा ॥ १८७॥ धरणी धरणीशानी धरणीधरधारिणी । धाराधारमयी धाराधारिणी धीरपूजिता ॥ १८८॥ धुरन्धरा धोरणी च धौरीणव्रतचारिणी । धूलिधूसरगात्रा च धूसरा धूसरेक्षणा ॥ १८९॥ धिषणावत्सेविता च धिषणा धिषणावती । धूक्षन्ती नाकनिलया नाकनायकनायिका ॥ १९०॥ निकटस्था च नौका च नौकासन्तारकारिणी । नृकपालमालकण्ठा निकारान्तविधायिनी ॥ १९१॥ नखरा नखचन्द्रा च नसरेखाविभूषणा । नगगानगजा चैव नगराजनिवासिनी ॥ १९२॥ नागवाहनसन्तुष्टा नागिनी नागसेविता । नवला नाचला चैव नृचातुर्यकरी तथा ॥ १९३॥ निचोलाञ्चलसंवीता नैचिकीगणपूजिता । नौचला नोच्छलकरी नृच्छादनकरी तथा ॥ १९४॥ निजलोकशोकहरा नेजनी नौजनस्तुता । नृजनार्चनसन्तुष्टा नृसंहारकरी तथा ॥ १९५॥ नटिनी नटरूपा च नटनाटनकारिणी । नाट्यलीलाविनोदा च नाटिताखिलसंमृतिः ॥ १९६॥ नीजजारुतकर्त्री च नीजजाधिपवाहना । नतचेतोऽम्बुजस्था च निन्दानन्दमयी तथा ॥ १९७॥ नूतनातिनूतना च नेत्रत्रयविभूषिता । नेत्री नेत्रशोभिताङ्गी नास्वरूपा नदन्मुग्वी ॥ १९८॥ नादरूपा निदधती नौधराधरनिश्चला । नदस्वरा चैव तथा नानागुणसमन्विता ॥ १९९॥ नृणामप्रीतिहृदया नौनाशितभयावहा । नन्दिनी नन्दिता चैव नन्दनन्दनजीवनी ॥ २००॥ निन्दाहीना तथा नन्दा नीपमूलविनाशिनी । नृपतित्वप्रदा चैव नौपतिप्रतिसेविता ॥ २०१॥ नृफलैकप्रदात्री च नवनीतसुकोमला । नावनीतरसस्निग्धा निविडाश्लेषकारिणी ॥ २०२॥ नीविबन्धानुबन्धा च नभोगमनलालसा । नाभिह्रदगभीरा च निभासद्भास्करोज्ज्वला ॥ २०३॥ अपि नौभवनस्था च नमस्या नाममोहिनी । निम्ननाभिसुशोभा च नृमण्डलविभूषणा ॥ २०४॥ नेमिर्नेमिवती चैव नैमिषारण्यवासिनी । नित्यरूपा नित्यरसा नयनानन्दवर्धिनी ॥ २०५॥ नयधीरा नायिका च नियता नियतिप्रदा । नियमाचारसञ्चारा नरेन्द्रपरिसेविता ॥ २०६॥ नरान्तर्यामिनी चैव निरयान्तककारिणी । नारायणी नीरवासा नैरन्तर्या च नौरता ॥ २०७॥ नलसेव्या च नानाढ्या तथा नीलसरस्वती । नृलम्बनकरी चैव नौलम्बनकरी तथा ॥ २०८॥ नाशनी नाशरहिता नृशीलपरिशीलना । नौशान्धकारदलनी नोषरस्था च नोषिता ॥ २०९॥ नासावेषितमुक्ता च नृसज्जनसुतोषिता । नीहारालयपुत्री च निहतिर्निहतिक्रिया ॥ २१०॥ नीहारांशुसमाकारा तथा नौहरणोद्यता । नृक्षयकरी तथा चैव नौक्षालनकरी तथा ॥ २११॥ फटावती फणिपतिप्रथिता फणदीपिता । फेनशुभ्रा च फूत्कारा फेत्कारिण्यपि फेरुता ॥ २१२॥ फलदात्री फुल्लरूपा फुल्लस्तबकशोभिता । फल्गुरूपा फल्गुवाक्या फल्गूत्सवपरायणा ॥ २१३॥ बकलीला बाकला च वृकव्यूहविनाशिनी । वृकोदराऽग्निरूपा च बाता वाग्वागुपासिता ॥ २१४॥ विगता वेगिनी चैव विधातृभयनाशिनी । वचनारचनादक्षा वाचिकप्राणमोहिनी ॥ २१५॥ विचारचतुरा वीचिर्वीचिहन्त्री तयैव च । वज्रभूषा वज्रपाणिर्वज्रवैरोचनी तथा ॥ २१६॥ वाजिपृष्ठसमारूढा विजरा बीजरूपिणी । वञ्चकारुतसन्धात्री वञ्चकव्यूहवेष्टिता ॥ २१७॥ वटमूलनिवासा च वटाधिष्ठानकारिणी । विटजल्पितसुप्रीता विट्ठलेश्वरपूजिता ॥ २१८॥ विट्पूजिता च वडवा वाडवाग्निसमप्रभा । वीणावादनसुप्रीता वीणा वीणावती तथा ॥ २१९॥ वन्दनासक्तहृदया वसन्तोत्सवकातरा । वातपुत्री च वितनुध्वजिनी वीतविद्रवा ॥ २२०॥ वृतकन्दर्पमित्रा च वेत्रपाणिस्तथैव च । वदावदप्रिया चैव वादिनी विदरा तथा ॥ २२१॥ वेदरूपा वेदवती वैदर्भीवधकारिणी । बाधा बाधानाशिनी च विधन्वा विधुरूपिणी ॥ २२२॥ विधिशीला बुधा बोध्या वेधःपूज्या च वैधसी । बोधिता बोधशीला च बौद्धा बौद्धक्रियाप्रिया ॥ २२३॥ वनस्थिता वानप्रस्था विनेत्रा वृन्तरूपिणी । वन्दनप्रीतचित्ता च वन्दिता वन्दितप्रिया ॥ २२४॥ वृन्दारवृन्दवीता च वृन्दावनविलासिनी । बन्धनापन्नाशिनी च बन्धुजीवारुणाधरा ॥ २२५॥ वन्ध्यापत्यप्रदा चैव बान्धवाप्रीतमानसा । वपनोत्सवसंसर्पा वनिता विपणिस्थिता ॥ २२६॥ वरवरस्रवद्रक्ता विवरान्तरचारिणी । विभीर्वैभवसम्पूर्णा वमितासुरपुङ्गवा ॥ २२७॥ वामा च वामदेवार्च्या विभनोहृदयस्थिता । बिम्बाधरा व्ययाढ्या च वैयासकिनिषेविता ॥ २२८॥ वरारोहा वारिणी च विरहानलकीलिता । वीरा वीर्ययुता चैव वीरणप्रीतिमानसा ॥ २२९॥ वैरिनिष्कम्पिनी चेव बलसूदनदुर्लभा । बलरामाभिरामा च बलविक्रमकारिणी ॥ २३०॥ बाला बिलप्रविष्टा च विलम्बकरणक्षमा । वशंवदा विशाखेशा वेशचारुविलासिनी ॥ २३१॥ वैशम्पायनपूज्या च वषड् विषविनाशिनी । वृषासुरनिहन्त्री च वृषरक्षणकारिणी ॥ २३२॥ वौषट्वसनशून्या च वास्तुयागसुतोषिता । विसिनीदलवासा च वाहिनी वाहिनीस्थिरा ॥ २३३॥ विहारकारिणी चैव बृहती वैहायसी तथा । वक्षोरुहयुगोत्तुङ्गा विक्षालनकरी तथा ॥ २३४ ०। वृक्षश्रेष्ठाग्रनिलया भेकप्लुतिविनाशिनी । भगभालालङ्कृता च भगवत्यपि भागिनी ॥ २३५॥ भाग्यवत्ती तथा चैव भृगुसेवनतोषिता । भोगिनी भोगदा भोग्या भङ्गभीतिविनाशिनी ॥ २३६॥ भृङ्गरङ्गसङ्गमा च भजनस्निग्धमानसा । भाजनश्रीवृद्धिकरी भुजान्दोलविलासिनी ॥ २३७॥ भोज्यभोजनसन्तुष्टा भञ्जनी भटदुर्घटा । भुवनासक्तवदना भण्डमण्डनकारिणी ॥ २३८॥ भाण्डवत्यपि भाण्डाङ्गी भीता भूतरानिषेविता । भृता भृत्यप्रिया चैव भौतचेष्टाविधायिनी ॥ २३९॥ भिदाकर्त्री भेदहीना भूपगोष्ठीसमर्चिता । भापपदप्रदात्री च भवेन परिभाविता ॥ २४०॥ भाविनी भुवनप्रीता तथा भामा च पम्भामिनी । भीमवीर्यपोषणी च भूआंमभूंमगुणाबूता ॥ २४१॥ भौमस्थानप्रदात्री च भौमग्रहसुपूजिता । भयहीना भवोद्भ्रान्ता भारोत्तोलनकारिणी ॥ २४२॥ भीरुर्भूरिगुणोपेतसेविता भेरिनिःस्वना । भेरुण्डा भैरवी चापि भूलम्बनकरी तथा ॥ २४३॥ भृशदुरितनिहन्त्री च भाषिणी भिषगर्चिता । भीषणा च भुशुण्ड्यस्त्रा भूषणेन विभूषिता ॥ २४४॥ भेषजाशननीरोगा भैषज्यपददायिनी । भक्षिणी चैव भिक्षुश्च भिक्षाकर्मकलापिनी ॥ २४५॥ भूक्षयकलालोला च तथा भैक्ष्यविधायिनी । भैक्षाचारसुसन्तुष्टा मकराकृतिकुण्डला ॥ २४६॥ मुक्ता मुक्तनिषेव्या च मुक्ताहारविहारिणी । मृकण्डुतनयार्च्या च मृकण्डपरिखण्डिनी ॥ २४७॥ मौक्तिकाभासुररदा मखकर्मसमर्हिता । मेखला कटिबन्धा च मौखर्यपरिवर्जिता ॥ २४८॥ मृगशिरसि जाता च मृगचर्मोपवेशिता । मृगपत्नीलोचनी च मुग्धा मुग्धनिषेविता ॥ २४९॥ मघवद्विक्रमकरी मोघीकृतरिपुव्रजा । मेघकेशी मङ्गली च तथा मङ्गलदायिनी ॥ २५०॥ मज्जावती मृजाशीला मञ्चस्था मञ्जुवागपि । मोटिनी मठमध्यस्था मृडानी मेढूचक्रगा ॥ २५१॥ मणिमण्डपमध्यस्था मणिराजिविराजिता । मणिपत्रस्थिता चैव तथा माणवकाकृतिः ॥ २५२॥ मृणालाभभुजायुग्मा मृणालशयनोत्सुका । मण्डलान्तरसंस्था च मुण्डमालासमाकुला ॥ २५३॥ मताभिज्ञा मातलीष्टा मित्रसंसर्गतोषिता । मृतसत्कारकर्त्री च मैत्रवर्त्मप्रकाशिनी ॥ २५४॥ मथनी मदपूर्णा च मादिनी मुदिता तथा । मृदिता मेदुरा चैव मोदिनी मौदिरप्रदा' ॥ २५५॥ मधुमाध्वीकमत्ता च माधवीपुष्पसौरभा । मृधनिर्जयिनी चैव मनोविषयजृम्भिता ॥ २५६॥ मानिनी मीननेत्रा च मुनिराजनिषेविता । मौनिनी च तथा चैव मन्थानदण्डधारिणी ॥ २५७॥ मन्दारकुसुमार्च्या च मान्द्यवर्जनकारिणी । मयदानवसंसेव्या मायाहीना च मायिनी ॥ २५८॥ मयूरनिनदाप्रीता मयूररुतकारिणी । मरणत्रासहन्त्री च मारोद्दीपनकारिणी ॥ २५९॥ मुरागन्धप्रिया चैव मललेशविनाशिनी । मालाशोभितसर्वाङ्गा मिलन्ती मीलयन्त्यपि ॥ २६०॥ मूलरूपा मौलिका च मेधामैश्वर्यदायिका । मिषन्ती मूषिकाकारा मूषिकांशुवरप्रदा ॥ २६१॥ मेषादिनी मोषहीना मासव्रतपरायणा । मोहिनी मक्षिकारूपा मेक्षणी मोक्षदायिनी ॥ २६२॥ यागप्रिया युगकरी योगिनीकोटिवल्लभा । यौगिकी याचमाना च यच्छन्ती यजनक्रिया ॥ २६३॥ याजयन्ती तथा चैव योजनायामविस्तृता । योटनी यतमाना च यातनाक्षयकारिणी ॥ २६४॥ यदुवंशक्षयकरी यानमङ्गलचारिणी । योनिरूपा यौवनाढ्या युवलोकविलोकिता ॥ २६५॥ यमभीतिक्षयकरी यामिनी यमुना तथा । यावद्गुणसुसम्पन्ना यशस्या च यशस्विनी ॥ २६६॥ यशोदामोहिनी चैव योषाकुलशिरोमणिः । रुक्मिणी रागरसिका रुगपेता च रोगहृत् ॥ २६७॥ राघवी राघवप्रीता रंङ्कानुग्रहकारिणी । रङ्गदा रिङ्गणकरी रोचिःसञ्चारकारिणी ॥ २६८॥ रुचिरा रौचिकी चैव राजलक्षणलक्षिता । रुजासञ्चारकर्त्री च रञ्जना रटनोत्सवा ॥ २६९॥ रणदुर्मदमत्ता च रतकालविलासिनी । रीतिज्ञा रुतघोरा च रथलक्षपुरोगता ॥ २७० १। रदद्वयस्मेरयुता राधिता रोधकारिणी । रोधोविनाशिनी चैव रन्धनाकुलविग्रहा ॥ २७१॥ रूप्यभाण्डा रूपवती रोपणी रवकौतुका । राविणी रेवती रेवा तथा रैवतकस्थिता ॥ २७२॥ रमा च रमणी चेव रामणीयकमयुता । रोमराजीराजिता च रम्भा रम्भावनस्थिता ॥ २७३॥ रयकर्त्री रोषकरी रुष्टा रसितकौतुका । रासावेशविलासा च रोहिणी रक्षिणी तथा ॥ २७४॥ राक्षसेश्वरसेव्या च रूक्षा लकुचवेष्टिता । लगिता लग्नसञ्चारा चापि लग्नमयी तथा ॥ २७५॥ लधुबुद्धिप्रदा चैव लङ्कापुरनिवासिनी । लैङ्गवर्त्मप्रकाशा च लिङ्गरूपा च लिङ्गिनी ॥ २७६॥ लङ्घनी च तथा लज्जा लज्जाभरधरा तथा । लाजविक्षेपणी चैव लाङ्गुली लाङ्गुलान्विता ॥ २७७॥ लाता लोडनकर्त्री च लूतातन्तुप्रसारिणी । लूनामित्रा च लपनी लापसंलापकारिणी ॥ २७८॥ लोपामुद्रा लाभकत्री लोभहीना च लोभनी । लोमशाराघ्यचरणा लम्बनी लम्भनी तथा ॥ २७९॥ लयहीना लयगता लयनान्तरशायिनी । लालामयी ललज्जिह्वा लास्यकर्त्री च लासिका ॥ २८०॥ लक्षसेव्या च लाक्षाभा लाक्षारागानुरागिणी । वुद्धिप्रदा बुद्धिरता बुद्धिरूपा तथैव च ।१ ९८१॥ शक्तिः शाकम्भरी चैव शिक्यनिर्माणकारिणी । शुकपोषणकर्त्री च शुकदेववरप्रदा ॥ २८२॥ शूकराकृतिकर्त्री च शूकधान्यसुतोषिता । शोकापनोदिनी चैव शाखिनी शिखिसत्प्रभा ॥ २८३॥ शाङ्करी शङ्करा चैव शङ्खिनी श‍ृङ्गधारिणी । शाटीपटसमुद्दीप्ता शठलोकबिभर्त्सनी ॥ २८४॥ शाढ्यहीना तथा चैव शणसूत्रशिरोरुहा । शूलपाणिः शोणनेत्रा शातकुम्भस्तनद्वयी ॥ २८५॥ शितबाणा शीतमूर्तिः शोथघ्नी शुद्धरूपिणी । शान्ता शान्तिमती चैव शिञ्जिता सज्जनप्रिया ॥ २८६॥ शपथा शान्तहृदया शापमोचनकारिणी । शफरीनयनी चैव शिफारूढा शवासना ॥ २८७॥ शावपोष्ट्री शिवोपास्या शिवा च शेवधिस्तथा । शिविका शिविकारूढा शैववर्त्मप्रदायिनी ॥ २८८॥ शोभाकरी शमवती शामिन्यपि च शेमुषी । शम्पामध्या शम्बरारिवारिणी शाम्बरी तथा ॥ २८९॥ शम्भुरूपा शाम्भवी च शम्भुमूर्ध्निस्थितापि च । शयनोच्छ्वसिता चैव शायिता शरवारिणी ॥ २९०॥ श्रीः श्रीमन्निषेव्या च श्रीफलाधःस्थिता तथा । शारिणी शिवमूर्द्धा च शिवहस्ता तयैव च ॥ २९१ ।१ शूरसेव्या शैवहस्तप्रददा शौरकर्मिणी । शलभोद्धारिणी चैव शालानिर्माणकारिणी ॥ २९२॥ शिलावृष्टिकरी शीलशालिनी शूलिनी तथा । शैलतुल्या श्वरीना च श्वापदव्यूहवेष्टिता ॥ २९३॥ श्वेतासना श्वैत्यवती श्वाती श्वसनकारिणी । श्वासानिलसुगन्धा च शशचर्मनिवासिनी ॥ २९४॥ शैशवाढ्या शेषहीना शोषणी शासिनी तथा । शिक्षाकरी सुकण्ठी च सेककर्त्री सुकोमला ॥ २९५॥ सुखप्रदा सौख्यरूपा सगरान्वयतारिणी । सागरास्था च सुगदध्वंसिनी सङ्करप्रिया ॥ २९६॥ साङ्गोपाङ्गक्रियाध्यक्षा सङ्घसञ्चारकारिणी । सज्जनाह्लादजननी सुजनी सञ्जयार्चिता ॥ २९७॥ सितपद्मदलप्रीता सुतनुः सूत्ररूपिणी । सृता च सदरा चैव सादरा सीददुद्व्यथा ॥ २९८॥ सुदया सुदरा चैव सोदरप्रीतिकारिणी । सधवा च तथा साध्वी सिद्धा सीधुनिपायिनी ॥ २९९॥ सुधन्वा च तथा सेनाकोलाहलविधायिनी । सैन्यमूर्द्धासन्दलनी सन्देशहारिणी तथा ॥ ३००॥ सान्द्रानन्दा च सिन्दूरमण्डितालिकमण्डला । सुन्दोपसुन्दहन्त्री च सौन्दर्यसर्वमोहिनी ॥ ३०१॥ सन्धिविग्रहकार्या च सन्धात्री सन्ध्ययार्चिता । सन्ध्या सिन्धुस्वरूपा च सिन्धुमज्जनकारिणी ॥ ३०२॥ सैन्धवी सैन्धवश्रीका सुपदा सूपकारिणी । सौपद्यदायिनी चैव सवृत्तिः सावरा तथा ॥ ३०३॥ सुवर्णालङ्कारधात्री सौवर्णप्रभवोज्ज्वला । सभासभ्यघिकर्त्री च साभा च सुभगा तथा ॥ ३०४॥ समा साम्यविहीना च सीमन्तोत्सवकारिणी । सृमरा सोमभावा च सोमवर्त्मप्रसारिणी ॥ ३०५॥ सम्पन्ना च तथा सम्पत् सम्पद्दात्री तथैव च । संवृता च तथा सम्भाषणकौशलकारिणी ॥ ३०६॥ शुम्भनिशुम्भहन्त्री च सम्पन्ना सायतिस्तथा । सरःस्था सारसी चैव सुरसा सुरसाधिता ॥ ३०७॥ सौरस्यदायिनी चैव सनया सानया तथा । सुनीला स्वच्छबुद्धिश्च तथा स्वाच्छन्द्यकारिणी ॥ ३०८॥ रचनामृतवर्षिणी च स्विन्ना स्वप्नावती तथा । स्वयम्भूपूजिता चैव स्वयम्भूः स्वात्मदीपनी ॥ ३०९॥ स्वरसप्तकसङ्गीतरङ्गिणी स्वात्मभाविनी । स्वाहा स्वधा स्वाक्षरा च तथापि स्वामिवल्लभा ॥ ३१०॥ सक्षता साक्षिणी चैव सुक्षोदा सूक्षिता तथा । हुङ्कारिणी तथा हूट्टवासिनी हठकारिणी ॥ ३११॥ हतिहन्त्री हुतप्रीता हुतासुरमहाहना । हूतपापा हेतिहस्ता होतृरूपा तथैव च ॥ ३१२॥ हौतासनप्रभाकर्त्री हृदम्बुजनिवासिनी । हननारिप्टहृदया हीनदोषा तथैव च ॥ ३१३॥ हम्भारवाकालनोत्था हृदयानन्दशालिनी । हयवाहनसुप्रीता हायनज्ञानदायिनी ॥ ३१४॥ हूयमाना हरिप्रीता हारिणी हीरकोज्ज्वला । हलिदर्शनक्रीम्भारा हलाहलनिपायिनी ॥ ३१५॥ हिलिहिलीतिकर्त्री च तथा हुलहुलिप्रिया । हेलाकरी ह्ववालन्ती च ह्वालयन्ती तथैव च ॥ ३१६॥ हेषारवसमोदा सा हसन्ती हासविह्वला । हाहा हाहाकरी चैव हूहू गन्धर्ववेष्टिता ॥ ३१७॥ हैहयार्चिततजाश्च क्षतिकर्त्री क्षितिस्थिता । क्षुतकर्त्री क्षेत्ररूपा क्षेत्रपालनिषविता ॥ ३१८॥ क्षौतदोषप्रशमनी क्षुद्रा च क्षोदिना तथा । क्षौद्रकप्रीतहृदया क्षिपन्ती क्षोभवर्जिता ॥ ३१९॥ क्षमावती तथा क्षामाक्षरोल्लापविलासिनी । क्षेमङ्करी क्षौमवस्त्रा तथा क्षयविवर्जिता ॥ ३के ०॥ क्षरहीना भक्तजना क्षारहीना तथैव च । क्षारप्रीताक्षरप्राप्या क्षालनी क्षालनप्रिया ॥ ३२१॥ अघमर्दन्यङ्कजा च अङ्गप्रत्यङ्गकोमला । अच्छीकरणदक्षा च अजमाया तथैव च ॥ ३२२॥ अञ्चलीचञ्चला चैव अञ्जनारञ्जनी तथा । अटवीरटनप्रीता अतलाधःस्थिता तथा ॥ ३२३॥ अवनी अमरारातिकोटिकोटिनिपातिनी । अयस्थिता अरालभ्रुरशक्ताऽशकला तथा ॥ ३२४॥ अशया अशरा चैव अशलाकाशकोज्ज्वला । अस्वप्ना असहा चैव अहन्त्री अक्षवृत्तिगा ॥ ३२५॥ आकाशवासिनी चैव आगतापि तथैव च । आधारसुस्थिता चैव अचलादलकाह्वला ॥ ३२६॥ आचाररचिताचार्या आजिमध्यप्रवेशिनी । आयसा आरकूटस्था आलस्यक्षयकारिणी ॥ ३२७॥ आशंसाकर्मशुभदा आषाढधारिणी तथा । आशावर्धनकर्त्री च आशाज्योतिर्विधायिनी ॥ ३२८॥ आषाढमासि पूज्या च आशंसास्वान्तमास्थिता । आसारसुखिता चैव आहोस्विदिति तर्किता ॥ ३२९॥ इडा इडतापत्रया ईषद्धास्यमिलन्मुखी । उड्डियानपीठगता उष्ट्रपुङ्गववाहिनी ॥ ३३०॥ उक्ता उतथ्याध्वजधृक् उद्धवप्रीतिकारिणी । उम्भिता उदिता चैव उन्नता उपरिस्थिता ॥ ३३१॥ इक्षुहस्ता तथाऽप्यूढा ऋतुकालसुखप्रदा । ऋतप्रिया तथा चैव ऋक्षमोक्षणकारिणी ॥ ३३२॥ ऋषिभिः सेविता चैव ऋष्यश‍ृङ्गसमर्चिता । ओड्रपुष्पपूजिता च आधारचक्रवासिनी ॥ ३३३॥ मणिपुरवासिनी च स्वाधिष्ठाननिवासिनी । अनाहतानाहता च विशुद्धचक्रवासिनी । आज्ञाचक्रवासिनी च सहस्रदलवासिनी ॥ ३३४॥ इतीमां नाम्नामष्टादशशतीं यः पठति श‍ृणोति पाठयति श्रावयति वा स सर्वपापविमुक्तः, स धनी धनद इव, स कविः कविरिव, स पण्डितो गुरुरिव, स रूपवान् जगन्मोहनो मन्मथ इव, स राज्याधिकारी सुरराज इव, स तेजस्वी वह्निरिव, स शासकः पितृपतिरिव, स सर्वतोगतिः पवमान इव, स शौर्ययुक्तः सूर्य इव, स शीतलः शीतमरीचिरिव भवेत् ॥ ३३५॥ यः पठेत् प्रयतो विद्वान् पद्यार्धं पद्यमेव वा । ब्रह्महत्यादिपापेभ्यो मुक्त एव न सशयः ॥ ३३६॥ इमं स्तवं पठन् व्यासः कवीन्द्रत्वमुपागतः । वाल्मीकिरपि विप्रत्वं विश्वामित्रो जगाम सः ॥ ३३७॥ यद्यपि कुष्ठी कुनखी बधिरोऽन्धः पुनरति दुर्गतो नानादुरवस्थाजडीकृतकलेवरो जपति जापयति वा सोऽपि पापं सर्वं सन्दह्य प्रेमलक्षणां भक्तिमधिष्ठाय सर्वोपरि भ्राजते ॥ ३३८॥ सर्वाबाधाप्रशमनं धनधान्यविवर्धनम् । एतस्याध्ययनेनैव सत्यं सत्यं वदाम्यहम् ॥ ३३९॥ धर्मलिप्सुर्लभेद्धर्ममर्थेप्स्वर्थमवाप्नुयात् । कामं कामी लभेदाशु मुमुक्षुर्मोक्षमाप्नुयात् ॥ ३४०॥ सङ्कटे समनुप्राप्ते इदं स्वस्त्ययनं परम् । रणे वा राजसदने द्यूते च विजयप्रदम् ॥ ३४१॥ यस्तु नित्यं समाहितः सम्यगालपति पुनरालापयति श‍ृणुते श्रावयति वा तद्दर्शनमात्रेण वादिनो निष्प्रभा भवन्ति दूरादेव तेजःपुञ्जप्रतिहतचक्षुषो योगिनी-डाकिनी-यक्ष-रक्ष-कूष्माण्ड- भूत-प्रेत-पिशाच-हिंस्रजन्तवः पलायन्ते ॥ ३४२॥ तस्य वने वा गहने पोते वाताद्घूर्णिते वा न किञ्चिद्भयम् । न विद्युतो भयं न च दस्युतो भयं न राजतो भयं नाऽनलतो भयं न केभ्योऽपि भयम् ॥ ३४३॥ स सर्वधर्मसम्पूर्णो नित्यानन्दमयस्तथा । इह लोके सुखं भुक्त्वा परत्र मयि लीयते ॥ ३४४॥ नापमृत्युर्न च ज्वरो नाऽशुभा बुद्धिरुन्मदा । न मात्सर्यं न लोभश्च तस्य पुंसोऽपि दुर्मतेः ॥ ३४५॥ इमा स्तुतिं पठति यः परां पुमान् भवेत् स हिऽप्रथितकीर्तिरुत्तमः । विधूयऽतत्सकलकल्मषं व्रजेद्- व्रजेश्वरी चरणपद्मभृङ्गताम् ॥ ३४६॥ ॥ इति श्रीकृष्णयामले महातन्त्रे श्रीमद्राधादेव्या नाम्नामष्टादशशती समाप्ता ॥ चतुर्विशोऽध्यायः ॥ २४॥