अक्षर आकार:

राधाकल्याणम्

rAdhAkalyANam

राधाकल्याणम्

॥ श्रीः॥ यस्याःप्रसादलेशेन वर्धन्ते सर्वसम्पदः । नमस्तस्यै पराम्बायै देव्यै मङ्गलमूर्तये ॥ कन्यार्थी च वटुः कन्याप्यनुरूपवरार्थिनी । सीताविवाहसर्गं तु पठेत्प्रातः प्रयत्नतः ॥ रमया तु रकारस्स्यात् आकारस्त्वादिगोपिका । धकारो धरया हि स्यादकारो विरजानदी ॥ ॥ श्रीः॥ शुभमस्तु । श्रीराधाकल्याणम् । ब्रह्मवैवर्तपुराणात् सङ्ग्रहीतम् एकदा कृष्णसहितो नन्दो वृन्दावनं ययौ । तत्रोपवनभाण्डीरे चारयामास गोधनम् ॥ १॥ सरस्सु स्वादु तोयं च पाययामास तत्पपौ । उवास वृक्षमूले च बलं कृत्वा स्ववक्षासि ॥ २॥ एतस्मिन्नन्तरे कृष्णः मायामानुषविग्रहः । चकार माययाऽकस्मात् मेघाच्छन्नं नभो मुने ॥ ३॥ मेघावृतं नभो दृष्ट्वा श्यामलं काननान्तरम् । झञ्झावातं मेघशब्दं वज्रशब्दं च दारुणम् ॥ ४॥ वृष्टिधारा अतिस्थूला कम्पमानान् च पादपान् । दृष्ट्वैव पतितस्कन्धान् नन्दो भयमवाप ह ॥ ५॥ कथं यास्यामि गोवत्सान् विहाय स्वाश्रमं बत । गृहं यदि न यास्यामि भविता बालकस्य किम् ॥ ६॥ एवं नन्दे प्रवदति रुरोद श्रीहरिस्तदा । पयोभिया हरिश्चैव पितुः कण्ठं दधार सः ॥ ७॥ एतस्मिन्नन्तरे राधा जगाम श्रीकृष्णसन्निधिम् । गमनं कुर्वती राजहंसखञ्जनगञ्जनम् ॥ ८॥ शरत्पार्वणचन्द्राभा मुष्टवक्त्रमनोहरा । शरन्मध्याह्नपद्मानां शोभामोचनलोचना ॥ ९॥ परितस्तारकापक्ष्मविचित्रकज्जलोज्ज्वला । खगेन्द्रचञ्चुचारुश्रीसङ्गनाशकनासिका ॥ १०॥ तन्मध्यस्थलशोभार्हस्थूलमुक्ताफलोज्ज्वला । कबरीवेषसंयुक्ता मालतीमाल्यवेष्टिता ॥ ११॥ ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टककुण्डला । पक्वबिम्बफलानां च श्रीमुष्टाधरयुग्मका ॥ १२॥ मुक्तापङ्क्तिप्रभातैकदन्तपङ्क्तिसमुज्ज्वला । ईषत्प्रफुल्लकुन्दानां सुप्रभानाशकस्मिता ॥ १३॥ कस्तूरीबिन्दुसंयुक्तसिन्दूरबिन्दुभूषिता । कपालं मल्लिकायुक्तं बिभ्रती श्रीयुतं सती ॥ १४॥ सुचारुवर्तुलाकारकपोलपुलकान्विता । मणिरत्नेन्द्रसाराणां हारोरःस्थलभूषिता ॥ १५॥ सुचारुश्रीफलयुगकठिनस्तनसङ्गता । पत्रावलीश्रिया युक्ता दीप्ता सद्रत्नतेजसा ॥ १६॥ सुचारुवर्तुलाकारमुदरं सुमनोहरम् । विचित्रत्रिवलीयुक्तं निम्ननाभिं च बिभ्रती ॥ १७॥ सद्रत्नसाररचितमेखलाजालभूषिता । कामास्त्रसारभ्रूभङ्गयोगीन्द्रचित्तमोहिनी ॥ १८॥ कठिनश्रोणियुगलं धरणीधरनिन्दितम् । स्थलपद्मप्रभामुष्टचरणं दधती मुदा ॥ १९॥ रत्नभूषणसंयुक्तं यावकद्रवसंयुतम् । मणीन्द्रशोभासंमुष्टसालक्तकपुनर्भवम् ॥ २०॥ सद्रत्नसाररचितक्वणन्मञ्जरिरञ्जिता । रत्नकङ्कणकेयूरचारुशङ्खविभूषिता ॥ २१॥ रत्नाङ्गुलीयनिकरवह्निशुद्धांशुकोज्ज्वला । चारुचम्पकपुष्पाणां प्रभामुष्टकलेवरा ॥ २२॥ सहस्रदलसंयुक्तक्रीडाकमलमुज्ज्वलम् । श्रीमुखश्रीदर्शनार्थं बिभ्रती रत्नदर्पणम् ॥ २३॥ दृष्ट्वा तां निर्जने नन्दो विस्मयं परमं ययौ । चन्द्रकोटिप्रभामुष्टां भासयन्तीं दिशो दश ॥ २४॥ ननाम तां साश्रुनेत्रः भक्तिनम्रात्मकन्धरः । जानामि त्वां गर्गमुखात् पद्माधिकप्रियां हरेः ॥ २५॥ जानामीमं महाविष्णोः परं निर्गुणमच्युतम् । तथापि मोहितोऽहं च मानवो विष्णुमायया ॥ २६॥ गृहाण प्राणनाथं च गच्छ भद्रे यथासुखम् । पश्चाद्दास्यसि मत्पुत्रं कृत्वा पूर्णमनोरथम् ॥ २७॥ इत्युक्तवा प्रददौ तस्यै रुदन्तं बलकं भिया । जग्राह बालकं राधा जहास मधुरं सुखात् ॥ २८॥ उवाच नन्दं सा यत्नात् न प्रकाश्यं रहस्यकम् । अहं दृष्टा त्वया नन्द कति जन्मफलोदयात् ॥ २९॥ प्राज्ञस्त्वं गर्गवचनात् सर्वं जानासि कारणम् । अकथ्यमावयोर्गोप्यं चरितं गोकुले व्रज ॥ ३०॥ वरं वृणु व्रजेश त्वं यत्ते मनसि वाञ्छितम् । ददामि लीलया तुभ्यं देवानामपि दुर्लभम् ॥ ३१॥ राधिकावचनं श्रत्वा तामुवाच व्रजेश्वरः । युवयोश्चरणे भक्तिं देहि नान्यत्र मे स्मृहा ॥ ३२॥ युवयोः सन्निधौ वासं दास्यसि त्वं सुदुर्लभम् । आवाभ्यां देहि जगतामम्बिके परमेश्वरि ॥ ३३॥ श्रुत्वा नन्दस्य वचनमुवाच परमेश्वरी । दास्यामि दास्यमतुलमिदानीं भक्तिरस्तु ते ॥ ३४॥ आवयोश्चरणाम्भोजे युवयोश्च दिवानिशम् । प्रफुल्लहृदये शश्वत् स्मृतिरस्तु सुदुर्लभा ॥ ३५॥ एवमुक्ता तु सा नन्दं कृत्वा कृष्णं स्ववक्षसि । दूरं निनाय श्रीकृष्णं बाहुभ्यां च यथेप्सितम् ॥ ३६॥ एतस्मिन्नन्तरे राधा मायासद्रत्नमण्डपम् । ददर्श रत्नकलशशतेन च समन्वितम् ॥ ३७॥ सा देवी मण्डपं दृष्ट्वा जगामाभ्यन्तरं मुदा । ददर्श तत्र ताम्बूलं कर्पूरादिसमन्वितम् ॥ ३८॥ पुरुषं कमनीयं च किशोरं श्यामसुन्दरम् । कोटिकन्दर्पलीलाभं चन्दनेन विभूषितम् ॥ ३९॥ शयानं पुष्पशय्यायां सस्मितं सुमनोहरम् । पीतवस्त्रपरीधानं प्रसन्नवदनेक्षणम् ॥ ४०॥ मणीन्द्रसारनिर्माणं क्वणन्मञ्जीररञ्जितम् । सद्रत्नसारनिर्माणकेयूरवलयान्वितम् ॥ ४१॥ मणीन्द्रकुण्डलाभ्यां च गण्डस्थलविराजितम् । कौस्तुभेन मणीन्द्रेण वक्षस्थलसमुज्ज्वलम् ॥ ४२॥ शरत्पार्वणचन्द्राभप्रभामुष्टमुखोज्ज्वलम् । शरत्प्रफुल्लकमलप्रभामोचनलोचनम् ॥ ४३॥ मालतीमाल्यसंश्लिष्टशिखिपिच्छसुशोभितम् । त्रिभङ्गचूडां बिभ्रन्तं पश्यन्तं रत्नमन्दिरम् ॥ ४४॥ क्रोडं बालकशून्यं च दृष्ट्वा तं नवयौवनम् । सर्वस्मृतिस्वरूपा सा तथापि विस्मयं ययौ ॥ ४५॥ रूपं रासेश्वरी दृष्ट्वा मुमोह सुमनोहरम् । कामात् चक्षुश्चकोराभ्यां मुखचन्द्रं पपौ मुदा ॥ ४६॥ निमेषरहिता राधा नवसङ्गमलालसा । पुलकाङ्कितसर्वाङ्गी सस्मिता मदनातुरा ॥ ४७॥ तामुवाच हरिस्तत्र स्मेराननसरोरुहाम् । नवसङ्गमयोग्यां च पश्यन्तीं वक्त्रचक्षुषा ॥ ४८॥ श्रीकृष्ण उवाच । राधे स्मरसि गोलोकवृत्तान्तं सुरसंसदि । अद्य पूर्णं करिष्यामि स्वीकृतं यत्पुरा प्रिये ॥ ४९॥ त्वं मे प्राणाधिका राधे प्रेयसी च वरानने । यथा त्वं च तथाहं च भेदो हि नावयोर्धुवम् ॥ ५०॥ यथा क्षीरे च धावल्यं यथाग्नौ दाहिका सति । यथा पृथिव्यां गन्धश्च तथाहं त्वयि सन्ततम् ॥ ५१॥ विना मृदा घटं कर्तुं विना स्वर्णेन कुण्डलम् । कुलालः स्वर्णकारश्च न हि शक्तः कदाचन ॥ ५२॥ तथा त्वया विना सृष्टिमहं कर्तुं न च क्षमः । सृष्टेराधारभूता त्वं बीजरूपोऽहमच्युतः ॥ ५३॥ कृष्णं वदन्ति मां लोकास्त्वयैव रहितं यदा । श्रीकृष्णं च तदा तेऽपि त्वयैव सहितं परम् ॥ ५४॥ त्वं च श्रीः त्वं च सम्पत्तिस्त्वमाधारस्वरूपिणी । त्वं स्त्री पुमानहं राधे इति वेदेषु निर्णयः ॥ ५५॥ सर्वशक्तिस्वरूपासि सर्वरूपोऽहमक्षरः । ममाङ्गजस्वरूपा त्वं मूलप्रकृतिरीश्वरी ॥ ५६॥ शक्त्या बुध्या च ज्ञानेन मया तुल्या वरानने । रा शब्दं कुर्वतस्त्रस्तो ददामि भक्तिमुत्तमाम् ॥ ५७॥ धाशब्दं कुर्वतः पश्चाद्यामि श्रवणलोभतः । तिष्ठ भद्रे क्षणं भद्रं करिष्यामि तव प्रिये ॥ ५८॥ त्वन्मनोरथपूर्णस्य स्वयं कालस्समागतः । एतस्मिन्नन्तरे ब्रह्माऽऽजगाम पुरतो हरेः ॥ ५९॥ मालाकमण्डलुधरः ईषत्स्मेरचतुर्मुखः । गत्वा ननाम तं कृष्णं प्रतुष्टाव यथागमम् ॥ ६०॥ साश्रुनेत्रः पुलकितः भक्तिनम्रात्मकन्धरः । स्तुत्वा नत्वा जगद्धाता जगाम हरिसन्निधिम् ॥ ६१॥ पुनर्नत्वा प्रभुं भक्त्या जगाम राधिकान्तिकम् । मूर्ध्ना ननाम भक्त्या च मातुस्तच्चरणाम्बुजे ॥ ६२॥ चकार सम्भ्रमेणैव जटाजालेन वेष्टितम् । कमण्डलुजलेनैव शीघ्रं प्रक्षालितं मुदा ॥ ६३॥ यथागमं प्रतुष्टाव पुटाञ्जलियुतः पुनः । हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ॥ ६४॥ सुदुर्लभं च सर्वेषां भारते च विशेषतः । षष्टिवर्षसहस्राणि तपस्तप्तं मया पुरा ॥ ६५॥ भास्करे पुष्करे तीर्थे कृष्णस्य परमात्मनः । आजगाम वरं दातुं वरदाता हरिः स्वयम् ॥ ६६॥ वरं वृणीष्व इत्युक्ते स्वाभीष्टं च वृतं मुदा । राधिकाचरणाम्भोजं सर्वेषामपि दुर्लभम् ॥ ६७॥ हे गुणातीत मे शीघ्रमधुनैव प्रदर्शय । मयेत्युक्तो हरिरयमुवाच मां तपस्विनम् ॥ ६८॥ दर्शयिष्यामि काले च वत्सेदानीं क्षमेति च । न हीश्वराज्ञा विफला तेन दृष्टं पदाम्बुजम् ॥ ६९॥ सर्वेषां वाञ्छितं मातः गोलोके भारतेऽधुना । सर्वा देव्यः प्रकृत्यंशाः जन्याः प्राकृतिका धुवम् ॥ ७०॥ त्वं कृष्णाङ्गार्धसम्भूता तुल्या कृष्णेन सर्वतः । श्रीकृष्णस्त्वन्मयं राधा त्वं राधा वा हरिः स्वयम् ॥ ७१॥ न हि वेदेषु मे दृष्टः इति केन निरूपितम् । ब्रह्माण्डाद्बहिरूर्ध्वं च गोलोकोऽस्ति यथाम्बिके ॥ ७२॥ वैकुण्ठश्चाप्यजन्यश्च त्वमजन्या तथाम्बिके । यथा समस्तब्रह्माण्डे श्रीकृष्णांशांशजीविनः ॥ ७३॥ तथा शक्तिस्वरूपा त्वं तेषु सर्वेषु संस्थिता । पुरुषाश्च हरेरंशाः त्वदंशा निखिलाः स्त्रियः ॥ ७४॥ आत्मना देहरूपा त्वमस्याधारस्त्वमेव हि । अस्यानुप्राणैस्त्वं मातस्त्वत्प्राणैरयमीश्वरः ॥ ७५॥ किमहो निर्मितः केन हेतुना शिल्पकारिणा । नित्योऽयं च तथा कृष्णस्त्वं च नित्या तथाम्बिके ॥ ७६॥ अस्यांशा त्वं त्वदंशो वाप्ययं केन निरूपितः । अहं विधाता जगतां देवानां जनकः स्वयम् ॥ ७७॥ तं पठित्वा गुरुमुखात् भवन्त्येव बुधा जनाः । गुणानां वास्तवानां ते शतांशं वक्तुमक्षमः ॥ ७८॥ वेदो वा पण्डितो वान्यः को वा त्वां स्तोतुमीश्वरः । स्तवानां जनकं ज्ञानं बुद्धिर्ज्ञानाम्बिका सदा ॥ ७९॥ त्वं बुद्धेर्जननी मातः को वा त्वां स्तोतुमीश्वरः । यद्वस्तु दृष्टं सर्वेषां तद्धि वक्तुं बुधः क्षमः ॥ ८०॥ यददृष्टाश्रुतं वस्तु तन्निर्वक्तुं च कः क्षमः । अहं महेशोऽनन्तश्च स्तोतुं त्वां कोऽपि न क्षमः ॥ ८१॥ सरस्वती च वेदाश्च क्षमः कः स्तोतुमीश्वरः । यथागमं यथोक्तं च न मां निन्दितुमहसि ॥ ८२॥ ईश्वराणामीश्वरस्य योग्यायोग्ये समा कृपा । जनस्य प्रतिपाल्यस्य क्षणे दोषः क्षणे गुणः ॥ ८३॥ जननी जनको यो वा सर्वं क्षमति स्नेहतः । इत्युक्त्वा जगतां धाता तस्थौ च पुरतस्तयोः ॥ ८४॥ प्राणम्य चरणाम्भोजं सर्वेषां वन्द्यमीप्सितम् । ब्रह्मणः स्तवनं श्रुत्वा तमुवाच ह राधिका ॥ ८५॥ वरं वृणु विधातस्त्वं यत्ते मनसि वर्तते । राधिकावचनं श्रत्वा तामुवाच जगद्विधिः ॥ ८६॥ वरं च युवयोः पादपद्मभक्तिं च देहि मे । इत्युक्ते विधिना राधा तूर्णमोमित्युवाच ह ॥ ८७॥ पुनर्ननाम तां भक्त्या विधाता जगतां पतिः । तदा ब्रह्मा तयोर्मध्ये प्रज्वाल्य च हुताशनम् ॥ ८८॥ हरिं संस्मृत्य हवनं चकार विधिना विधिः । उत्थाय शयनात्कृष्णः उवास वह्निसन्निधौ ॥ ८९॥ ब्रह्मणोक्तेन विधिना चकार हवनं स्वयम् । प्रणमय्य पुनः कृष्णं राधां तां जनकः स्वयम् ॥ ९०॥ कौतुकं कारयामास सप्तधा च प्रदक्षिणम् । पुनः प्रदक्षिणां राधां कारयित्वा हुताशनम् ॥ ९१॥ प्रणमय्य ततः कृष्णं वासयामास तं विधिः । तस्या हस्तं च श्रीकृष्णं ग्राहयामास तं विधिः ॥ ९२॥ वेदोक्तसप्तमन्त्रांश्च पाठयामास माधवम् । संस्थाप्य राधिकाहस्तं हरेर्वक्षसि वेदवित् ॥ ९३॥ श्रीकृष्णहस्तं राधायाः पृष्ठदेशे प्रजाप्रतिः । स्थापयामास मन्त्रांस्त्रीन् पाठयामास राधिकाम् ॥ ९४॥ पारिजातप्रसुनानां मालां जानुविलम्बिताम् । श्रीकृष्णस्य गले ब्रह्मा राधाद्धारा ददौ मुदा ॥ ९५॥ प्रणमय्य पुनः कृष्णं राधां च कमलोद्भवः । राधागले हरिद्वारा ददौ मालां मनोहराम् ॥ ९६॥ पुनश्च वासयामास श्रीकृष्णं कमलोद्भवः । तद्वामपार्श्वे राधां च सस्मितां कृष्णचेतसम् ॥ ९७॥ पुटाञ्जलिं कारयित्वा माधवं राधिकां विधिः । पाठयामास वेदोक्तान् पञ्च मन्त्रांश्च नारद ॥ ९८॥ प्रणमय्य पुनः कृष्णं समर्प्य राधिकां विधिः । कन्यकां च यथा तातो भक्त्या तस्थौ हरेः पुरः ॥ ९९॥ एतस्मिन्नन्तरे देवाः सानन्दपुलकोद्गमाः । दुन्दुभिं वादयामासुः चानकं मुरजादिकम् ॥ १००॥ पारिजातप्रसूनानां पुष्पवृष्टिर्बभुव ह । जगुर्गन्धर्वप्रवराः ननृतुश्चाप्सरोगणाः ॥ १०१॥ इति ब्रह्मवैवर्तपुराणात् सण्ग्रहीतं श्रीराधाकल्याणं समाप्तम् ॥ From kalyANamanjarI, dvitIya bhAgaH rAdhAkalyaNam saNgrahItaM rA. dattagopAlakRRiShNaH, svarNaprakAshanam