श्रीराधाकृपाकटाक्षस्तवराजः
मुनीन्द्रवृन्दवन्दिते त्रिलोकशोकहारिणि
प्रसन्नवक्त्रपङ्कजे निकुञ्जभूविलासिनि ।
व्रजेन्द्रभानुनन्दनि व्रजेन्द्रसूनुसङ्गते
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ १॥
अशोकवृक्षवल्लरीवितानमण्डपस्थिते
प्रवालबालपल्लवप्रभारुणाङ्घ्रिकोमले ।
वराभयस्फुरत्करे प्रभूतसम्पदालये
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ २॥
अनङ्गरङ्गमङ्गलप्रसङ्गभङ्गुरभ्रुवां
सविभ्रमं ससम्भ्रमं दृगन्तबाणपातनैः ।
निरन्तरं वशीकृतप्रतीतिनन्दनन्दने
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ ३॥
तडित्सुवर्णचम्पकप्रदीप्तगौरविग्रहे
मुखप्रभापरास्तकोटिशारदेन्दुमण्डले ।
विचित्रचित्रसञ्चरच्चकोरशाबलोचने
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम् ॥ ४॥
मदोन्मदातियौवने प्रमोदमानमण्डिते
प्रियानुरागरञ्जिते कलाविलासपण्डिते ।
अनन्यधन्यकुञ्जराज्यकामकेलिकोविदे
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ ५॥
अशेषहावभावधीरहीरहारभूषिते
प्रभूतशातकुम्भकुम्भकुम्भकुम्भसुस्तनि ।
प्रशस्तमन्दहास्यचूर्णपूर्णसौख्यसागरे
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ ६॥
मृणालवालवल्लरी तरङ्गरङ्गदोर्लते
लताग्रलास्यलोलनीललोचनावलोकने ।
ललल्लुलन्मलन्मनोज्ञमुग्धमोहनाश्रिते
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ ७॥
सुवर्णमालिकाञ्चितत्रिरेखकम्बुकण्ठगे
त्रिसूत्रमङ्गलीगुणत्रिरत्नदीप्तिदीधिते ।
सलोलनीलकुन्तलप्रसूनगुच्छगुम्फिते
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ ८॥
नितम्बबिम्बलम्बमानपुष्पमेखलागुणे
प्रशस्तरत्नकिङ्किणीकलापमध्यमञ्जुले ।
करीन्द्रशुण्डदण्डकावराहसौभगोरुके
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ ९॥
अनेकमन्त्रनादमञ्जुनूपुरारवस्खल-
त्समाजराजहंसवंशनिक्वणातिगौरवे ।
विलोलहेमवल्लरीविडम्बचारुचङ्क्रमे
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ १०॥
अनन्तकोटिविष्णुलोकनम्रपद्मजार्चिते
हिमाद्रिजापुलोमजाविरिञ्चजावरप्रदे ।
अपारसिद्धिऋद्धिदिग्धसम्पदङ्गुलीनखे
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ ११॥
मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि
त्रिवेदभारतीश्वरि प्रमाणशासनेश्वरि ।
रमेश्वरि क्षमेश्वरि प्रमोदकाननेश्वरि
व्रजेश्वरि व्रजाधिपे श्रीराधिके नमोस्तु ते ॥ १२॥
अमुं ममाद्भुतं स्तवं निशम्य भानुनन्दनी
करोतु सन्ततं जनं कृपाकटाक्षभाजनम् ।
भवेत्तदैव सञ्चितत्रिरूपकर्मनाशनं
भवेत्तदा व्रजेन्द्रसूनुमण्डलप्रवेशनम् ॥ १३॥
फलश्रुतिः -
राकायाञ्च सिताष्टम्यां दश्म्याञ्च विशुद्धधीः ।
एकादश्यां त्रयोदश्यां यः पठेत्सशिवः स्वयम् ॥ १४॥
यं यं कामयते कामं तन्तमाप्नोति साधकः ।
राधाकृपाकटाक्षेण भुक्त्वान्ते मोक्षमाप्नुयात् ॥ १५॥
ऊरुदघ्ने नाभिदघ्ने हृदघ्ने कण्ठदघ्नके ।
राधाकुण्डजले स्थित्वा यः पठेत्साधकस्तु सः ॥ १६॥
तस्य सर्वार्थसिद्धिः स्याद्वाक्सिद्धिञ्च तथा लभेत् ।
ऐश्वर्यञ्च लभेत्साक्षाद्दृशा पश्यन्ति राधिकाम् ॥ १७॥
तेन सा तत्क्षणादेव तुष्टा दत्ते महावरम् ।
येन पश्यन्ति नेत्राभ्यां तत्प्रियं श्यामसुन्दरम् ॥ १८॥
नित्यलीलाप्रवेश्यञ्च ददाति श्रीव्रजाधिपः ।
अतः परतरं प्राप्त्यै वैष्णवस्य न विद्यते ॥ १९॥
इति श्रीराधाकृपाकटाक्षस्तवराजः सम्पूर्णः ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):