अक्षर आकार:

श्रीराधाकृष्णयुगलसहस्रनामावलिः

shrIrAdhAkRRiShNayugalasahasranAmAvaliH

श्रीराधाकृष्णयुगलसहस्रनामावलिः

श्रीकृष्णनामावलिः १-५०० ॐ देवकीनन्दनाय नमः । शौरये । वासुदेवाय । बलानुजाय । गदाग्रजाय । कंसमोहाय । कंससेवकमोहनाय । भिन्नार्गलाय । भिन्नलोहाय । पितृवाह्याय । पितृस्तुताय । मातृस्तुताय । शिवध्येयाय । यमुनाजलभेदनाय । व्रजवासिने । व्रजानन्दिने । नन्दबालाय । दयानिधये । लीलाबालाय । पद्मनेत्राय नमः ॥ २० ॐ गोकुलोत्सवाय नमः । ईश्वराय । गोपिकानन्दनाय । कृष्णाय । गोपानन्दाय । सताङ्गतये । बकप्राणहराय । विष्णवे । बकमुक्तिप्रदाय । हरये । बलदोलाशयशयाय । श्यामलाय । सर्वसुन्दराय । पद्मनाभाय । हृषीकेशाय । क्रीडामनुजबालकाय । लीलाविध्वस्तशकटाय । वेदमन्त्राभिषेचिताय । यशोदानन्दनाय । कान्ताय नमः ॥ ४० ॐ मुनिकोटिनिषेविताय । नित्यं मधुवनावासिने । वैकुण्ठाय । सम्भवाय । क्रतवे । रमापतये । यदुपतये । मुरारये । मधुसूदनाय । माधवाय । मानहारिणे । श्रीपतये । भूधराय । प्रभवे । बृहद्वनमहालीलाय । नन्दसूनवे । महासनाय । तृणावर्तप्राणहारिणे । यशोदाविस्मयप्रदाय । त्रैलोक्यवक्त्राय नमः ॥ ६० ॐ पद्माक्षाय नमः । पद्महस्ताय । प्रियङ्कराय । ब्रह्मण्याय । धर्मगोप्त्रे । भूपतये । श्रीधराय । स्वराजे । अजाध्यक्षाय । शिवाध्यक्षाय । धर्माध्यक्षाय । महेश्वराय । वेदान्तवेद्याय । ब्रह्मस्थाय । प्रजापतये । अमोघदृशे । गोपीकरावलम्बिने । गोपबालकसुप्रियाय बलानुयायिने । बलवते नमः ॥ ८० ॐ श्रीदामप्रियाय नमः । आत्मवते । गोपीगृहाङ्गणरतये । भद्राय । सुश्लोकमङ्गलाय । नवनीतहराय । बलाय । नवनीतप्रियाशनाय । बालवृन्दिने । मर्कवृन्दिने । चकिताक्षाय । पलायिताय । यशोदातर्जिताय । कम्पिने । मायारुदितशोभनाय । दामोदराय । अप्रमेयात्मने । दयालवे । भक्तवत्सलाय । सुबद्धोलूखलाय नमः ॥ १०० ॐ नम्रशिरसे नमः । गोपीकदर्थिताय । वृक्षभङ्गिने । शोकभङ्गिने । धनदात्मजमोक्षणाय । देवर्षिवचनश्लाघिने । भक्तवात्सल्यसागराय । व्रजकोलाहलकराय । व्रजानन्दविवर्धनाय । गोपात्मने । प्रेरकाय । साक्षिणे । वृन्दावननिवासकृते । वत्सपालाय । वत्सपतये । गोपदारकमण्डनाय । बालक्रीडाय । बालरतये । बालकाय । कनकाङ्गदिने नमः ॥ १२० ॐ पीताम्बराय नमः । हेममालिने । मणिमुक्ताविभूषणाय । किङ्किणिने । कटकिने । सूत्रिणे । नूपुरिणे । मुद्रिकान्विताय । वत्सासुरपतिध्वंसिने । बकासुरविनाशनाय । अघासुरविनाशिने । विनिद्रीकृतबालकाय । आद्याय । आत्मप्रदाय । संज्ञिने । यमुनातीरभोजनाय । गोपालमण्डलीमध्याय । सर्वगोपालभूषणाय । कृतहस्ततलग्रासाय । व्यञ्जनाश्रितशाखिकाय नमः ॥ १४० ॐ कृतबाहुश‍ृङ्गयष्टये नमः । गुञ्जालङ्कृतकण्ठकाय । मयूरपिञ्च्छमुकुटाय । वनमालाविभूषिताय । गैरिकाचित्रितवपुषे । नवमेघवपुषे । स्मराय । कोटिकन्दर्पलावण्याय । लसन्मकरकुण्डलाय । आजानुबाहवे । भगवते । निद्रारहितलोचनाय । कोटिसागरगाम्भीर्याय । कालकालाय । सदाशिवाय । विरिञ्चिमोहनवपुषे । गोपवत्सवपुर्धराय । ब्रह्माण्डकोटिजनकाय । ब्रह्ममोहविनाशकाय । ब्रह्मणे नमः ॥ १६० ॐ ब्रह्मेडिताय नमः । स्वामिने । शक्रदर्पादिनाशनाय । गिरिपूजोपदेष्ट्रे । धृतगोवर्धनाचलाय । पुरन्दरेडिताय । पूज्याय । कामधेनुप्रपूजिताय । सर्वतीर्थाभिषिक्ताय । गोविन्दाय । गोपरक्षकाय । कालीयार्तिकराय । क्रूराय । नागपत्नीडिताय । विराजे । धेनुकारये । प्रलम्बारये । वृषासुरविमर्दनाय । मायासुरात्मजध्वंसिने । केशिकण्ठविदारकाय नमः ॥ १८० ॐ गोपगोप्त्रे नमः । धेनुगोप्त्रे । दावाग्निपरिशोषकाय । गोपकन्यावस्त्रहारिणे । गोपकन्यावरप्रदाय । यज्ञपत्न्यन्नभोजिने । मुनिमानापहारकाय । जलेशमानमथनाय । नन्दगोपालजीवनाय । गन्धर्वशापमोक्त्रे । शङ्खचूडशिरोहराय । वंशिने । वटिने । वेणुवादिने । गोपीचिन्तापहारकाय । सर्वगोप्त्रे । समाह्वानाय । सर्वगोपीमनोरथाय । व्यङ्गधर्मप्रवक्त्रे । गोपीमण्डलमोहनाय नमः ॥ २०० ॐ रासक्रीडारसास्वादिने नमः । रसिकाय । राधिकाधवाय । किशोरीप्राणनाथाय । वृषभानुसुताप्रियाय । सर्वगोपीजनानन्दिने । गोपीजनविमोहनाय । गोपिकागीतचरिताय । गोपीनर्तनलालसाय । गोपीस्कन्धाश्रितकराय । गोपिकाचुम्बनप्रियाय । गोपिकामार्जितमुखाय । गोपीव्यजनवीजिताय । गोपिकाकेशसंस्कारिणे । गोपिकापुष्पसंस्तराय । गोपिकाहृदयालम्बिने । गोपीवहनतत्पराय । गोपिकामदहारिणे । गोपिकापरिमार्जिताय । गोपिकाकृतसन्नी(ल्ली)लाय नमः ॥ २२० ॐ गोपिकासंस्मृतप्रियाय । गोपिकावन्दितपदाय । गोपिकावशवर्तनाय । राधापराजिताय । श्रीमते । निकुञ्जे सुविहारवते । कुञ्जप्रियाय । कुञ्जवासिने । वृन्दावनविकासनाय । यमुनाजलसिक्ताङ्गाय । यमुनासौख्यदायकाय । शशिसंस्तम्भनाय । शूराय । कामिने । कामविमोहनाय । कामाद्याय । कामनाथाय । काममानसभेदनाय । कामदाय । कामरूपाय नमः ॥ २४० ॐ कामिनीकामसञ्चयाय । नित्यक्रीडाय । महालीलाय । सर्वाय । सर्वगताय । परमात्मने । पराधीशाय । सर्वकारणकारणाय । गृहीतनारदवचसे । अक्रूरपरिचिन्तिताय । अक्रूरवन्दितपदाय । गोपिकातोषकारकाय । अक्रूरवाक्यसङ्ग्राहिणे । मथुरावासकारणाय । अक्रूरतापशमनाय । रजकायुःप्रणाशनाय । मथुरानन्ददायिने । कंसवस्त्रविलुण्ठनाय । कंसवस्त्रपरीधानाय । गोपवस्त्रप्रदायकाय नमः ॥ २६० ॐ सुदामागृहगामिने नमः । सुदामापरिपूजिताय । तन्तुवायक- सम्प्रीताय । कुब्जाचन्दनलेपनाय । कुब्जारूपप्रदाय । विज्ञाय । मुकुन्दाय । विष्टरश्रवसे । सर्वज्ञाय । मथुराऽऽलोकिने । सर्वलोकाभिनन्दनाय । कृपाकटाक्षदर्शिने । दैत्यारिणे । देवपालकाय । सर्वदुःखप्रशमनाय । धनुर्भङ्गिने । महोत्सवाय । कुवलयापीडहन्त्रे । दन्तस्कन्धबलाग्रण्ये । कल्परूपधराय नमः ॥ २८० ॐ धीराय नमः । दिव्यवस्त्रानुलेपनाय । मल्लरूपाय । महाकालाय । कामरूपिणे । बलान्विताय । कंसत्रासकराय । भीमाय । मुष्टिकान्ताय । कंसघ्ने । चाणूरघ्नाय । भयहराय । शलारये । तोशलान्तकाय । वैकुण्ठवासिने । कंसारये । सर्वदुष्टनिषूदनाय । देवदुन्दुभिनिर्घोषिणे । पितृशोकनिवारणाय । यादवेन्द्राय नमः ॥ ३०० ॐ सतां नाथाय नमः । यादवारिप्रमर्दनाय । शौरिशोकविनाशिने । देवकीतापनाशनाय । उग्रसेनपरित्रात्रे । उग्रसेनाभिपूजिताय । उग्रसेनाभिषेकिने । उग्रसेनदयापराय । सर्वसात्वतसाक्षिणे । यदूनां अभिनन्दनाय । सर्वमाथुरसंसेव्याय । करुणाय । भक्तबान्धवय । सर्वगोपालधनदाय । गोपीगोपालालसाय । शौरिदत्तोपवीतिने । उग्रसेनदयाकराय । गुरुभक्ताय । ब्रह्मचारिणे । निगमाध्ययने रताय नमः ॥ ३२० ॐ सङ्कर्षणसहाध्यायिने नमः । सुदामासुहृदे । विद्यानिधये । कलाकोशाय । मृतपुत्रप्रदाय । चक्रिणे । पाञ्चजनिने । सर्वनारकिमोचनाय । यमार्चिताय । पराय देवाय । नामोच्चारवशाय । अच्युताय । कुब्जाविलासिने । सुभगाय । दीनबन्धवे । अनूपमाय । अक्रूरगृहगोप्त्रे । प्रतिज्ञापालकाय । शुभाय । जरासन्धजयिने नमः ॥ ३४० ॐ विदुषे नमः । यवनान्ताय । द्विजाश्रयाय । मुचुकुन्दप्रियकराय । जरासन्धपलायिताय । द्वारकाजनकाय । गूढाय । ब्रह्मण्याय । सत्यसङ्गराय । लीलाधराय । प्रियकराय । विश्वकर्मयशःप्रदाय । रुक्मिणीप्रियसन्देशाय । रुक्मिशोकविवर्धनाय । चैद्यशोकालयाय । श्रेष्ठाय । दुष्टराजन्यनाशनाय । रुक्मिवैरूप्यकरणाय । रुक्मिणीवचने रताय । बलभद्रवचोग्राहिणे नमः ॥ ३६० ॐ मुक्तरुक्मिणे नमः । जनार्दनाय । रुक्मिणीप्राणनाथाय । स्वयंसत्यभामापतये । भक्तपक्षिणे । भक्तिवश्याय । अक्रूरमणीदायकाय । शतधन्वप्राणहारिणे । ऋक्षराजसुताप्रियाय । सत्राजित्तनयाकान्ताय । मित्रविन्दापहारकाय । सत्यापतये । लक्ष्मणाजिते । पूज्याय । भद्राप्रियङ्कराय । नरकासुरघातिने । लीलाकन्याहराय । जयिने । मुरारये । मदनेशाय नमः ॥ ३८० धरित्रीदुःखनाशनाय । वैनतेयिने । स्वर्गगामिने । अदित्यै कुण्डलप्रदाय । इन्द्रार्चिताय । रमाकान्ताय । वज्रिभार्याप्रपूजिताय । पारिजातापहारिणे । शक्रमानापहारकाय । प्रद्युम्नजनकाय । साम्बताताय । बहुसुताय । विधवे । गर्गाचार्याय । सत्यगतये । धर्माधाराय । धराधराय । द्वारकामण्डनाय । श्लोक्याय । सुश्लोकाय नमः ॥ ४०० ॐ निगमालयाय । पौन्ड्रकप्राणहारिणे । काशीराजशिरोहरये । अवैष्णवप्रदाहिने । सुदक्षिणभयावहाय । जरासन्धविदारिणे । धर्मनन्दनयज्ञकृते । शिशुपालशिरश्छेदिने । दन्तवक्त्रविनाशनाय । विदूरथान्तकाय । श्रीशाय । श्रीदाय । द्विविदनाशनाय । रुक्मिणीमानहारिणे । रुक्मिणीमानवर्धनाय । देवर्षिशापहर्त्रे । द्रौपदीवाक्यपालकाय । दुर्वासभयहारिणे । पाञ्चालीस्मरणागताय । पार्थदूताय नमः ॥ ४२० ॐ पार्थमन्त्रिणे नमः । पार्थदुःखौघनाशनाय । पार्थमानापहारिणे । पार्थजीवनदायकाय । पाञ्चालीवस्त्रदात्रे । विश्वपालकपालकाय । श्वेताश्वसारथये । सत्याय । सत्यसाध्याय । भयापहाय । सत्यसन्धाय । सत्यरतये । सत्यप्रियाय । उदारधिये । महासेनजयिने । शिवसैन्यविनाशानाय । बाणासुरभुजच्छेत्रे । बाणबाहुवरप्रदाय । तार्क्ष्यमानापहारिणे । तार्क्ष्यतेजोविवर्धनाय नमः ॥ ४४० ॐ रामस्वरूपधारिणे नमः । सत्यभामामुदावहाय । रत्नाकरजलक्रीडाय । व्रजलीलाप्रदर्शकाय । स्वप्रतिज्ञापरध्वंसिने । भीष्माज्ञापरिपालकाय । वीरायुधहराय । कालाय । कालिकेशाय । महाबलाय । वर्वरीषशिरोहारिणे । वर्वरीषशिरःप्रदाय । धर्मपुत्रजयिने । शूरदुर्योधनमदान्तकाय । गोपिकाप्रीतिनिर्बन्धनित्यक्रीडाय । व्रजेश्वराय । राधाकुण्डरतये । धन्याय । सदान्दोलसमाश्रिताय । सदामधुवनानन्दिने नमः ॥ ४६० ॐ सदावृन्दावनप्रियाय । अशोकवनसन्नद्धाय । सदातिलकसङ्गताय । सदागोवर्धनरतये । सदागोकुलवल्लभाय । भाण्डीरवटसंवासिने । नित्यं वंशीवरस्थिताय । नन्दिग्रामकृतावासाय । वृषभानुग्रहप्रियाय । गृहीतकामिनीय । नित्यं रासविलासकृते । वल्ल्बीजनसङ्गोप्त्रे । वल्लवीजनवल्लभाय । देवशर्मकृपाकर्त्रे । कल्पपादपसंस्थिताय । शिलानुगन्धनिलयाया पादचारिणे । घनच्छवये । अतसीकुसुमप्रख्याय । सदालक्ष्मीकृपाकराय नमः ॥ ४८० ॐ त्रिपुरारिप्रियकराय नमः । उग्रधन्वने । अपराजिताय । षड्धुरध्वंसकर्त्रे । निकुम्भप्राणहारकाय । वज्रनाभपुरध्वंसिने । पौण्ड्रकप्राणहारकाय । बहुलाश्वप्रीतिकर्त्रे । द्विजवर्यप्रियङ्कराय । शिवसङ्कटहारिणे । वृकासुरविनाशनाय । भृगुसत्कारकारिणे । शिवसात्विकताप्रदाय । गोकर्णपूजकाय । साम्बकुष्ठविध्वंसकारणाय । वेदस्तुताय । वेदवेत्त्रे । यदुवंशविवर्धनाय । यदुवंशविनाशिने । उद्धवोद्धारकारकाय नमः ॥ ५०० श्रीराधानामावलिः ५०१-१००० ॐ राधायै नमः । राधिकायै । आनन्दायै । वृषभानुजायै । वृन्दावनेश्वर्यै । पुण्यायै । कृष्णमानसहारिण्यै । प्रगल्भायै । चतुर्यै । कामायै । कामिन्यै । हरिमोहिन्यै । ललितायै । मधुरायै । माध्व्यै । किशोर्यै । कनकप्रभायै । जितचन्द्रायै । जितमृगायै । जितसिंहायै नमः ॥ ५२० ॐ जितद्विपायै नमः । जितरम्भायै । जितपिकायै । गोविन्दहृदयोद्भवायै । जितबिम्बायै । जितशुकायै । जितपद्मायै । कुमारिकायै । श्रीकृष्णाकर्षणायै । देव्यै । नित्यं युग्मस्वरूपिण्यै । नित्यं विहारिण्यै । कान्तायै । रसिकायै । कृष्णवल्लभायै । आमोदिन्यै । मोदवत्यै । नन्दनन्दनभूषितायै । दिव्याम्बरायै । दिव्यहारायै नमः ॥ ५४० ॐ मुक्तामणिविभूषितायै नमः । कुञ्जप्रियायै । कुञ्जवासायै । कुञ्जनायकनायिकायै । चारुरूपायै । चारुवक्त्रायै । चारुहेमाङ्गदायै । शुभायै । श्रीकृष्णवेणुसङ्गीतायै । मुरलीहारिण्यै । शिवायै । भद्रायै । भगवत्यै । शान्तायै । कुमुदायै । सुन्दर्यै । प्रियायै । कृष्णक्रिडायै । कृष्णरत्यै । श्रीकृष्णसहचारिण्यै नमः ॥ ५६० ॐ वंशीवटप्रियस्थानायै । युग्मायुग्मस्वरूपिण्यै । भाण्डीरवासिन्यै । शुभ्रायै । गोपीनाथप्रियासख्यै । श्रुतिनिःश्वसितायै । दिव्यायै । गोविन्दरसदायिन्यै । श्रीकृष्णप्रार्थन्यै । ईशानायै । महानन्दप्रदायिन्यै । वैकुण्ठजनसंसेव्यायै । कोटिलक्ष्मीसुखावहायै । कोटिकन्दर्पलावण्यायै । रतिकोटिरतिप्रदायै । भक्तिग्राह्यायै । भक्तिरूपायै । लावण्यसरस्यै । उमायै । ब्रह्मरुद्रादिसंराध्यायै नमः ॥ ५८० ॐ नित्यं कौतूहलान्वितायै नमः । नित्यलीलायै । नित्यकामायै । नित्यश‍ृङ्गारभूषितायै । नित्यवृन्दावनरसायै । नन्दनन्दनसंयुतायै । गोपिकामण्डलीयुक्तायै । नित्यं गोपालसङ्गतायै । गोरसक्षेपिण्यै । शूरायै । सानन्दायै । आनन्ददायिन्यै । महालीलायै । प्रकृष्टायै । नागर्यै । नगचारिण्यै । नित्यमाघूर्णितायै । पूर्णायै । कस्तूरीतिलकान्वितायै । पद्मायै नमः ॥ ६०० ॐ श्यामायै नमः । मृगाक्ष्यै । सिद्धिरूपायै । रसावहायै । कोटिचन्द्राननायै । गौर्यै । कोटिकोकिलसुस्वरायै । शीलसौन्दर्यनिलयायै । नन्दनन्दनलालितायै । अशोकवनसंवासायै । भाण्डीरवनसङ्गतायै । कल्पद्रुमतलाविष्टायै । कृष्णायै । विश्वायै । हरिप्रियायै । अजागम्यायै । भवागम्यायै । गोवर्धनकृतालयायै । यमुनातीरनिलयायै । शश्वद्गोविन्दजल्पिन्यै नमः ॥ ६२० ॐ शश्वन्मानवत्यै नमः । स्निग्धायै । श्रीकृष्णपरिवन्दितायै । कृष्णस्तुतायै । कृष्णवृतायै । श्रीकृष्णहृदयालयायै । देवद्रुमफलायै । सेव्यायै । वृन्दावनरसालयायै । कोटितीर्थमय्यै । सत्यायै । कोटितीर्थफलप्रदायै । कोटियोगसुदुष्प्राप्यायै । कोटियज्ञदुराश्रयायै । मानसायै । शशिलेखायै । श्रीकोटिसुभगायै । अनघायै । कोटिमुक्तसुखायै । सौम्यायै नमः ॥ ६४० ॐ लक्ष्मीकोटिविलासिन्यै । तिलोत्तमायै । त्रिकालस्थायै । त्रिकालज्ञायै । अधीश्वर्यै । त्रिवेदज्ञायै । त्रिलोकज्ञायै । तुरीयान्तनिवासिन्यै । दुर्गाराध्यायै । रमाराध्यायै । विश्वाराध्यायै । चिदात्मिकायै । देवाराध्यायै । पराराध्यायै । ब्रह्माराध्यायै । परात्मिकायै । शिवाराध्यायै । प्रेमसाध्यायै । भक्ताराध्यायै । रसात्मिकायै नमः ॥ ६६० ॐ कृष्णप्राणार्पिण्यै नमः । भामायै । शुद्धप्रेमविलासिन्यै । कृष्णाराध्यायै । भक्तिसाध्यायै । भक्तवृन्दनिषेवितायै । विश्वाधारायै । कृपाधारायै । जीवाधारायै । अतिनायिकायै । शुद्धप्रेममय्यै । लज्जायै । नित्यसिद्ध्यै । शिरोमणये । दिव्यरूपायै । दिव्यभोगायै । दिव्यवेषायै । मुदान्वितायै । दिव्याङ्गनावृन्दसारायै । नित्यनूतनयौवनायै नमः ॥ ६८० ॐ परब्रह्मावृतायै नमः । ध्येयायै । महारूपायै । महोज्ज्वलायै । कोटिसूर्यप्रभायै । कोटिचन्द्रबिम्बाधिकच्छवये । कोमलायै । अमृतवागाद्यायै । वेदाद्यायै । वेददुर्लभायै । कृष्णासक्तायै । कृष्णभक्तायै । चन्द्रावलिनिषेवितायै । कलाषोडशसम्पूर्णायै । कृष्णदेहार्धधारिण्यै । कृष्णबुद्धये । कृष्णसारायै । कृष्णरूपविहारिण्यै । कृष्णकान्तायै । कृष्णधनायै नमः ॥ ७०० ॐ कृष्णमोहनकारिण्यै नमः । कृष्णदृष्टये । कृष्णगोप्त्र्यै । कृष्णदेव्यै । कुलोद्वहायै । सर्वभूतस्थितात्मने । सर्वलोकनमस्कृतायै । कृष्णदात्र्यै । प्रेमधात्र्यै । स्वर्णगात्र्यै । मनोरमायै । नगधात्र्यै । यशोदात्र्यै । महादेव्यै । शुभङ्कर्यै । श्रीशेषदेवजनन्यै । अवतारगणप्रसुवे । उत्पलाङ्कायै । अरविन्दाङ्कायै । प्रसादाङ्कायै नमः ॥ ७२० ॐ अद्वितीयकायै नमः । रथाङ्कायै । कुञ्जाराङ्कायै । कुण्डलाङ्कायै । पदस्थितायै । छत्राङ्कायै । विद्युदङ्कायै । पुष्पमालाङ्कितायै । दण्डाङ्कायै । मुकुटाङ्कायै । पूर्णचन्द्रायै । शुकाङ्कितायै । कृष्णान्नाहारपाकायै । वृन्दाकुञ्जविहारिण्यै । कृष्णप्रबोधनकर्यै । कृष्णशेषान्नभोजिन्यै । पद्मकेसरमध्यस्थायै । सङ्गीतागमवेदिन्यै । कोटिकल्पान्तभ्रूभङ्गायै । अप्राप्तप्रलयाच्युतायै नमः ॥ ७४० ॐ सर्वसत्वनिधये । पद्मशङ्खादिनिधिसेवितायै । अणिमादिगुणैश्वर्यायै । देवृवृन्दविमोहिन्यै । सर्वानन्दप्रदायै । सर्वायै । सुवर्णलतिकाकृतये । कृष्णाभिसारसङ्केतायै । मालिन्यै । नृत्यपण्डितायै । गोपीसिन्धुसकाशाह्वायै । गोपमण्डलशोभिन्यै । श्रीकृष्णप्रीतिदायै । अभीतायै । प्रत्यङ्गपुलकाञ्चितायै । श्रीकृष्णालिङ्गनरतायै । गोविन्दविरहाक्षमायै । अनन्तगुणसम्पन्नायै । कृष्णकीर्तनलालसायै । बीजत्रयमय्यै मूर्त्यै नमः ॥ ७६० ॐ कृष्णानुग्रहवाञ्छितायै नमः । विमलादिनिषेव्यायै । ललिताद्यर्चितायै सत्यै । पद्मवृन्दस्थितायै हृष्टायै । त्रिपुरापरिसेवितायै । बृन्दावत्यर्चितायै । श्रद्धायै । दुर्ज्ञेयायै । भक्तवल्लभायै । दुर्लभायै । सान्द्रसौख्यात्मने । श्रेयोहेतवे । सुभोगदायै । सारङ्गायै । शारदायै । बोधायै । सद्वृन्दावनचारिण्यै नमः । ब्रह्मानन्दायै । चिदानन्दायै ध्यानानन्दायै नमः ॥ ७८० ॐ अर्धमात्रिकायै नमः । गन्धर्वायै । सुरतज्ञायै । गोविन्दप्राणसङ्गमायै । कृष्णाङ्गभूषणायै । रत्नभूषणायै । स्वर्णभूषितायै । श्रीकृष्णहृदयावासमुक्ताकनकनालिकायै । सद्रत्नकङ्कणयुतायै । श्रीमन्नीलगिरिस्थितायै । स्वर्णनूपुरसम्पन्नायै । स्वर्णकिङ्किणिमण्डितायै । अशेषरासकुतुकायै । रम्भोरवे । तनुमध्यमायै । पराकृतये । परानन्दायै । परस्वर्गविहारिण्यै । प्रसूनकबरीचित्रायै । महासिन्दूरसुन्दर्यै नमः ॥ ८०० ॐ कैशोरवयसा बालायै । प्रमदाकुलशेखर्यै । कृष्णाधरसुधास्वादायै । श्यामप्रेमविनोदिन्यै । शिखिपिञ्छलसच्चूडायै । स्वर्णचम्पकभूषितायै । कुङ्कुमालक्तकस्तूरीमण्डितायै । अपराजितायै । हेमहारान्वितायै । पुष्पहाराढ्यायै । रसवत्यै । माधुर्यमधुरायै । अपराजितायै । हेमहारान्वितायै । पुष्पहाराढ्यायै । रसवत्यै । माधुर्यमधुरायै । पद्मायै । पद्महस्तायै । सुविश्रुतायै । भ्रूभङ्गाभङ्गकोदण्डकटाक्षशरसन्धिन्यै । शेषदेवशिरःस्थायै । नित्यस्थलविहारिण्यै । कारुण्यजलमध्यस्थायै । नित्यमत्तायै नमः ॥ ८२० ॐ अधिरोहिण्यै नमः । अष्टभाषावत्यै । अष्टनायिकायै । लक्षणान्वितायै । सुनीतिज्ञायै । श्रुतिज्ञायै । सर्वज्ञायै । दुःखहारिण्यै । रजोगुणेश्वर्यै । शरच्चन्द्रनिभाननायै । केतकीकुसुमाभासायै । सदासिन्धुवनस्थितायै । हेमपुष्पाधिककरायै । पञ्चशक्तिमयीहितायै । स्तनकुम्भ्यै । नराढ्यायै । क्षीणापुण्यायै । यशस्विन्यै । वैराजसूयजनन्यै । श्रीशायै नमः ॥ ८४० ॐ भुवनमोहिन्यै नमः । महाशोभायै । महामायायै । महाकान्त्यै । महास्मृत्यै । महामोहायै । महाविद्यायै । महाकीर्त्यै । महारत्यै । महाधैर्यायै । महावीर्यायै । महाशक्त्यै । महाद्युत्यै । महागौर्यै । महासम्पदे । महाभोगविलासिन्यै । समयायै । भक्तिदायै । अशोकायै । वात्सल्यरसदायिन्यै नमः ॥ ८६० ॐ सुहृद्भक्तिप्रदायै नमः । स्वच्छायै । माधुर्यरसवर्षिण्यै । भावभक्तिप्रदायै । शुद्धप्रेमभक्तिविधायिन्यै । गोपरामायै । अभिरामायै । क्रीडारामायै । परेश्वर्यै । नित्यरामायै । आत्मरामायै । कृष्णरामायै । रसेश्वर्यै । एकानेकजगद्व्याप्तायै । विश्वलीलायै । प्रकाशिन्यै । सरस्वतीशायै । दुर्गेशायै । जगदीशायै । जगद्विधये नमः ॥ ८८० ॐ विष्णुवंशनिवासायै । विष्णुवंशसमुद्भवायै । विष्णुवंशस्तुतायै । कर्त्र्यै । सदा विष्णुवंशावन्यै । आरामस्थायै । वनस्थायै । सूर्यपुत्र्यवगाहिन्यै । प्रीतिस्थायै । नित्ययन्त्रस्थायै । गोलोकस्थायै । विभूतिदायै । स्वानुभूतिस्थितायै । व्यक्तायै । सर्वलोकनिवासिन्यै । अमृतायै । अद्भुतायै । श्रीमन्नारायणसमीडितायै । अक्षरायै । कूटस्थायै नमः ॥ ९०० ॐ महापुरुषसम्भवायै नमः । औदार्यभावसाध्यायै । स्थूलसूक्ष्मायै । अतिरूपिण्यै । शिरीषपुष्पमृदुलायै । गाङ्गेयमुकुरप्रभायै । नीलोत्पलजिताक्ष्यै । सद्रत्नकबरान्वितायै । प्रेमपर्यङ्कनिलयायै । तेजोमण्डलमध्यगायै । कृष्णाङ्गगोपनायै । अभेदायै । लीलावरणनायिकायै । सुधासिन्धुसमुल्लासायै । अमृतास्यन्दविधायिन्यै । कृष्णचित्तायै । रासचित्तायै । प्रेमचित्तायै । हरिप्रियायै । अचिन्तनगुणग्रामायै नमः ॥ ९२० ॐ कृष्णलीलायै । मलापहायै । राससिन्धुशशाङ्कायै । रासमण्डलमण्डिन्यै । नतव्रतायै । सिंहरीच्छायै । सुमूर्तये । सुरवन्दितायै । गोपीचूडामणये । गोपीगणेड्यायै । विरजाधिकायै । गोपप्रेष्ठायै । गोपकन्यायै । गोपनार्यै । सुगोपिकायै । गोपधाम्ने । सुदामाम्बायै । गोपाल्यै । गोपमोहिन्यै । गोपभूषायै नमः ॥ ९४० ॐ कृष्णभूषायै नमः । श्रीवृन्दावनचन्द्रिकायै । वीणादिघोषनिरतायै । रासोत्सवविकासिन्यै । कृष्णचेष्टापरिज्ञातायै । कोटिकन्दर्पमोहिन्यै । श्रीकृष्णगुणगानाढ्यायै । देवसुन्दरिमोहिन्यै । कृष्णचन्द्रमनोज्ञायै । कृष्णदेवसहोदर्यै । कृष्णाभिलाषिण्यै । कृष्णप्रेमानुग्रहवाञ्छितायै । क्षेमायै । मधुरालापायै । भ्रुवोर्मायायै । सुभद्रिकायै । प्रकृत्यै । परमानन्दायै । नीपद्रुमतलस्थितायै । कृपाकटाक्षायै नमः ॥ ९६० ॐ बिम्बोष्ठ्यै नमः । रम्भायै । चारुनितम्बिन्यै । स्मरकेलिनिधानायै । गण्डताटङ्कमण्डितायै । हेमाद्रिकान्तिरुचिरायै । प्रेमाद्यायै । मदमन्थरायै । कृष्णचिन्तायै । प्रेमचिन्तायै । अतिचिन्तायै । कृष्णदायै । रासचिन्तायै । भावचिन्तायै । शुद्धचिन्तायै । महारसायै । कृष्णदृष्टित्रुटियुगायै । दृष्टिपक्ष्मविनिन्दिन्यै । कन्दर्पजनन्यै । मुख्यायै नमः ॥ ९८० ॐ वैकुण्ठगतिदायिन्यै नमः । रासभावायै । प्रियाश्लिष्टायै । प्रेष्ठायै । प्रथमनायिकायै । शुद्धायै । सुधादेहिन्यै । श्रीरामायै । रसमञ्जर्यै । सुप्रभावायै । शुभाचारायै । स्वर्णद्यै । नर्मदायै । अम्बिकायै । गोमत्यै । चन्द्रभागेड्यायै । सरयूताम्रपर्णिसुवे । निष्कलङ्कचरित्रायै । निर्गुणायै । निरञ्जनायै नमः ॥ १००० इति श्रीराधाकृष्णयुगलसहस्रनामावलिः समाप्ता ।