अक्षर आकार:

श्रीराधाकृष्णसुप्रभातम्

Shri Radhakrishna Suprabhatam

श्रीराधाकृष्णसुप्रभातम्

सत्यं धर्ममपीह रक्षितुमहो भूभारनाशाय वै दैत्यैस्तापितसर्वदैवतगणान् संरक्षितुं लीलया । लीलामानुषविग्रहः समभवद्यो वा हरिर्भूतले राधाकृष्णमहाप्रभुः स भगवान् रक्षां करोत्वन्वहम् ॥ १॥ गोपीरूपधरान् महामुनिगणान् गोरूपदेवान् सदा रक्षायै समनुग्रहाय च मुदा कृष्णं वपुः प्राप यः सोऽयं सार्वजनीनवन्द्यविभवो विश्वैकरक्षाकरः राधाकृष्णमहाप्रभो सुरपते ते सुप्रभातं शुभम् ॥ २॥ सौन्दर्यं किल मूर्तमेव सकलं लोकैकविस्मापकं चौर्यं यस्य च भक्तसङ्घविनुतं पापापहं प्रत्यहम् । मुष्णन्त्यद्य हि कृष्णचौर्यसुकथाः भक्तस्य दुःखानि वै राधावल्लभ रासकेलिरसिक श्रीसुप्रभातं शुभम् ॥ ३॥ वेदान्तप्रतिपाद्यमानविभवो वेदैकवेद्यप्रभुः वंशीवादनलोलुपः व्रजजनानन्दैकधुर्यो विभुः । विख्यातो भुवनेषु बालवपुषा वीणामुनीन्द्रस्तुतः राधालोल रमापते यदुपते ते सुप्रभातं शुभम् ॥ ४॥ राधावल्लभ रञ्जिताखिलमनाः कन्दर्पदर्पापह लीलालोलुप लब्धभक्तिसुलभ श्रीदेवकीनन्दन । लीलामानुष लोलकुन्तल महालावण्यरत्नाकर राधामाधव रम्यकेलिकुतुकिन् ते सुप्रभातं शुभम् ॥ ५॥ पूज्याष्टाक्षरमन्त्रमन्त्रित नमो नारायणाख्य प्रभो श्रीमद्द्वादशमन्त्रनित्यमहित श्रीवासुदेव प्रभो । रांपूर्वैश्च षडक्षरैः सुविदित श्रीवीरराम प्रभो राधाकृष्ण महाप्रभोऽखिलगुरो ते सुप्रभातं शुभम् ॥ ६॥ त्वं सान्दीपनिसद्गुरोर्हि वचसा सामुद्रमग्नं शिशुं आनीयापि च सद्गुरोर्हि निकटे प्रत्यर्पयः सत्वरम् । तेन त्वां गुरुराट् प्रपूजयदहो पुत्रस्य लाभात् स्वकात् भो देव त्वमचिन्त्यविक्रमगुणस्ते सुप्रभातं शुभम् ॥ ७॥ भुक्त्वा तत्पृथुकं कुचेलगृहिणीसम्प्रेषितं सादरं विद्याभ्याससहायकस्य च गृहं श्रीश्रीसमृद्धं व्यधाः । आर्तत्राणपरायणः स भगवान् सर्वस्वदानोद्यतः राधाकृष्ण सुसुन्दरार्तिहरण श्रीसुप्रभातं शुभम् ॥ ८॥ आदित्यादिनवग्रहाश्च तिथयः होरा च योगास्तथा नक्षत्राणि च वास्तवः प्रतिदिनं दिक्पालभूतानि वा ॥ राधाकृष्णनिविष्टचेतसममी नो पीडयन्ति ध्रुवं राधाकृष्णमहाप्रभो तव शुभं सुप्रातमेवाद्य हि ॥ ९॥ देव त्वां शरणं गतोऽस्मि सततं राधामनोल्लासक त्वं मातासि पिता तथैव सहजो बन्धुश्च पुत्री सुतः । सर्वस्वं हि मम त्वमेव सततं श्रीगोपिकाप्रेमभाक् पाह्यस्मान् सकुटुम्बकान् तव पदद्वन्द्वैकसेवारतान् ॥ १०॥ राधाकृष्णमहाप्रभो त्रिभुवनक्षेमङ्करस्याशु वै श्रीसुप्रातमिमं समाधितमना यो वा पठेदन्वहम् । सो नित्यं विजयी समाप्तसुधनः सत्पुत्रपौत्रैर्वृतः दीर्घायुश्च निरामयश्च निवसेत् श्रीकृष्णकारुण्यतः ॥ ११॥ इति श्रीराधाकृष्णसुप्रभातम् ॥ From kalyANamanjarI, dvitIya bhAgaH rAdhAkalyaNam saNgrahItaM rA. dattagopAlakRRiShNaH, svarNaprakAshanam