अक्षर आकार:

श्रीराधाकृष्णप्रादुर्भावः

Shri Radhakrishna PradurbhavaH

श्रीराधाकृष्णप्रादुर्भावः

श्रीमते रामानुजाय नमः । श्रीराधानटवराभ्यां नमः । नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । नमो राधाधरसुधासिन्धुनित्यविहारिणे ॥ १॥ राधाकृष्णस्वरूपां वै कृष्णराधास्वरूपिणम् । कालात्मानं निकुञ्जस्थं गुरुरूपं सदा भजे ॥ २॥ हरिणीं हारिणीं ह्रीणां हरितां चतुरक्रियाम् । कौमारीं सततं वन्दे तप्तचामीकरप्रभाम् ॥ ३॥ मुग्धां स्निग्धां विदग्धां चासन्दिग्धां चतुरक्रियाम् । वन्दे रणक्रियाभासा देवर्षिप्रमुखाकृतीः ॥ ४॥ सिञ्जन्नूपुरपादपद्मयुगलां हंसीगतिं बिभ्रतीं चञ्चत्खञ्जनमञ्जुलोचनयुगां पीनोल्लसत्कन्धराम् । बिभ्रत्काञ्चनकङ्कणं द्युतिमिलत्पाणौ चलच्चामरं कुर्वाणां हरिराधिकोपरि सदा श्रीरङ्गदेवीं भजे ॥ ५॥ नव्यां नूतनचीरधारणपरां नीलप्रभां द्योतितां नीलेन्दीवरदीर्घसुन्दरदृशां नीलं निरीक्षद्वनम् । वृन्दारण्यनिकुञ्जवासमुदितं राजीवनेत्रं हरिं ध्यायन्ती धरणि स्थिरेण मनसा श्रीनव्यवासां भजे ॥ ६॥ वचनेमृतसागरायतीं गमने मत्तसुरद्विपायतीम् । हसने मलमौक्तिकायतीं सततं श्रीसखिविश्वमां भजे ॥ ७॥ उत्तमाङ्गपरिरक्षणस्थिरामुत्तरोत्तररसप्रदायनीम् । स्वामिनीं प्रणयपूरनिर्भरामुत्तमां च शिरसाभिवादये ॥ ८॥ निजदासविलासदायिनीं निजनाथैकगुणौघगायिनीम् । वयसा नयनेन्दुहायिनीं सुविलासां शिरसा नतोस्म्यहम् ॥ ९॥ रससागरपारधोरणीं रसरूपामृतचन्द्रतोरणीम् । सरसस्मितहास्यवादिनीं सरसां रासकरीं भजामहे ॥ १०॥ मधुरां मधुरप्रभाषिणीं हरिराधारतिरङ्गसाक्षिणीम् । शशिकोटिविकाससुस्मितां प्रणमामि प्रणयात्मनि स्थिताम् ॥ ११॥ भवतापहरां भयापहां भवपाथोधितरीं दयापराम् । दलिताम्बुजनेत्रशालिनीमतिभद्रां मनसा स्मरे मुदा ॥ १२॥ निजवर्गमधुव्रतावलीं कमनीयाङ्गुलिपल्लवप्ररूढाम् । स्वजनामलमानसप्रसूतं प्रियपद्मापदपङ्कजं स्मरामि ॥ १३॥ श्यामां श्यामवयोन्वितां परिलसन्नीलाम्बरं बिभ्रतीं आकर्णायतनेत्रपङ्कजभरैरालस्यमातन्वतिम् । लीलालोलमनङ्गरङ्गमधुरव्यापरभारावहां राधाकृष्णमुखारविन्दमतुलं सञ्चिनयन्तीं भजे ॥ १४॥ वीणावादनतारतानमधुरत्वाविष्करत्रीं मुदां श्रीवृन्दावनचन्द्रकृष्णविलसत्पादाम्बुजध्यायिनीम् । राधाहारविलासभारकुशलां कुन्देन्दुज्योत्स्नामुखा- मिच्छाशक्तिरतां हरेः प्रिवतरां श्रीशारदाम्बां भजे ॥ १५॥ करेणोत्त्रीयं हसन्ती दधाना द्वितीयेन फुल्लारविन्दान्वहन्ती । लसत्पीनवक्षो लसत्पुष्पहारां सदा संस्मरेहं कृपालामुदाराम् ॥ १६॥ रणच्चारुपादाम्बुजन्यासनिर्जिद्गजेन्द्रामुरौ मौक्लिकस्फारहाराम् । सुधामाधुरीहारिमन्दस्मितास्यां भजे देवदेवीं सुरप्रार्थ्यदास्याम् ॥ १७॥ स्फुरत्सुन्दरोदारमन्दारहारस्तनद्वन्द्वभारावसीदत्सुमध्याम् । लसद्धस्तविन्यस्तताम्बूलपत्रां भजे सुन्दरीं सुन्दराकारछत्राम् ॥ १८॥ पादारविन्दं शिथिलं दधाना पद्मालया पद्मपरागरञ्जिता । पद्मप्रभा पद्मकुचाभिरामा नमामि तस्याः पदपङ्कजं सदा ॥ १९॥ अनाप्नुवंस्तन्मुखचन्द्रमस्तुलां विधुर्गतः खं त्रपया ज्वरार्दितः । जले पतन्नाप्तमुखाम्बुजश्रीस्तामिन्दिरां चेतसि भावयामि ॥ २०॥ कामाङ्गनाकोटिमनोज्ञरूपां मुखप्रभानीर्जितरात्रिभूपाम् । स्वीयप्रियास्नेहनिधानकूपां रामां स्मरे कृष्णमनोनुरूपाम् ॥ २१॥ प्रावृट् प्रफुल्लनवचारुकदम्बपुष्पहारामुखद्युतिविनिर्जितचन्द्रवारा । कान्ताङ्गसङ्गजनिताङ्कनिदर्शनाय वामा करोदभिलसन्मुकुरस्वसख्याः ॥ २२॥ कृष्णामहमभिवन्दे युगलपदाम्भोजभावनामुदिताम् । कृष्णरसायनतृटमि साक्षादिव सिन्धुजां कॢप्ताम् ॥ २३॥ यमुनातीरनिकुञ्जे मधुकरपुञ्जे विनिद्रतरुवृन्दे । पद्मामहमभिबन्दे रटतीं कृष्णेति कृष्णेति ॥ २४॥ अयुतायुतेन्दुरूपां सकलसखीमालिकानूपाम् । वन्देहं श्रुतिरूपां कोटिस्मरकान्तिसरूपाम् ॥ २५॥ मदनमोहनमोहनसुन्दरस्मितविलासकलासु कुतूहलाम् । प्रमुदितेन हृदा त्वभिवादये मनसि भागवतीं भगवत्प्रियाम् ॥ २६॥ वसन्तकालोदयपुष्पितानि द्विसन्धिरागायुतपङ्कजानि । प्रियप्रियाचारुपदाम्बुजेषु प्रीत्यार्पयन्तीं प्रणमामि माधवीम् ॥ २७॥ यच्छोभाभरजलधौ विधिमुखविबुधालयं ययुः सुचिरम् । असितायाश्च तदास्यं शारदविधुमण्डलाकृतिं ध्याये ॥ २८॥ श‍ृङ्गारभारं विविधं विधाय प्रातः स्थिताया निजदेवतायाः । मुखारविन्दैकनिरीक्षणाय गुणाकरी दर्पणमाचकार ॥ २९॥ द्विजराजकलाविरजमानां मुखशोभाजितफुल्लकञ्जलक्ष्मीम् । मृगराजकटिं मृगायताक्षीमहमीडे सततं सुवल्लभाख्याम् ॥ ३०॥ शारदीयविधुबिम्बमुखाभां कुन्दपङ्क्तिरदनश्रियमेकाम् । तुङ्गपीनकुचभारविनम्रामानतोस्मि शाशिगौरतराङ्गीम् ॥ ३१॥ मयूरपिच्छद्युतिहारचामरप्रभातिरस्कारि निजप्रियायाः । सङ्गुम्फयन्तीं विलसत्कराभ्यां धम्मिल्लभारं प्रणमामि केशीम् ॥ ३२॥ जगत्पवित्रं कुरुते हि यस्या दृगन्तपातो वितनोति सौख्यम् । श्रीस्वामिनी स्नेहनिधानभूतां श्रीकृष्णमित्रां प्रभजे पवित्राम् ॥ ३३॥ काश्मीरपङ्काङ्कितहृत्सरोजां सम्भावितश्रीपतिपत्सरोजाम् । विनिद्ररक्तोत्पललोचनाभां मुदा स्मरे चेतसि कुङ्कुमाभाम् ॥ ३४॥ समस्तनानाविधदेवतागणैर्विरिञ्चिगङ्गाधरशारदादिभिः । मूर्ध्नाभिवन्द्यारुणपादपद्मां श्रीश्रीहितां सन्ततमानतोस्मि ॥ ३५॥ विलोहितप्रान्तविशाललोचनां मुखप्रभापूर्णनिशाकरोपमाम् । सुचामरालङ्कृतहस्तपङ्कजां श्रीरङ्गदेवीं मनसा स्मरामि ताम् ॥ ३६॥ अलिन्दे कालिन्दीकमलसुरभीकुञ्जवसतौ वसन्ती वासन्ती नवपरिमलोद्गारिवदनाम् । तदुत्तुङ्गे लीलामदमुकुलिताक्षीं पुनरिमां कदाहं सेव्यंसे किसलयकलापप्रमदने ॥ ३७॥ श्यामालिङ्गितगौरदेहलतया विद्युच्छविं निन्दतीं श्यामाम्भोधरमाधुरीपरिणतीं पद्भयां तिरस्कुर्वतीम् । सर्वासां रतिकेलिभावचतुरां स्त्रीणां शिरोभूषणां श्रीकृष्णस्मरमन्त्रदेशनगुरुं तां राधिकामाश्रये ॥ ३८॥ श्यामप्रेमविलासनीतिनिपुणा श‍ृङ्गारभावान्विता वैदग्धीमदमञ्जतीरसमयी लावण्यविश्रामभूः । रासोल्लासरसप्रबन्धरसिका सौन्दर्यसीमाश्रया श्रीवृन्दावनदेवता विजयते राधा सुधामञ्जरी ॥ ३९॥ श्रीश्रीकोटिनितान्तरूपरुचिरां सौन्दर्यसम्मोहिनीं श्रीवृदावनमञ्जुकुञ्जनिभृतिक्रीडरसावेशिनीम् । श्रीमद्रासविलासलालसमहानन्दामृतप्लाविनीं श्रीमद्दुर्लभदुर्लभा विजयते राधा सुधामञ्जरी ॥ ४०॥ उत्तुङ्गस्तनभारभङ्गुरतनुर्विद्याच्छटाकछवी प्रोद्यन्नीलनवाम्बरा मृदुपदाम्भोजस्फुरन्मञ्जरी । सुस्मेराधरबिम्बचन्द्रवदनी कन्दर्पदर्पाङ्कुरा प्रेमाब्धौ मदमन्थरा विजयते प्राणाधिका राधिका ॥ ४१॥ भस्मीभूतमनोभवं हरदृशोदारस्फुलिङ्गाङ्कुरै- र्लीलापाङ्गनिरीक्षणेन कुतुका तत्सञ्जयन्ती पुनः । मृग्यन्ती स्मरकेलिकुञ्जभवनेकान्तं सखीभिः समं नित्यं नित्यविनोदिनां विजयते प्राणाधिका राधिका ॥ ४२॥ उन्मीलन्नवनेत्रपङ्कजतरोः फुल्लस्तनालङ्कृता सुश्रोणीभरभङ्गुरा सुरुचिरां स्मेराधरामेदुराम् । रक्षन्ती निजवल्लभं नवघनश्यामालिकेलिस्थली- प्रोन्मीलन्कुचकोरका विजयते प्राणाधिका राधिका ॥ ४३॥ श्रीमत्कोटिमनोभवैर्विजयते यत्रार्थसंवादिनी श्रीमद्गानवसन्तरागविलसद् वक्त्राम्बुजामोहिनीम् । line missing in the print श्रीवृन्दावनवल्लभा विजयते राधा सुधामञ्जरी ॥ ४४॥ कलाकुशलरङ्गिनी नटति यत्र राधा नटी न यत्र मुरलीश्रुतिप्रियसखो भवेहागपि । यदीह तरुपक्षिणामनुभवोस्ति सङ्ग्राहक- स्स्मरामि यमुनातटे रसिकवृन्दवृन्दावनम् ॥ ४५॥ प्रथममिलितभीताह्रायिता सा स्वराशौ प्रियतमभुजराधाव्यग्रहस्तौ हसन्तौ । अनमनमतिलीलागद्गदोक्तेर्मदान्धौ स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौ ॥ ४६॥ हृतकनकसुगौरस्निग्धमेघौघनील- च्छविभिरखिलवृन्दारण्यमार्गे व्रजन्तौ । मृदुलनवदुकूले नीलपीते दधानौ स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौ ॥ ४७॥ नवललितवपुष्कौ नव्यलावण्यपुञ्जौ नवरसचलचित्तौ नूतनप्रेमवृत्तौ । नवनिधिवनलीलाकौतुकेनातिलोलौ स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौ ॥ ४८॥ निखिलनिगमगूढौ नित्यमत्यन्तगूढौ प्रणतपरनिबद्धौ श‍ृङ्खलाबद्धचेष्टौ । सुरतरतिमदान्धौ न्यस्तमिश्रौघकन्दौ स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौ ॥ ४९॥ जघनलुलितवेणूविस्फुरद्बर्हचूडौ रुचिरकनकचूडाकङ्कणद्वन्द्वपाणी । विलसदरुणरोचिः पीतकौशेयरम्यौ स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौह ॥ ५०॥ गहनसुरतलीलापाशसंस्विन्नगात्रौ दयितनिजसखीभिर्वेद्यमानौ पटान्ते । सुरतसुभुजवल्लीपीड्यमानौ च भूयः स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौ ॥ ५१॥ विलुलितवरवेणीहारनालावतंसौ मृदुलमधुरहासोल्लासवक्त्रारविन्दौ । अतिरसमदनान्धौ चित्रकन्दर्पकेली- स्मरनिभृतनिकुल्लौ राधिकाकृष्णचन्द्रौ ॥ ५२॥ इति श्रीराधाकृष्णप्रादुर्भावः सम्पूर्तिमगात् ॥ From shrI sarasa stotrasangrahaH (Lucknow, 1909).