अक्षर आकार:

श्रीराधाकृष्णकवचम्

Shri Radhakrishna Kavacham

श्रीराधाकृष्णकवचम्

ॐ श्रीगणेशाय नमः । श्रीभैरव उवाच । अधुना कथयिष्यामि राधकृष्णस्य भैरवि । कवचं मन्त्रगर्भं तु वज्रपञ्जरसंज्ञकम् ॥ १॥ रहस्यं सर्वदेवानां मर्त्यानां च विशेषतः । अस्यैव धारणाच्चाहं सर्वज्ञोऽस्मि महेश्वरि ॥ २॥ यद्धारणात्ससर्जादौ ब्रह्मा सृष्टिं पृथग्विधाम् । यं धृत्वा त्रिदशेन्द्रत्वं प्रालेभे पाकशासनः ॥ ३॥ व्योम्नि प्रकाशते भानुर्नित्यं यद्धारणात्प्रिये ॥ सर्वप्राणिनियन्तापि बभूव धर्मराड्यतः ॥ ४॥ धनाध्यक्षः कुबेरोऽभूदस्य सन्धारणादपि ॥ यस्मिन्धृते पाशहस्तः सलिलेशो बभूव ह ॥ ५॥ ये ये पूर्वं दानवेन्द्राः प्रबलाः कर्मणापि च ॥ अस्यैव धारणात्सर्वे ते ते नीता मृतिं मया ॥ ६॥ शक्नुयात्को गणयितुं माहात्म्यमस्य चेश्वरि । विनानेन न सिद्धिः स्यादिह लोके परत्र च ॥ ७॥ कवचं यं समाबध्य मन्त्रजापं समाचरेत् । तेनैव मन्त्रसिद्धिश्च जायते परमाद्भुता ॥ ८॥ कवचस्यास्य देवेशि ब्रह्मा प्रोक्तो मुनिस्तथा । गायत्रं छन्द इत्युक्तं श्रीराधाप्रियवल्लभः ॥ ९॥ देवतात्र परं बीजं मायायाः परमेश्वरि । रमा शक्तिः कामराजबीजं कीलकमीश्वरि ॥ १०॥ चतुर्वर्गफलावाप्तौ विनियोगः प्रकीर्तितः ॥ ११॥ अथ ध्यानम् ॥ ध्यानं वक्ष्ये महादेवि श्रीराधामाधवस्य च । यज्ज्ञात्वा मन्त्रवित्प्राज्ञः सिद्धिं प्राप्नोति चैश्वरीम् ॥ १२। श्रीमदुद्यानकल्पद्रुमविटपलसत्स्वर्णदोलाधिरूढं श्रीराधां रिङ्खमाणं कटितटविलसत्क्षुद्रघणटारवाढयम् । वंशीरन्ध्रान्तरं श्रीमुखकमलगलद्वायुना पूर्यमाणं राधाप्रेक्षणहर्षफुल्लनयनं वन्दे सदा माधवम् ॥ १३॥ श्यामं पूर्णेन्दुवदनं वराभयलसत्करम् । राधाऽऽश्लिष्टतनुं कान्तं मुक्तिदं माधवं भजे ॥ १४॥ ॐ ह्रीं मस्तकं माधवोऽव्याच्छ्रीं श्रीकृष्णो ललाटकम् । पायान्नेत्रे सदा पातु क्लीं गोविन्दः समन्ततः ॥ १५॥ श्रीराधावल्लभः पातु नासां मे भक्तवत्सलः ॥ दामोदरो मुखं पातु वैकुण्ठः पातु कण्ठकम् ॥ १६॥ वक्षःस्थलं सदा पायान्मम श्रीवत्सलाञ्छनः ॥ चतुर्भुजो भुजौ पातु हस्तौ रक्षतु केशवः ॥ १७॥ पार्श्वौ मम सदा पातु पूर्णचन्द्रनिभाननः ॥ हृदयं मुकुन्दः पायान्मे कुक्षिं विश्वम्भरो मम ॥ १८॥ पृष्ठं पार्थसखः पातु नाभिं पञ्चजनाभियुक् ॥ गुह्यं मे रक्षतु श्रीमान्सर्वतोविष्टरश्रवाः ॥ १९॥ शिश्नं श्रीशः सदा पायात्कटिं कैटभजित्तथा ॥ ऊरू त्रिविक्रमः पातु जानुनी च जनार्दनः ॥ २०॥ जङ्घे गदाधरः पातु गुल्फौ मे गरुडध्वजः ॥ पादौ सहस्रपात्पातु राधेशः सकलं वपुः ॥ २१॥ इन्द्रो मां पूर्वतः पातु वह्निर्वह्नौ सदा मम ॥ यमो दक्षिणतः पातु नैरृते निरृतिस्तथा ॥ २२॥ वरुणः पश्चिमे पायाद्वायव्येऽव्यात्सदागतिः ॥ कुबेर उत्तरे पायादैशान्यामीश्वरोऽवतु ॥ २३॥ दशदिक्षु सदा पातु श्रीराधावल्लभः प्रभुः ॥ प्रभाते पातु श्रीकृष्णो मध्याह्ने गोपवल्लभः ॥ २४॥ सायं राधाप्रियः पातु प्रदोषे गोपतिप्रियः ॥ अर्धरात्रे सदा पातु प्रद्युम्नो भगवान्मम ॥ २५॥ निशान्ते माधवः पातु विष्वक्सेनस्तु सर्वदा ॥ रणे राजभये द्यूते विवादे शत्रुसङ्कटे ॥ २६॥ ॐ ह्रीं श्रीं क्लीं सदा पातु श्रीराधावल्लभः प्रभुः ॥ २७॥ ॐ ह्रीं श्रीं गरुडध्वजः सगतिमान्पायाद्रणे सङ्कटे श्रीकृष्णो भगवान्ममारिनिवहान्विध्वंसयेत्तत्क्षणात् । गोविन्दोऽवतु मां सदा हरिभयाद्राधाप्रियो माधवो मां पायाद्विपदः श्मशानगचरोऽव्याद्भयात्सर्वतः ॥ २८॥ (तोयौघाज्ज्वलनोद्भवादरिभयान्माम्पातु राधेश्वरः)। इतीदं कवचं दिव्यं वज्रपञ्जरकाभिधम् ॥ सर्वसौभाग्यजननं सुखदं सन्ततिप्रदम् ॥ २९॥ लक्ष्मीसंवर्धनं देवि परमार्थरसायनम् ॥ ३०॥ मन्त्रगर्भपरं साररहस्यं त्रिदिवौकसाम् । त्रिसन्ध्यं यः पठेन्नित्यं कवचं प्रयतः पुमान् ॥ ३१॥ स याति परमं धाम वैष्णवं साधकोत्तमः । दशवारं पठेद्यस्तु रतादौ वैष्णवोत्तमः ॥ ३२॥ विष्णुभक्तिरतं पुत्रं प्राप्नोति कुलदीपकम् ॥ रविवारे लिखेद्यस्तु तिष्यर्क्षे साधकोत्तमः ॥ ३३॥ गन्धाष्टकेन विमले भूर्जे रन्ध्रविहीनके ॥ लिखित्वा रक्तवस्त्रेण संवेष्ट्य स मनुं जपन् ॥ ३४॥ सुवर्णगुटिकामध्ये स्थापयित्वा विधानतः ॥ मूर्ध्नि तान्धारयेद्धीमान् श्रीराधावल्लभं स्मरन् ॥ ३५॥ रणे रिपूञ्जयत्याशु वादे स्तुत्यो भविष्यति ॥ नारीं रूपवतीं साध्वीं लभते नात्रसंशयः ॥ ३६॥ वन्ध्या वा काकवन्ध्या वा मृतवत्सापि याङ्गना ॥ सा बध्नीयात्कण्ठदेशे लभेत्पुत्रांश्चिरायुषः ॥ ३७॥ गुरूपदेशतो धृत्वा गुरुं ध्यात्वा मनुं जपन् ॥ वर्णलक्षपुरश्चर्याफलं प्राप्नोति साधकः ॥ ३८॥ बहुनात्र किमुक्तेन कवचस्यास्य पार्वति ॥ विनानेन न सिद्धिः स्यान्मन्त्रस्यास्य महेश्वरि ॥ ३९॥ गोप्याद्गोप्यं महादेवि श्रीराधाकृष्णसम्भवम् । वज्रपञ्जरकं वर्म गोपनीयं महेश्वरि ॥ ४०॥ दीक्षिताय कुलीनाय शिष्याय गुणशालिने । दातव्यं श्रद्दधानाय कृष्णभक्तिरतायच ॥ ४१॥ अभक्ताय न दातव्यं कुचैलाय दुरात्मने ॥ क्रूराय परशिष्याय शठाय परमेश्वरि ॥ ४२॥ रहस्यं सर्वसाराढ्यं गोपनीयं स्वयोनिवत् ॥ ४३॥ ॥ इति श्रीविश्वनाथसारोद्धारे महातन्त्रे श्रीराधाकृष्णकवचं समाप्तम् ॥