अक्षर आकार:

श्रीराधाकृष्णाष्टोत्तरशतनामावलिः

shrIrAdhAkRRiShNAShTottarashatanAmAvaliH

श्रीराधाकृष्णाष्टोत्तरशतनामावलिः

ॐ राधिकारमणाय नमः । राधास्वान्तस्थाय । राधिकापतये । राधामुखाब्जमार्ताण्डाय । राधिकारतिलोलुपाय । राधाधरसुधासत्काय । राधाप्रस्तावसादराय राधासनसुखासीनाय । राधारमितविग्रहाय । राधासर्वस्वभूताय । राधालिङ्गनतत्पराय । राधासंलापमुदिताय । राधाकृतनखक्षताय । राधावरोधनिरताय । राधिकास्तनशायिताय । राधिकासहभोक्त्रे । राधासर्वस्वसम्पुटाय । राधापयोधरासक्ताय । राधालीलाविमोहिताय । राधिकानयनोन्नेयाय नमः ॥ २० ॐ राधानयनपूजिताय नमः । राधिकानयनानन्दाय । राधिकाहृदयालयाय । राधामङ्गलसर्वस्वाय । राधामङ्गलकारणाय । राधिकाध्यानसन्तुष्टाय । राधाध्यानपरायणाय । राधाकथाविलासिने । राधानियमितान्तराय । राधाचित्तहराय । राधास्वाधीनकरणत्रयाय । राधाशुश्रूषणरताय । राधिकापरिचारकाय । राधिकावासितस्वान्ताय । राधिकास्वान्तवासिताय । राधिकाकलिताकल्पाय । राधाकल्पितभूषणाय । राधिकाहृदयानन्दाय । राधाकूतविनोदवते । राधिकानयनाधीनाय नमः ॥ ४० ॐ राधिकानिहितेक्षणाय नमः । राधाविलासमुदिताय । राधानयनगोचराय । राधापाङ्गहताय । राधापाङ्गविभ्रमवञ्चिताय । राधिकापुण्यनिवहाय । राधिकाकुचमर्दनाय । राधिकासङ्गमश्रान्ताय । राधिकाबाहुसन्धिताय । राधापुण्यफलाय । राधानखाङ्कपरिमण्डिताय । राधाचर्चितगन्धाढ्याय । राधादृतविलासवते । राधालीलारताय । राधाकुचमण्डलशायिताय । राधातपःफलाय । राधासङ्क्रान्ताय । राधिकाजयिने । राधानयनविक्रीताय । राधासंश्लेषणोत्सुकाय नमः ॥ ६० ॐ राधिकावचनप्रीताय नमः । राधिकानर्तनोद्यताय । राधापाणिगृहीत्रे । राधिकानर्मदायकाय । राधातर्जनसन्तुष्टाय । राधालिङ्गनतत्पराय । राधाचरित्रगायिने । राधागीतचरित्रवते । राधिकाचित्तसम्मोहाय । राधामोहितमानसाय । राधावश्यमतये । राधाभुक्तशेषसुभोजनाय । राधाकेलिकलासक्ताय । राधिकाकृतभोजनाय । राधाभ्यञ्जनपारीणाय । राधाक्ष्यञ्जनचित्रिताय । राधिकाश्रवणानन्दवचनाय । राधिकायनाय । राधिकामङ्गलाय । राधापुण्याय नमः ॥ ८० ॐ राधायशःपराय नमः । राधाजीवितकालाय । राधिकाजीवनौषधाय । राधाविरहसन्तप्ताय । राधाबर्हिणीनीरदाय । राधिकामन्मथाय । राधास्तनकुड्मलमोहिताय । राधिकारूपविक्रीताय । राधालावण्यवञ्चिताय । राधाक्रीडावनावासिने । राधाक्रीडाविलासवते । राधासन्नुतचारित्राय । राधाचरितसादराय । राधासङ्कल्पसन्तानाय । राधिकामितदायकाय । राधिकागण्डसंसक्तराकाचन्द्रमुखाम्बुजाय । राधिकाक्ष्यञ्जनापीच्यकोमलाधरविद्रुमाय । राधिकारदसन्दष्टरक्तिमाधरमञ्जुलाय । राधापीनकुचद्वन्द्वमर्दनोद्युक्तमानसाय । राधाचरितसंवादिवेणुवादनतत्पराय नमः ॥ १०० ॐ राधिकामुखलावण्यसुधाम्भोनिधिचन्द्रमसे नमः । राधिकासदनोद्यानजलक्रीडाविहारवते । राधिकाकुचकस्तूरीपत्रलेखनतत्पराय । राधिकाकारितेङ्गिताय । राधाभुजलताश्लिष्टाय । राधिकाकार्यकारिणे । राधिकाकारितेङ्गिताय । राधाभुजलताश्लिष्टाय । राधावसनभूषिताय नमः ॥ १०८ राधिकारमणस्योक्तं पुण्यमष्टोत्तरं शतम् । इदं यः कीर्तयेन्नित्यं स सर्वफलमाप्नुयात् ॥ इति श्रीराधाकृष्णाष्टोत्तरशतनामावलिः समाप्ता ।