अक्षर आकार:

श्रीराधास्तवनं गणेशकृतम्

gaNeshakRitam shrIrAdhAstavanam

श्रीराधास्तवनं गणेशकृतम्

श्रिगणेश उवाच । तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे। ब्रह्मस्वरूपा भवती कृष्णवक्षःस्थलस्थिता ॥ १॥ यत्पादपद्ममतुतलं ध्यायन्ते ते सुदुर्लभम् । सुरा ब्रह्मेशशेषाद्या मुनीन्द्राः सनकादयः ॥ २॥ जिवन्मुक्ताश्च भक्ताश्च सिद्धेन्द्राः कपिलादयः । तस्य प्राणाभिदेवि त्वं प्रिया प्रानाधिका परा ॥ ३॥ वामाङ्गनिर्मिता राधा दक्षिणाङ्गश्च माधवः । महालक्ष्मीर्जगन्माता तव वामाङ्गनिर्मिता ॥ ४॥ वसोः सर्वनिवासस्य प्रसूस्त्वं परमेश्वरी । वेदानां जगतामेव मूलप्रकृतिरीश्वरी ॥ ५॥ सर्वाः प्रकृतिका मातः सृष्ट्यां च त्वद्विभूतयः । विश्वानि कार्यरूपाणि त्वं च कारणरूपिणी ॥ ६॥ प्रलये ब्रह्मणः पाते तन्निमेषो हरेरपि । आदौ राधां समुच्चार्य पश्चात् कृष्णं परात्परम् ॥ ७॥ स एव पण्डितो योगी गोलोकं याति लीलया । व्यतिक्रमे महापी ब्रह्महत्यां लभेद् ध्रुवम् ॥ ८॥ जगतां भवती माता परमात्मा पिता हरिः । पितुरेव गुरुर्माता पूज्या वन्द्या परत्परा ॥ ९॥ भजते देवमन्यं वा कृष्णं वा सर्वकारणम् । पुण्यक्षेत्रे महामूढो यदि निन्दा राधीकाम् ॥ १०॥ वंशहानिर्भवेत्तस्य दुःखशोकमिहैव च । पच्यते निरते घोरे याव द्रदिवाकरौ ॥ ११॥ गुरुश्च ज्ञानोद्गिरणाज्ज्ञानं स्यान्मंत्रतंत्रयोः । स च मन्त्रश्च तत्तन्त्रं भक्तिः स्याद् युवयोर्यतः ॥ १२॥ निशेव्य मन्त्रं देवानां जीवा जन्मनि जन्मनि । भक्ता भवन्ति दुर्गायाः पादपद्मे सुदुर्लभे ॥ १३॥ निषेव्य मन्त्रं शम्भोश्च जगतां कारणस्य च । तदा प्राप्नोति युवयोः पादपद्मं सुदुर्लभम् ॥ १४॥ युवयोः पादपद्मं च दुर्लभं प्राप्य पुण्यवान् । क्षणार्धं षोडशांशं च न हि मुञ्चति दैवतः ॥ १५॥ भक्त्या च युवयोर्मन्त्रं गृहीत्वा वैष्णवादपि । स्तवं वा कवचं वापि कर्ममूलनिकृन्तनम् ॥ १६॥ यो जपेत् परया भक्त्या पुण्यक्षेत्रे च भारते । पुरुषाणां सहस्रं च स्वात्मना सार्धमुद्धरेत् ॥ १७॥ गुरुमभ्यर्च्य विधिवद् वस्त्रालंकारचन्दनैः । कवचं धारयेद् यो हि विष्णुतुल्यो भवेद् ध्रुवम् ॥ १८॥ ॥ इति श्री ब्रह्मवैवर्ते गणेशकृतं श्रीराधास्तवनं सम्पूर्णम् ॥