अक्षर आकार:

श्रीराधाष्टोत्तरशतनामस्तोत्रम्

shrIrAdhAShTottarashatanAmastotram

श्रीराधाष्टोत्तरशतनामस्तोत्रम्

अथास्याः सम्प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् । यस्य सङ्कीर्तनादेव श्रीकृष्णं वशयेद्ध्रुवम् ॥ १॥ राधिका सुन्दरी गोपी कृष्णसङ्गमकारिणी । चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥ २॥ वीणापाणिः स्मितमुखी रक्ताशोकलतालया । गोवर्धनचरी गोपी गोपीवेषमनोहरा ॥ ३॥ चन्द्रावली-सपत्नी च दर्पणस्था कलावती । कृपावती सुप्रतीका तरुणी हृदयङ्गमा ॥ ४॥ कृष्णप्रिया कृष्णसखी विपरीतरतिप्रिया । प्रवीणा सुरतप्रीता चन्द्रास्या चारुविग्रहा ॥ ५॥ केकराक्षा हरेः कान्ता महालक्ष्मी सुकेशिनी । सङ्केतवटसंस्थाना कमनीया च कामिनी ॥ ६॥ वृषभानुसुता राधा किशोरी ललिता लता । विद्युद्वल्ली काञ्चनाभा कुमारी मुग्धवेशिनी ॥ ७॥ केशिनी केशवसखी नवनीतैकविक्रया । षोडशाब्दा कलापूर्णा जारिणी जारसङ्गिनी ॥ ८॥ हर्षिणी वर्षिणी वीरा धीरा धाराधरा धृतिः । यौवनस्था वनस्था च मधुरा मधुराकृति ॥ ९॥ वृषभानुपुरावासा मानलीलाविशारदा । दानलीला दानदात्री दण्डहस्ता भ्रुवोन्नता ॥ १०॥ सुस्तनी मधुरास्या च बिम्बोष्ठी पञ्चमस्वरा । सङ्गीतकुशला सेव्या कृष्णवश्यत्वकारिणी ॥ ११॥ तारिणी हारिणी ह्रीला शीला लीला ललामिका । गोपाली दधिविक्रेत्री प्रौढा मुग्धा च मध्यका ॥ १२॥ स्वाधीनपका चोक्ता खण्डिता याऽभिसारिका । रसिका रसिनी रस्या रसनास्त्रैकशेवधिः ॥ १३॥ पालिका लालिका लज्जा लालसा ललनामणिः । बहुरूपा सुरूपा च सुप्रसन्ना महामतिः ॥ १४॥ मरालगमना मत्ता मन्त्रिणी मन्त्रनायिका । मन्त्रराजैकसंसेव्या मन्त्रराजैकसिद्धिदा ॥ १५॥ अष्टादशाक्षरफला अष्टाक्षरनिषेविता । इत्येतद्राधिकादेव्या नाम्नामष्टोत्तरशतम् ॥ १६॥ कीर्तयेत्प्रातरुत्थाय कृष्णवश्यत्वसिद्धये । एकैकनामोच्चारेण वशी भवति केशवः ॥ १७॥ वदने चैव कण्ठे च बाह्वोरुरसि चोदरे । पादयोश्च क्रमेणास्या न्यसेन्मन्त्रान्पृथक्पृथक् ॥ १८॥ ॥ ॐ तत्सत् ॥ इत्यूर्ध्वाम्नाये राधाष्टोत्तरशतनामकथनं नाम प्रथमः पटलः ॥