अक्षर आकार:

श्रीराधाष्टोत्तरशतनामावलिः

Shri rAdhAShTottarashatanAmAvaliH

श्रीराधाष्टोत्तरशतनामावलिः

श्रीराधायै नमः । श्रीराधिकायै नमः । कृष्णवल्लभायै नमः । कृष्णसम्युक्तायै नमः । वृन्दावनेश्वर्यै नमः । कृष्णप्रियायै नमः । मदनमोहिन्यै नमः । श्रीमत्यै नमः । कृष्णकान्तायै नमः । कृष्णानन्दप्रदायिन्यै नमः । १० यशस्विन्यै नमः । यशोदानन्दनवल्लभायै नमः । त्रैलोक्यसुन्दर्यै नमः । वृन्दावनविहारिण्यै नमः । वृषभानुसुतायै नमः । हेमाङ्गायै नमः । उज्ज्वलगात्रिकायै नमः । शुभाङ्गायै नमः । विमलाङ्गायै नमः । विमलायै नमः । २० कृष्णचन्द्रप्रियायै नमः । रासप्रियायै नमः । रासाधिष्टातृदेवतायै नमः । रसिकायै नमः । रसिकानन्दायै नमः । रासेश्वर्ये नमः । रासमण्डलमध्यस्थायै नमः । रासमण्डलशोभितायै नमः । रासमण्डलसेव्यायै नमः । रासक्रिडामनोहर्यै नमः । ३० कृष्णप्रेमपरायणायै नमः । वृन्दारण्यप्रियायै नमः । वृन्दावनविलासिन्यै नमः । तुलस्यधिष्टातृदेव्यै नमः । करुणार्णवसम्पूर्णायै नमः । मङ्गलप्रदायै नमः । कृष्णभजनाश्रितायै नमः । गोविन्दार्पितचित्तायै नमः । गोविन्दप्रियकारिण्यै नमः । रासक्रीडाकर्यै नमः । ४० रासवासिन्यै नमः । राससुन्दर्यै नमः । गोकुलत्वप्रदायिन्यै नमः । किशोरवल्लभायै नमः । कालिन्दीकुलदीपिकायै नमः । प्रेमप्रियायै नमः । प्रेमरूपायै नमः । प्रेमानन्दतरङ्गिण्यै नमः । प्रेमधात्र्यै नमः । प्रेमशक्तिमय्यै नमः । ५० कृष्णप्रेमवत्यै नमः । कृष्णप्रेमतरङ्गिण्यै नमः । गौरचन्द्राननायै नमः । चन्द्रगात्र्यै नमः । सुकोमलायै नमः । रतिवेषायै नमः । रतिप्रियायै नमः । कृष्णरतायै नमः । कृष्णतोषणतत्परायै नमः । कृष्णप्रेमवत्यै नमः । ६० कृष्णभक्तायै नमः । कृष्णप्रियभक्तायै नमः । कृष्णक्रोडायै नमः । प्रेमरताम्बिकायै नमः । कृष्णप्राणायै नमः । कृष्णप्राणसर्वस्वदायिन्यै नमः । कोटिकन्दर्पलावण्यायै नमः । कन्दर्पकोटिसुन्दर्यै नमः । लीलालावण्यमङ्गलायै नमः । करुणार्णवरूपिण्यै नमः । ७० यमुनापारकौतुकायै नमः । कृष्णहास्यभाषणतत्परायै नमः । गोपाङ्गनावेष्टितायै नमः । कृष्णसङ्कीर्तिन्यै नमः । राससक्तायै नमः । कृष्णभाषातिवेगिन्यै नमः । कृष्णरागिण्यै नमः । भाविन्यै नमः । कृष्णभावनामोदायै नमः । कृष्णोन्मादविदायिन्यै नमः । ८० कृष्णार्तकुशलायै नमः । पतिव्रतायै नमः । महाभावस्वरूपिण्यै नमः । कृष्णप्रेमकल्पलतायै नमः । गोविन्दनन्दिन्यै नमः । गोविन्दमोहिन्यै नमः । गोविन्दसर्वस्वायै नमः । सर्वकान्ताशिरोमण्यै नमः । कृष्णकान्ताशिरोमण्यै नमः । कृष्णप्राणधनायै नमः । ९० कृष्णप्रेमानन्दामृतसिन्धवे नमः । प्रेमचिन्तामण्यै नमः । प्रेमसाध्यशिरोमण्यै नमः । सर्वैश्वर्यसर्वशक्तिसर्वरसपूर्णायै नमः । महाभावचिन्तामण्यै नमः । कारुण्यामृतायै नमः । तारुण्यामृतायै नमः । लावण्यामृतायै नमः । निजलज्जापरीधानश्यामपटुशार्यै नमः । सौन्दर्यकुङ्कुमायै नमः । १०० सखीप्रणयचन्दनायै नमः । गन्धोन्मादितमाधवायै नमः । महाभावपरमोत्कर्षतर्षिण्यै नमः । सखीप्रणयितावशायै नमः । कृष्णप्रियावलीमुख्यायै नमः । आनन्दस्वरूपायै नमः । रूपगुणसौभाग्यप्रेमसर्वाधिकाराधिकायै नमः । एकमात्रकृष्णपरायणायै नमः । इति श्रीराधाष्टोत्तरशतनामावलिः सम्पूर्णा । From kalyANamanjarI, dvitIya bhAgaH rAdhAkalyaNam saNgrahItaM rA. dattagopAlakRRiShNaH, svarNaprakAshanam