अक्षर आकार:

श्रीराधाष्टकम् ४

Shri Radhashtakam 4

श्रीराधाष्टकम् ४

श्रीश्रीवृन्दावनेश्वर्यै नमः । दिशि दिशि रचयन्ती सञ्चरन्नेत्रलक्ष्मी विलसितखुरलीभिः खञ्जरीटस्य खेलाम् । हृदयमधुपमल्लीं वल्लवाधीशसूनो- रखिलगुणगभीरां राधिकामर्चयामि ॥ १॥ पितुरिह वृषभानोरन्ववायप्रशस्तिं जगति किल समस्ते सुष्ठु विस्तारयन्तीम् । व्रजपतिकुमारं खेलयन्तीं सखीभिः सुरभिणि निजकुण्डे राधिकामर्चयामि ॥ २॥ शरदुपचितराकाकौमुदीनाथकीर्ति प्रकरदमनदीक्षादक्षिणस्मेरवक्त्राम् । नटदघभिदपाङ्गोत्तुङ्गितानङ्गरङ्गां कलितरुचितरङ्गां राधिकामर्चयामि ॥ ३॥ विविधकुसुमवृन्दोत्फुल्लधम्मिल्लघाटी विघटितमदघूर्णत्केकिपिच्छप्रशस्तिम् । मधुरिपुमुखबिम्बोद्गीर्णताम्बूलराग स्फुरदमलकपोलां राधिकामर्चयामि ॥ ४॥ अमलिनललितान्तःस्नेहसिक्तान्तराङ्गां अखिलविधविशाखासख्यविख्यातशीलाम् । स्फुरदघभिदनर्घप्रेममाणिक्यपेटीं धृतमधुरविनोदां राधिकामर्चयामि ॥ ५॥ अतुलमहसि वृन्दारण्यराज्येऽभिषिक्तां निखिलसमयभर्तुः कार्तिकस्याधिदेवीम् । अपरिमितमुकुन्दप्रेयसीवृन्दमुख्यां जगदघहरकीर्तिं राधिकामर्चयामि ॥ ६॥ हरिपदनखकोटीपृष्ठपर्यन्तसीमा तटमपि कलयन्तीं प्राणकोटेरभीष्टाम् । प्रमुदितमदिराक्षीवृन्दवैदग्ध्यदीक्षा गुरुमतिगुरुकीर्तिं राधिकामर्चयामि ॥ ७॥ अमलकनकपट्टोद्घृष्टकाश्मीरगौरीं मधुरिमलहरीभिः सम्परीतां किशोरीम् । हरिभुजपरिरब्धां लब्धरोमाञ्चपालिं स्फुरदरुणदुकूलां राधिकामर्चयामि ॥ ८॥ तदमलमधुरिम्णां काममाधाररूपं परिपठति वरिष्ठं सुष्ठु राधाष्टकं यः । अहिमकिरणपुत्रीकूलकल्याणचन्द्रः स्फुटमखिलमभीष्टं तस्य तुष्टस्तनोति ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीराधाष्टकं सम्पूर्णम् ।