अक्षर आकार:

श्रीराधाष्टकम्

Shri Radha Ashtakam

श्रीराधाष्टकम्

ॐ दिशिदिशिरचयन्तीं सञ्चयन्नेत्रलक्ष्मीं विलसितखुरलीभिः खञ्जरीटस्य खेलाम् । हृदयमधुपमल्लीं वल्लवाधीशसूनो- रखिलगुणगभीरां राधिकामर्चयामि ॥ १॥ पितुरिह वृषभानो रत्नवायप्रशस्तिं जगति किल सयस्ते सुष्ठु विस्तारयन्तीम् । व्रजनृपतिकुमारं खेलयन्तीं सखीभिः सुरभिनि निजकुण्डे राधिकामर्चयामि ॥ २॥ शरदुपचितराकाकौमुदीनाथकीर्त्ति- प्रकरदमनदीक्षादक्षिणस्मेरवक्त्राम् । नटयदभिदपाङ्गोत्तुङ्गितानं गरङ्गां वलितरुचिररङ्गां राधिकामर्चयामि ॥ ३॥ विविधकुसुमवृन्दोत्फुल्लधम्मिल्लधाटी- विघटितमदघृर्णात्केकिपिच्छुप्रशस्तिम् । मधुरिपुमुखबिम्बोद्गीर्णताम्बूलराग- स्फुरदमलकपोलां राधिकामर्चयामि ॥ ४॥ नलिनवदमलान्तःस्नेहसिक्तां तरङ्गा- मखिलविधिविशाखासख्यविख्यातशीलाम् । स्फुरदघभिदनर्घप्रेममाणिक्यपेटीं धृतमधुरविनोदां राधिकामर्चयामि ॥ ५॥ अतुलमहसिवृन्दारण्यराज्येभिषिक्तां निखिलसमयभर्तुः कार्तिकस्याधिदेवीम् । अपरिमितमुकुन्दप्रेयसीवृन्दमुख्यां जगदघहरकीर्तिं राधिकामर्चयामि ॥ ६॥ हरिपदनखकोटीपृष्ठपर्यन्तसीमा- तटमपि कलयन्तीं प्राणकोटेरभीष्टम् । प्रमुदितमदिराक्षीवृन्दवैदग्ध्यदीक्षा- गुरुमपि गुरुकीर्तिं राधिकामर्चयामि ॥ ७॥ अमलकनकपट्टीदृष्टकाश्मीरगौरीं मधुरिमलहरीभिः सम्परीतां किशोरीम् । हरिभुजपरिरब्ध्वां लघ्वरोमाञ्चपालीं स्फुरदरुणदुकूलां राधिकामर्चयामि ॥ ८॥ तदमलमधुरिम्णां काममाधाररूपं परिपठति वरिष्ठं सुष्ठु राधाष्टकं यः । अहिमकिरणपुत्रीकूलकल्याणचन्द्रः स्फुटमखिलमभीष्टं तस्य तुष्टस्तनोति ॥ ९॥ इति श्रीराधाष्टकं सम्पूर्णम् ॥ From shrI sarasa stotrasangrahaH (Lucknow, 1909).