अक्षर आकार:

श्रीप्रत्यङ्गिरासहस्रनामस्तोत्रम्

ShrIpratyangira Sahasranamastotra

श्रीप्रत्यङ्गिरासहस्रनामस्तोत्रम्

श्रीरुद्रयामलतन्त्रे दशविद्यारहस्ये ईश्वर उवाच । श‍ृणु देवि प्रवक्ष्यामि साम्प्रतं त्वत्पुरःसरम् । सहस्रनाम परमं प्रत्यङ्गिरायाः सिद्धये ॥ सहस्रनामपाठे यः सर्वत्र विजयी भवेत् । पराभवो न चास्यास्ति सभायां वासने रणे ॥ तथा तुष्टा भवेद्देवी प्रत्यङ्गिरास्य पाठतः । यथा भवति देवेशि साधकः शिव एव हि ॥ अश्वमेधसहस्राणि वाजपेयस्य कोटयः । सकृत्पाठेन जायन्ते प्रसन्ना यत्परा भवेत् ॥ भैरवोऽस्य ऋषिश्छन्दोऽनुष्टुप् देवि समीरिता । प्रत्यङ्गिरा विनियोगः स्यात्सर्वसम्पत्ति हेतवे ॥ सर्वकार्येषु संसिद्धिः सर्वसम्पत्तिदा भवेत् । एवं ध्यात्वा पठेद्देवीं यदीछेदात्मनो हितम् ॥ अथ ध्यानम् । आशाम्बरा मुक्तकचा घनच्छविर्ध्येया सचर्मासिकरा विभूषणा । दंष्ट्रोग्रवक्त्रा ग्रसिताहिता त्वया प्रत्यङ्गिरा शङ्करतेजसेरिता ॥ ॐ अस्य श्रीप्रत्यङ्गिरासहस्रनाममहामन्त्रस्य, भैरव ऋषिः, अनुष्टुप् छन्दः, श्रीप्रत्यङ्गिरा देवता, ह्रीं बीजं, श्रीं शक्तिः, स्वाहा कीलकं मम सर्वकार्यसिद्धयर्थे विद्यासिद्ध्यर्थे नामपारायणे विनियोगः । ॐ देवी प्रत्यङ्गिरा सेव्या शिरसा शशिशेखरा । समाऽसमा धर्मिणी च समस्तसुरशेमुषी ॥ १॥ सर्वसम्पत्तिजननी समदा सिन्धुसेविनी । शम्भुसीमन्तिनी सोमाराध्या च वसुधा रसा ॥ २॥ रसा रसवती वेला वन्या च वनमालिनी । वनजाक्षी वनचरी वनी वनविनोदिनी ॥ ३॥ वेगिनी वेगदा वेगबला स्थानबलाधिका । कला कलाप्रिया कौलि कोमला कालकामिनी ॥ ४॥ कमला कमलास्या च कमलस्था कलावती । कुलीना कुटिला कान्ता कोकिला कुलभाषिणी ॥ ५॥ कीरकेलिः कला काली कपालिन्यपि कालिका । केशिनी च कुशावर्ता कौशाम्बी केशवप्रिया ॥ ६॥ काशी काशापहा कांशीसङ्काशा केशदायिनी । कुण्डली कुण्डलीस्था च कुण्डलाङ्गदमण्डिता ॥ ७॥ कुशापाशी कुमुदिनी कुमुदप्रीतिवर्धिनी । कुन्दप्रिया कुन्दरुचिः कुरङ्गमदमोदिनी ॥ ८॥ कुरङ्गनयना कुन्दा कुरुवृन्दाभिनन्दिनी । कुसुम्भकुसुमा किञ्चित्क्वणत्किङ्किणिका कटुः ॥ ९॥ कठोरा करणा कण्ठा कौमुदी कम्बुकण्ठिनी । कपर्दिनी कपटिनी कठिनी कालकण्ठिका ॥ १०॥ किब्रुहस्ता कुमारी च कुरुन्दा कुसुमप्रिया । कुञ्जरस्था कुञ्जरता कुम्भिकुम्भस्तनद्वया ॥ ११॥ कुम्भिका करभोरुश्च कदलीदलशालिनी । कुपिता कोटरस्था च कङ्काली कन्दशेखरा ॥ १२॥ एकान्तवासिनी किञ्चित्कम्पमानशिरोरुहा । कादम्बरी कदम्बस्था कुङ्कुमी प्रेमधारिणी ॥ १३॥ कुटुम्बिनी प्रियायुक्ता क्रतुः क्रतुकरी क्रिया । कात्यायनी कृत्तिका च कार्तिकेयप्रवर्तिनी ॥ १४॥ कामपत्नी कामधात्री कामेशी कामवन्दिता । कामरूपा कामगतिः कामाक्षी काममोहिता ॥ १५॥ खड्गिनी खेचरी खञ्जा खञ्जरीटेक्षणा खला । खरगा खरनासा च खरास्या खेलनप्रिया ॥ १६॥ खरांशुः खेटिनी खरखट्वाङ्गधारिणी । खलखण्डिनि विख्यातिः खण्डिता खण्डवी स्थिरा ॥ १७॥ खण्डप्रिया खण्डखाद्या सेन्दुखण्डा च खञ्जनी । गङ्गा गोदावरी गौरी गोमत्यापि च गौतमी ॥ १८॥ गया गौर्गजी गगना गारुडी गरुडध्वजा । गीता गीतप्रिया गोत्रा गोत्रक्षयकरी गदा ॥ १९॥ गिरिभूपालदुहिता गोगा गोकुलवर्धिनी । घनस्तनी घनरुचिर्घनोरुर्घननिःस्वना ॥ २०॥ घूत्कारिणी घूतकरी घुघूकपरिवारिता । घण्टानादप्रिया घण्टा घनाघोटप्रवाहिनी ॥ २१॥ घोररूपा च घोरा च घूनीप्रीति घनाञ्जनी । घृताची घनमुष्टिश्च घटाघण्टा घटामृता ॥ २२॥ घटास्या घटानादा च घातपातनिवारिणी । चञ्चरीका चकोरी च चामुण्डा चीरधारिणी ॥ २३॥ चातुरी चपला चारुश्चला चेला चलाचला । चतुश्चिरन्तना चाका चिया चामीकरच्छविः ॥ २४॥ चापिनी चपला चम्पूश्चित्तचिन्तामणिश्चिता । चातुर्वर्ण्यमयी चञ्चच्चौरा चापा चमत्कृतिः ॥ २५॥ चक्रवर्ति वधूश्चक्रा चक्राङ्गा चक्रमोदिनी । चेतश्चरी चित्तवृत्तिरचेता चेतनाप्रदा ॥ २६॥ चाम्पेयी चम्पकप्रीतिश्चण्डी चण्डालवासिनी । (चप्रिया चक्रिका) चिरञ्जीवितदाचित्ता तरुमूलनिवासिनी ॥ २७॥ छुरिका छत्रमध्यस्था छिद्रा छेदकरी छिदा । छुच्छुन्दरीपलप्रीतिः छुन्दरीभनिभस्वना ॥ २८॥ छलिनी छलवच्छिन्ना छिटिका छेककृत्तथा । छद्मिनी छान्दसी छाया छायाकृच्छादिरित्यपि ॥ २९॥ जया च जयदा जातिर्जृम्भिणी जामलायुता । जयापुष्पप्रिया जाया जाप्या जाप्यजगज्जनिः ॥ ३०॥ जम्बूप्रिया जयस्था च जङ्गमा जङ्गमप्रिया । जन्तुर्जन्तुप्रधाना च जरत्कर्णा जरद्गवा ॥ ३१॥ जातीप्रिया जीवनस्था जीमूतसदृशच्छविः । जन्या जनहिता जाया जम्भजम्भिलशालिनी ॥ ३२॥ जवदा जववद्वाहा जमानी ज्वरहा ज्वरी । झञ्झा नीलमयी झञ्झाझणत्कारकराचला ॥ ३३॥ झिंटीशा झस्यकृत् झम्पा यमत्रासनिवारिणी । टङ्कारस्था टङ्कधरा टङ्कारकारणा टसी ॥ ३४॥ var टकारस्था ठकुरा ठीकृतिश्चैव ठिण्ठीरवसनावृता । ठण्ठा नीलमयी ठण्ठा ठणत्कारकरा ठसा ॥ ३५॥ डाकिनी डामरा चैव डिण्डिमध्वनिनादिनी । ढक्काप्रियस्वना ढक्कातपिनी तापिनी तथा ॥ ३६॥ तरुणी तुन्दिला तुन्दा तामसी च तपःप्रिया । ताम्रा ताम्राम्बरा ताली तालीदलविभूषणा ॥ ३७॥ तुरङ्गा त्वरिता तोता तोतला तादिनी तुला । तापत्रयहरा तारा तालकेशी तमालिनी ॥ ३८॥ तमालदलवच्छाया तालस्वनवती तमी । तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा ॥ ३९॥ तटस्थातिलतैलाक्ता तारिणी तपनद्युतिः । तिलोत्तमा तिलककृत्तारकाधीशशेखरा ॥ ४०॥ तिलपुष्पप्रिया तारा तारकेशकुटुम्बिनी । स्थाणुपत्नी स्थितिकरी स्थलस्था स्थलवर्धिनी ॥ ४१॥ स्थितिस्थैर्या स्थविष्ठा च स्थावतिः स्थूलविग्रहा । दन्तिनी दण्डिनी दीना दरिद्रा दीनवत्सला ॥ ४२॥ देवी देववधूर्दैत्यदमिनी दन्तभूषणा । दयावती दमवती दमदा दाडिमस्तनी ॥ ४३॥ दन्दशूकनिभा दैत्यदारिणी देवताऽऽनना । दोलाक्रीडा दयालुश्च दम्पती देवतामयी ॥ ४४॥ दशा दीपस्थिता दोषा दोषहा दोषकारिणी । दुर्गा दुर्गार्तिशमनी दुर्गमा दुर्गवासिनी ॥ ४५॥ दुर्गन्धनाशिनी दुःस्था दुःस्वप्नशमकारिणी । दुर्वारा दुन्दुभिध्वाना दूरगा दूरवासिनी ॥ ४६॥ दरदा दरहा दात्री दयादा दुहिता दशा । धुरन्धरा धुरीणा च धौरेयी धनदायिनी ॥ ४७॥ धीरा धीराधरित्री च धर्मदा धीरमानसा । धनुर्धरा च धमिनी धूर्ता धूर्तपरिग्रहा ॥ ४८॥ धूमवर्णा धूमपाना धूमला धूममोदिनी । नलिनी नन्दनी नन्दा नन्दिनी नन्दबालिका ॥ ४९॥ नवीना नर्मदा नर्मी नेमिर्नियमनिश्चया । निर्मला निगमाचरा निम्नगा नग्निका निमिः ॥ ५०॥ नाला निरन्तरा निघ्नी निर्लेपा निर्गुणा नतिः । नीलग्रीवा निरीहा च निरञ्जनजनी नवी ॥ ५१॥ नवनीतप्रिया नारी नरकार्णवतारिणी । नारायणी निराकारा निपुणा निपुणप्रिया ॥ ५२॥ निशा निद्रा नरेन्द्रस्था नमिता नमितापि च । निर्गुण्डिका च निर्गुण्डा निर्मांसा नासिकाभिधा ॥ ५३॥ पताकिनी पताका च पलप्रीतिर्यशश्विनी । पीना पीनस्तना पत्नी पवनाशनशायिनी ॥ ५४॥ परा पराकला पाका पाककृत्यरतिप्रिया । पवनस्था सुपवना तापसी प्रीतिवर्धिनी ॥ ५५॥ पशुवृद्धिकरी पुष्टिः पोषणी पुष्पवर्धिनी । पुष्पिणी पुस्तककरा पुन्नागतलवासिनी ॥ ५६॥ पुरन्दरप्रिया प्रीतिः पुरमार्गनिवासिनी । पेशा पाशकरा पाशबन्धहा पांशुलापशुः ॥ ५७॥ पटः पटाशा परशुधारिणी पाशिनी तथा । पापघ्नी पतिपत्नी च पतिताऽपतितापि च ॥ ५८॥ पिशाची च पिशाचघ्नी पिशिताशनतोषिता । पानदा पानपात्रा च पानदानकरोद्यता ॥ ५९॥ पेषा प्रसिद्धिः पीयूषा पूर्णा पूर्णमनोरथा । पतद्गर्भा पतद्गात्रा पौनःपुण्यपिवापुरा ॥ ६०॥ पङ्किला पङ्कमग्ना च पामीपा पञ्जरस्थिता । पञ्चमा पञ्चयामा च पञ्चता पञ्चमप्रिया ॥ ६१॥ पञ्चमुद्रा पुण्डरीका पिङ्गला पिङ्गलोचना । प्रियङ्गुमञ्जरी पिण्डी पण्डिता पाण्डुरप्रभा ॥ ६२॥ प्रेतासना प्रियालुस्था पाण्डुघ्नी पीतसापहा । फलिनी फलदात्री च फलश्री फणिभूषणा ॥ ६३॥ फूत्कारकारिणी स्फारा फुल्ला फुल्लाम्बुजासना । फिरङ्गहा स्फीतमतिः स्फितिः स्फीतिकरी तथा ॥ ६४॥ वनमाया बलारातिर्बलिनी बलवर्धिनी । वेणुवाद्या वनचरी वीरा बीजमयी अपि ॥ ६५॥ विद्या विद्याप्रदा विद्याबोधिनी वेददायिनी । बुधमाता च बुद्धा च वनमालावती वरा ॥ ६६॥ वरदा वारुणी वीणा वीणावादनतत्परा । विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ॥ ६७॥ विद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता । वितन्द्रा विह्वला वेला विरावा विरतिर्वरा ॥ ६८॥ विविधार्ककरा वीरा बिम्बोष्ठी बिम्बवत्सला । विन्ध्यस्था वीरवन्द्या च वरीयानपराचवित् ॥ ६९॥ वेदान्तवेद्या वैद्या च वेदस्य विजयप्रदा । विरोधवर्धिनी वन्ध्या वन्ध्याबन्धनिवारिणी ॥ ७०॥ भगिनी भगमाला च भवानी भयभाविनी । भीमा भीमानना भैमी भङ्गुरा भीमदर्शना ॥ ७१॥ भिल्ली भल्लधरा भीरुर्भेरुण्डी भीर्भयापहा । भगसर्पिण्यपि भगा भगरूपा भगालया ॥ ७२॥ भगासना भगामोदा भेरी भङ्काररञ्जिता । भीषणा भीषणारावा भगवत्यपि भूषणा ॥ ७३॥ भारद्वाजी भोगदात्री भवघ्नी भूतिभूषणा । भूतिदा भूमिदात्री च भूपतित्वप्रदायिनी ॥ ७४॥ भ्रमरी भ्रामरी नीला भूपालमुकुटस्थिता । मत्ता मनोहरमना मानिनी मोहनी मही ॥ ७५॥ var भामिनी महालक्ष्मीर्मदक्षीबा मदीय मदिरालया । मदोद्धता मतङ्गस्था माधवी मधुमादिनी ॥ ७६॥ मेधा मेधाकरी मेध्या मध्या मध्यवयस्थिता । मद्यपा मांसला मत्स्यमोदिनी मैथुनोद्धता ॥ ७७॥ मुद्रा मुद्रावती माता माया महिम मन्दिरा । महामाया महाविद्या महामारी महेश्वरी ॥ ७८॥ महादेववधूर्मान्या मधुरा वीरमण्डला । मेदस्विनी मीलदश्रीर्महिषासुरमर्दिनी ॥ ७९॥ मण्डपस्था मठस्था च मदिरागमगर्विता । मोक्षदा मुण्डमाला च माला मालाविलासिनी ॥ ८०॥ मातङ्गिनी च मातङ्गी मतङ्गतनयापि च । मधुस्रवा मधुरसा मधूककुसुमप्रिया ॥ ८१॥ यामिनी यामिनीनाथभूषा यावकरञ्जिता । यवाङ्कुरप्रिया माया यवनी यवनाधिपा ॥ ८२॥ यमघ्नी यमकन्या च यजमानस्वरूपिणी । यज्ञा यज्वा यजुर्यज्वा यशोनिकरकारिणी ॥ ८३॥ यज्ञसूत्रप्रदा ज्येष्ठा यज्ञकर्मकरी तथा । यशस्विनी यकारस्था यूपस्तम्भनिवासिनी ॥ ८४॥ रञ्जिता राजपत्नी च रमा रेखा रवेरणी । रजोवती रजश्चित्रा रजनी रजनीपतिः ॥ ८५॥ रागिणी राज्यनीराज्या राज्यदा राज्यवर्धिनी । राजन्वती राजनीतिस्तथा रजतवासिनी ॥ ८६॥ रमणी रमणीया च रामा रामावती रतिः । रेतोवती रतोत्साहा रोगहृद्रोगकारिणी ॥ ८७॥ रङ्गा रङ्गवती रागा रागज्ञा रागकृद्रणा । रञ्जिका रञ्जिकारञ्जा रञ्जिनी रक्तलोचना ॥ ८८॥ रक्तचर्मधरा रञ्जा रक्तस्था रक्तवादिनी । रम्भा रम्भाफलप्रीति रम्भोरु राघवप्रिया ॥ ८९॥ रङ्गभृद्रङ्गमधुरा रोदसी रोदसीग्रहा । रोधकृद्रोधहन्त्री च रोगभृद्रोगशायिनी ॥ ९०॥ वन्दी वदिस्तुता बन्धा बन्धूककुसुमाधरा । वन्दीत्रा वन्दितामाता विन्दुरा वैन्दवीविधा ॥ ९१॥ विङ्कि विङ्कपला विङ्का विङ्कस्था विङ्कवत्सला । वदिर्विलग्ना विप्रा च विधिर्विधिकरी विधा ॥ ९२॥ शङ्खिनी शङ्खवलया शङ्खमालावती शमी । शङ्खपात्राशिनी शङ्खाशङ्खा शङ्खगला शशी ॥ ९३॥ शंवी शरावती श्यामा श्यामाङ्गी श्यामलोचना । श्मशानस्था श्मशाना च श्मशानस्थलभूषणा ॥ ९४॥ शमदा शमहन्त्री च शाकिनी शङ्कुशेखरा । शान्तिः शान्तिप्रदा शेषा शेषस्था शेषदायिनी ॥ ९५॥ शेमुषी शोषिणी शीरी शौरिः शौर्या शरा शिरिः । शापहा शापहानीशा शम्पा शपथदायिनी ॥ ९६॥ श‍ृङ्गिणी श‍ृङ्गपलभुक् शङ्करी शङ्करी च या । शङ्का शङ्कापहा संस्था शाश्वती शीतला शिवा ॥ ९७॥ शिवस्था शवभुक्ता च शववर्णा शिवोदरी । शायिनी शावशयना शिंशपा शिशुपालिनी ॥ ९८॥ शवकुण्डलिनी शैवा शङ्करा शिशिरा शिरा । शवकाञ्ची शवश्रीका शवमाला शवाकृतिः ॥ ९९॥ शयनी शङ्कुवा शक्तिः शन्तनुः शीलदायिनी । सिन्धुः सरस्वती सिन्धुसुन्दरी सुन्दरानना ॥ १००॥ साधुः सिद्धिः सिद्धिदात्री सिद्धा सिद्धसरस्वती । सन्ततिः सम्पदा सम्पत्संवित्सरतिदायिनी ॥ १०१॥ सपत्नी सरसा सारा सरस्वतिकरी स्वधा । सरःसमा समाना च समाराध्या समस्तदा ॥ १०२॥ समिद्धा समदा सम्मा सम्मोहा समदर्शना । समितिः समिधा सीमा सवित्री सविधा सती ॥ १०३॥ सवता सवनादारा सावना समरा समी । सिमिरा सतता साध्वी सघ्रीची च सहायिनी ॥ १०४॥ हंसी हंसगतिर्हंसा हंसोज्ज्वलनिचोलुयुक् । हलिनी हलदा हाला हरश्रीर्हरवल्लभा ॥ १०५॥ हेला हेलावती हेषा ह्रेषस्था ह्रेषवर्धिनी । हन्ता हन्तिर्हता हत्या हा हन्त तापहारिणी ॥ १०६॥ हङ्कारी हन्तकृद्धङ्का हीहा हाता हताहता । हेमप्रदा हंसवती हारी हातरिसम्मता ॥ १०७॥ होरी होत्री होलिका च होमा होमो हविर्हरिः । हारिणी हरिणीनेत्रा हिमाचलनिवासिनी ॥ १०८॥ लम्बोदरी लम्बकर्णा लम्बिका लम्बविग्रहा । लीला लोलावती लोला ललनी लालिता लता ॥ १०९॥ var लोका ललामलोचना लोच्या लोलाक्षी लक्षणा लला । लम्पती लुम्पती लम्पा लोपामुद्रा ललन्तिनी ॥ ११०॥ लन्तिका लम्बिका लम्बा लघिमा लघुमध्यमा । लघीयसी लघुदयी लूता लूतानिवारिणी ॥ १११॥ लोमभृल्लोमलोप्ता च लुलुती लुलुसंयती । लुलायस्था च लहरी लङ्कापुरपुरन्दरी ॥ ११२॥ लक्ष्मीर्लक्ष्मीप्रदा लक्ष्म्या लक्षाबलमतिप्रदा । क्षुण्णा क्षुपा क्षणा क्षीणा क्षमा क्षान्तिः क्षणावती ॥ ११३॥ क्षामा क्षामोदरी क्षीमा क्षौमभृत्क्षत्रियाङ्गना । क्षया क्षयकरी क्षीरा क्षीरदा क्षीरसागरा ॥ ११४॥ क्षेमङ्करी क्षयकरी क्षयदा क्षणदा क्षतिः । क्षुरन्ती क्षुद्रिका क्षुद्रा क्षुत्क्षामा क्षरपातका ॥ ११५॥ ॥ फलश्रुतिः ॥ मातुः सहस्रनामेदं प्रत्यङ्गिर्या वरप्रदम् ॥ १॥ यः पठेत्प्रयतो नित्यं स एव स्यान्महेश्वरः । अनाचान्तः पठेन्नित्यं दरिद्रो धनदो भवेत् ॥ २॥ ( var यः पठेत्प्रयतो नित्यं दरिद्रो धनदो भवेत्) मूकः स्याद्वाक्पतिर्देवि रोगी निरोगतां व्रजेत् । अपुत्रः पुत्रमाप्नोति त्रिषु लोकेषु विश्रुतम् ॥ ३॥ वन्ध्यापि सूते तनयान् गावश्च बहुदुग्धदाः । राजानः पादनम्राः स्युस्तस्यदासा इव स्फुटाः ॥ ४॥ अरयः सङ्क्षयं यान्ति मनसा संस्मृता अपि । दर्शनादेव जायन्ते नरा नार्योऽपि तद्वशाः ॥ ५॥ कर्ता हर्ता स्वयंवीरो जायते नात्रसंशयः । यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥ ६॥ दुरितं न च तस्यास्ते नास्ति शोकाः कदाचन । चतुष्पथेऽर्धरात्रे च यः पठेत्साधकोत्तमः ॥ ७॥ एकाकी निर्भयो धीरो दशावर्तं स्तवोत्तमम् । मनसा चिन्तितं कार्यं तस्य सिधिर्न संशयः ॥ ८॥ विना सहस्रनाम्ना यो जपेन्मन्त्रं कदाचन । न सिद्धो जायते तस्य मन्त्रः कल्पशतैरपि ॥ ९॥ कुजवारे श्मशाने च मध्यान्हे यो जपेदथ । शतावर्त्या सर्जयेत कर्ता हर्ता नृणामिह ॥ १०॥ रोगान्तर्धो निशायान्ते पठितामसि संस्थितः । सद्यो नीरोगतामेति यदि स्यान्निर्भयस्तदा ॥ ११॥ अर्धरात्रे श्मशाने वा शनिवारे जपेन्मनुम् । अष्टोत्तरसहस्रं तद्दशवारं जपेत्ततः ॥ १२॥ सहस्रनाम चेत्तद्धि तदा याति स्वयं शिवा । महापवनरूपेण घोरगोमायुनादिनी ॥ १३॥ तदा यदि न भीतिः स्यात्ततो द्रोहीति वा भवेत् । तदा पशुबलिं दद्यात्स्वयं गृण्हाति चण्डिका ॥ १४॥ यथेष्टं च वरं दत्त्वा याति प्रत्यङ्गिरा शिवा । रोचनागुरुकस्तूरी कर्पूरमदचन्दनः ॥ १५॥ कुङ्कुमप्रथमाभ्यां तु लिखितं भूर्जपत्रके । शुभनक्षत्रयोगे तु कृत्रिमाकृतसत्क्रियः ॥ १६॥ कृतसम्पातनासिद्धिर्धारयेद्दक्षिणे करे । सहस्रानाम स्वर्णस्थं कण्ठे वापी जितेन्द्रियः ॥ १७॥ तदा यन्त्रे नमेन्मन्त्री क्रुद्धा सम्म्रियते नरः । यस्मै ददाति यः स्वस्ति स भवेद्धनदोपमः ॥ १८॥ दुष्टश्वापदजन्तूनां न भीः कुत्रापि जायते । बालकानामिमां रक्षां गर्भिणीनामपि ध्रुवम् ॥ १९॥ मोहनं स्तम्भनाकर्षमारणोच्चाटनानि च । यन्त्रधारणतो नूनं जायन्ते साधकस्य तु ॥ २०॥ नीलवस्त्रे विलिखतं ध्वजायां यदि तिष्ठति । तदा नष्टा भवत्येव प्रचण्डा परिवाहिनी ॥ २१॥ एतज्जप्तं महाभस्म ललाटे यदि धारयेत् । तद्दर्शनत एव स्युः प्राणिनस्तस्य किङ्कराः ॥ २२॥ राजपत्न्योऽपि वशगाः किमन्याः परयोषितः । एतज्जप्तं पिबेत्तोयं मासैकेन महाकविः ॥ २३॥ पण्डितश्च महादीक्षो जायते नात्रसंशयः । शक्तिं सम्पूज्य देवेशि पठेत्स्तोत्रं वरं शुभम् ॥ २४॥ इह लोके सुखम्भुक्त्वा परत्र त्रिदिवं व्रजेत् । इति नामसहस्रं तु प्रत्यङ्गिरा मनोहरम् ॥ २५॥ गोप्यं गुप्ततमं लोके गोपनीयं स्वयोनिवत् ॥ २६॥ ॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीप्रत्यङ्गिरासहस्रनामस्तोत्रं सम्पूर्णम् ॥