अक्षर आकार:

श्री प्रत्यङ्गिरा सर्वार्थसाधककवचं

Shri Pratyangira SarvarthasAdhaka Kavacham

श्री प्रत्यङ्गिरा सर्वार्थसाधककवचं

देव्युवाच । भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग । देव्याः प्रत्यङ्गिरायाश्च कवचं यत्प्रकाशितम् ॥ १॥ सर्वार्थसाधनं नाम कथयस्व मयि प्रभो । भैरव उवाच । श‍ृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ॥ २॥ सर्वार्थसाधनं नाम त्रैलोक्ये चाऽतिदुर्लभम् । सर्वसिद्धिमयं देवि सर्वैश्वर्यप्रदायकम् ॥ ३॥ पठनाच्छ्र्वणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् । सर्वार्थसाधकस्याऽस्य कवचस्य ऋषिः शिवः ॥ ४॥ छन्दो विराट् पराशक्तिर्जगद्धात्री च देवता । धर्माऽर्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ५॥ विनियोगः- ॐ श्रीसर्वार्थसाधककवचस्य शिव ऋषिः । विराट् छन्दः । श्रीमत्प्रत्यङ्गिरा देवता । ऐं बीजम् । ह्रीं शक्तिः । श्रीं कीलकं श्रीसदाशिवदेवता प्रीत्यर्थे पाठे विनियोगः ॥ ॐ प्रणवं मे शिरः पातु वाग्भवं च ललाटकम् । ह्रीं पातु दक्षनेत्रं मे लक्ष्मीर्वाम सुरेश्वरी ॥ १॥ प्रत्यङ्गिरा दक्षकर्ण वामे कामेश्वरी तथा । लक्ष्मीः प्राणं सदा पातु वदनं पातु केशवः ॥ २॥ गौरी तु रसनां पातु कण्ठं पातु महेश्वरः । स्कन्धदेशं रतिः पातु भुजौ तु मकरध्वजः ॥ ३॥ शङ्खनिधिः करौ पातु वक्षः पद्मनिधिस्तथा । ब्राह्मी मध्यं सदा पातु नाभिं पातु महेश्वरी ॥ ४॥ कौमारी पृष्ठदेशं तु गुह्यं रक्षतु वैष्णवी । वाराही च कटिम्पातु चैन्द्री पातु पदद्वयम् ॥ ५॥ भार्यां रक्षतु चामुण्डा लक्ष्मी रक्षतु पुत्रकान् । इन्द्रः पूर्वे सदा पातु आग्नेय्यां अग्निदेवता ॥ ६॥ याम्ये यमः सदा पातु नैरृत्यां निरृतिस्तथा । पश्चिमे वरुणः पातु वायव्यां वायुदेवता ॥ ७॥ सौम्यां सोमः सदा पातु चैशान्यामीश्वरो विभुः । ऊर्ध्वं प्रजापतिः पातु ह्यधश्चाऽनन्तदेवता ॥ ८॥ राजद्वारे श्मशाने तु अरण्ये प्रान्तरे तथा । जले स्थले चाऽन्तरिक्षे शत्रूणां निग्रहे तथा ॥ ९॥ एताभिः सहिता देवी चतुर्बीजा महेश्वरी । प्रत्यङ्गिरा महाशक्तिः सर्वत्र मां सदाऽवतु ॥ १०॥ फलश्रुतिः । इति ते कथितं देवि सारात्सारं परात्परम् । सर्वार्थसाधनं नाम कवचं परमाद्भुतम् ॥ १॥ अस्याऽपि पठनात्सद्यः कुबेरोऽपि धनेश्वरः । इन्द्राद्याः सकला देवाः धारणात्पठनाद्यतः ॥ २॥ सर्वसिद्धीश्वरो सन्तः सर्वैश्वर्यमवाप्नुयुः । प्रीतिमन्येऽन्यतः कृत्वा कमला निश्चला गृहे ॥ ३॥ वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः । यो धारयति पुण्यात्मा सर्वार्थसाधनाभिधम् ॥ ४॥ कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः । सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ ५॥ पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा । बहुपुत्रवती भूयाद्वन्ध्याऽपि लभते सुतम् ॥ ६॥ ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तत्तनुम् । एतत्कवचमज्ञात्वा यो जपेत्परमेश्वरीम् ॥ ७॥ दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ॥ श्री रुद्रयामल तन्त्रे पञ्चाङ्गखण्डे प्रत्यङ्गिरायाः सर्वार्थसाधनं नामकं कवचं परिपूर्णम् ॥