अक्षर आकार:

प्रणतिपञ्चकम्

Pranatipanchakam

प्रणतिपञ्चकम्

भुवन-केलिकला-रसिके शिवे झटिति झञ्झण-झङ्कृत-नूपूरे । ध्वनिमयं भव-बीजमनश्वरं जगदिदं तव शब्दमयं वपुः ॥ १॥ विविध-चित्र-विचित्रमद्भुतं सदसदात्मकमस्ति चिदात्मकम् । भवति बोधमयं भजतां हृदि शिव शिवेति शिवेति वचोऽनिशम् ॥ २॥ जननि मञ्जुल-मङ्गल-मन्दिरं जगदिदं जगदम्ब तवेप्सितम् । शिव-शिवात्मक-तत्त्वमिदं परं ह्यहमहो नु नतोऽस्मि नतोऽस्म्यहम् ॥ ३॥ स्तुतिमहो किल किं तव कुर्महे सुरगुरोरपि वाक्पटुता कुतः । इति विचार्य परे परमेश्वरि ह्यहमहो नु नतोऽस्मि नतोऽस्म्यहम् ॥ ४॥ चिति चमत्कृतिचिन्तनमस्तु मे निजपरं भवभेद-निकृन्तनम् । प्रतिपलं शिवशक्तिमयं शिवे ह्यहमहो नु नतोऽस्मि नतोऽस्म्यहम् ॥ ५॥ इति श्रीदत्तात्रेयानन्दनाथविरचितं प्रणतिपञ्चकं सम्पूर्णम् ।