अक्षर आकार:

प्राधानिकरहस्यम्

prAdhAnikarahasyam

प्राधानिकरहस्यम्

श्रीगणेशाय नमः ॥ अस्य श्रीसप्तशतीरहस्पत्रयस्य ब्रह्मविष्णुरुद्रा ऋषयः , महाकालीमहालक्ष्मीमहासरस्वत्यो देवताः , अनुष्टुप् छन्दः , नवदुर्गामहालक्ष्मीर्बीजं , श्रीं शक्तिः , ममाभीष्टफलसिद्धये जपे विनियोगः ॥ राजोवाच ॥ भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः । एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि ॥ १॥ आराध्यं यन्मया देव्याः स्वरूपं येन वै द्विज । विधिना ब्रूहि सकलं यथावत्प्रणतस्य मे ॥ २॥ ऋषिरुवाच ॥ इदं रहस्यं परममनाख्येयं प्रचक्षते । भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप ॥ ३॥ सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी । लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता ॥ ४॥ मातुलिङ्गं गदां खेटं पानपात्रं च बिभ्रती । नागं लिङ्गं च योनिं च बिभ्रती नृप मूर्धनि ॥ ५॥ तप्तकाञ्चनवर्णाभा तप्तक्ञ्चनभूषणा । शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥ ६॥ शून्यं तदखिलं लोकं विलोक्य परमेश्वरी । बभार रूपमपरं तमसा केवलेन हि ॥ ७॥ सा भिन्नाञ्जनसङ्काशा दंष्ट्राचितवरानना । विशाललोचना नारी बभूव तनुमध्यमा ॥ ८॥ खङ्गपात्रशिरःखेटैरलङ्कृतचतुर्भुजा ॥ कबन्धहारं शिरसा बिभ्राणाहिशिरःस्रजम् ॥ ९॥ तां प्रोवाच महालक्ष्मीस्तामसी प्रमदोत्तमाम् । ददामि तव नामानि यानि कर्माणि तानि ते ॥ १०॥ महामाया महाकाली महामारी क्षुधा तृषा । निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया ॥ ११॥ इमानि तव नामानि प्रतिपाद्यानि कर्मभिः । एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् ॥ १२॥ तामित्युक्त्वा महालक्ष्मीः स्वरूपमपरं नृप । सत्त्वाख्येनातिशुद्धेन गुणेनेदुप्रभ्रं दधौ ॥ १३॥ अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी । सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥ १४॥ महाविद्या महावाणी भारती वाक् सरस्वती । आर्या ब्राह्मी कामधेनुर्वेदगर्भा सुरेश्वरी ॥ १५॥ अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम् ॥ युवां जनयतां देव्यौ मिथुने स्वानुरूपतः ॥ १६॥ इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम् । हिरण्यगर्भौ रुचिरौ स्त्रीपुंसौ कमलासनौ ॥ १७॥ ब्रह्मन्विधे विरञ्चेति धातरित्याह तं नरम् ॥ श्रीः पद्मे कमले लक्ष्मीत्याह माता स्त्रियं च ताम् ॥ १८॥ महाकाली भारती च मिथुने सृजतः सह । एतयोरपि रूपाणि नामानि च वदामि ते ॥ १९॥ नीलकण्ठं रक्तबाहु श्वेताङ्गं चद्रशेखरम् । जनयामास पुरुषं महाकाली सितां स्त्रियम् ॥ २०॥ स रुद्रः शङ्करः स्थाणुः कपर्दी च त्रिलोचनः । त्रयीविद्याकामधेनुः सा स्त्री भाषास्वराक्षरा ॥ २१॥ सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप । जनयामास नामानि तयोरपि वदामि ते ॥ २२॥ विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः । उमा गौरी सती चण्डी सुन्दरी सुभगा शुभा ॥ २३॥ एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे । चक्षुष्मन्तो नु पश्यन्ति नेतरे तद्विदो जनाः ॥ २४॥ ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीर्नृप त्रयीम् । रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् ॥ २५॥ स्वरया सह सम्भूय विरञ्चोऽण्डमजीजनत् । बिभेद भगवान् रुद्रस्तद्गौर्या सह वीर्यवान् ॥ २६॥ अण्डमध्ये प्रधानादि कार्यजातमभून्नृप । महाभूतात्मकं सर्वं जगत्स्थावरजङ्गमम् ॥ २७॥ पुपोष पालयामास तल्लक्ष्म्या सह केशवः । महालक्ष्मीरेवमजा राजन् सर्वेश्वरेश्वरी ॥ २८॥ निराकारा च साकारा सैव नानाभिधानभृत् । नामातरैर्निरूप्यैषा नाम्ना नान्येन केनचित् ॥ २९॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये प्राधानिकरहस्यं सम्पूर्णम् ॥ अध्याय १४ See also vaikRitikararahasyam and mUrtirahasyam