अक्षर आकार:

पञ्चगङ्गाष्टकम्

Panchagangashtakam

पञ्चगङ्गाष्टकम्

श्रीगणेशाय नमः । गङ्गा शिवा हि यमुनाऽपि च पुण्यतोया वाणी पवित्रकिरणा वरधूतपापा । श्रीबिन्दुमाधवहरेः पुरतो विचित्रा काश्यां सदा विजयते वरपञ्चगङ्गा ॥ १॥ प्रातः सदा मुनिगणाः सकलाश्च देवाः स्नानाय१ माधवपुरःसरमापतन्ति । (१. स्नानार्थ पाठान्तर) यस्यां स्थिरो भवति माधव आदिदेवः सेयं सदा विजयते वरपञ्चगङ्गा ॥ २॥ यस्यां सदा हरिहरौ वसतः२ प्रसन्नौ (२. रमतः पाठान्तर) धर्मद्रवां जनहितां कवयो गृणन्ति । ध्यायन्ति यां शुभकरीं कलिकल्मषघ्नीं सेयं सदा विजयते वरपञ्चगङ्गा ॥ ३॥ संप्राप्य ते सुकृतिनः शिवराजधानीं काशीं भजन्ति मुदिता वरपञ्चगङ्गाम् । ते दुस्तरां गुणमयीं प्रतरन्ति मायां लोकं पुनन्ति सकलं शिवभक्तियुक्ताः ॥ ४॥ गर्जन्ति पापकरिणो भयदा हि तावद् यावज्जनो न भजते वरपञ्चगङ्गाम् । यां गच्छतः प्रतिपदं भवति प्रपुण्यं तां त्वां नमामि सततं हृदि पञ्चगङ्गे ! ॥ ५॥ त्यक्ता अपि प्रियजनैरतिपापयुक्ता रोगादिभिः परिवृता अतिदुःखयुक्ताः । दैवाद्यदि त्वयि पतन्त्यथ पञ्चगङ्गे ! तेनैव ते सुकृतिनः परमं व्रजन्ति ॥ ६॥ त्वन्नाम दुर्लभमिदं तव दर्शनञ्च त्वं कान्तिके त्वतितरां जनदुर्लभाऽसि । त्वय्येव भक्तिममलां वरदे ! प्रदेहि काश्यां शिवे! हरिपदे सुजने श्रुतौ च ॥ ७॥ स्तोतुं न कोऽप्यलमनन्तगुणे ! तथापि सद्भिः प्रवर्तित इति प्रवदामि किञ्चित् । तन्मे क्षमस्व शिशुभावनया सति ! त्वं प्रातः प्रसीद सुभगे ! मयि पञ्चगङ्गे ! ॥ ८॥ गङ्गाष्टकमिदं पुण्यं भुक्तिमुक्तिप्रदं नृणाम् । सत्यज्ञानानदे तीर्थे यतिना रचितं मुदे ॥ ९॥ इदं स्तोत्रं तु रचितं तैलङ्गशास्त्रिशर्मणा । लिखितं दुण्ढिराजेन स्तोत्रं सम्पूर्णमुच्यते ॥ १०॥ इदं स्तोत्रं पठेत्रित्यं यः स्मरेत्पुण्यवान्नरः । तस्य मुक्तिस्तु जायेत अत्रांशे नास्ति संशयः ॥ ११॥ लिखितं दुण्ढिराजेन कालोपाख्येन धीमता । देवीदाशर्मणा सार्धं पुस्तकं दत्तमेव च ॥ १२॥ स्तोत्र-टिप्पणी- अष्टकमिदं पाण्डुलिपिरूपेण रामापुर-वाराणसीस्थाद आचार्यब्रह्मगोपालभादुड़ीमहाशयस्य पुस्तकालयादस्माभिः सङ्गृहीतम् । स्तोत्रस्य दशमश्लोके तैलङ्गशास्त्रिशर्मा अस्य रचयितेत्युक्तम् । पुष्पिकायामस्य रचनाकालः संवत् १७८८ इत्युल्लिखितम् । अतः खीष्टाब्दस्य १७३१ तमे वर्षे लिखितमेतत् केनचित् ढुण्ढिराजेन इति प्रतीयते । एष एव तैलङ्गशास्त्रिशर्मा सुप्रसिद्धो योगी तैलङ्गास्वामीति विज्ञायते । श्लोकेषु काश्चनाशुद्धयोऽस्माभिर्लक्षिताः । स्वबुद्धया ताः संशोध्य शुद्धपाठः मूलपाठे निवेशितः । हस्तलेखस्याशुद्धपाठाः तत्तत्स्थाने सङ्ख्याक्रमेण स्तोत्रस्याधस्तादुल्लिखिताः ॥ काश्यां तैलङ्गस्वामी पञ्चगङ्गाघटटे सन्यासिनामाश्रमे मृत्युपर्यन्तं १८८७ ख्रीष्टाब्दं यावत् दिगम्बरावस्थायां न्यवसत् । श्रूयते तथाऽनुमीयते यत् तैलङ्गस्वामिनो मुखादबाधगत्या निःसृतं पञ्चगङ्गाष्टकमिदं प्रत्यहं तदीयप्रमुखभक्तो देवीदानामकः श्रुतवान् । देवीदामहोदयस्य स्वेच्छया प्रार्थनया च दुण्डिराजेनाष्टकमिदं लिपिबद्धमकारि । आरम्भेऽष्टौ श्लोका वसन्ततिलकाच्छन्दःसु तैलङ्गस्वामिना रचिताः, अन्ते चत्वारः श्लोकाश्चानुष्टुप्छन्दःसु लेखकेन विरचिताः संयोजिताश्वेत्यनुमीयते । इति पञ्चगगङ्गाहकं सम्पूर्णम् ।