अक्षर आकार:

श्रीपद्मावतीस्तोत्रम् ४

Shri Padmavatistotram 4

श्रीपद्मावतीस्तोत्रम् ४

श्रीधराचार्यविरचितं ॐ जयन्तीभमातङ्गी सर्चदुष्टक्षयङ्करी । पद्मासने पद्मदेवी च महापद्मे नमोनमः ॥ १॥ देवी त्वं ध्यायिता इन्द्रे पूजिता शिवसङ्करे । कृष्णेन संस्तुता देवो महापद्मे नमोनमः ॥ २॥ सावित्रि पतिमाराध्य वासुकै सेविता भृशम् । तेषां सन्तुक्षते देवी महापद्मे नमोनमः ॥ ३॥ पद्माम्बरधरा देवी पद्मद्रहनिवासिनी ! पद्मायुधधरा नित्यं महापद्मे नमोनमः ॥ ४॥ यस्यां प्रसन्नतां पद्मे तस्यो दारिद्रयनाशने । जय त्वं सुखदाता च महापद्मे नमोनमः ॥ ५॥ देवि ! दारिद्र्यदग्धाहं तन्मेसं सङ्करीभव । चिञ्तिता वरदाता च महापद्मे नमोनमः ॥ ६॥ पद्मावती यस्या गृहे पूजिता जगदीश्वरी । हृदये यस्य वर्तन्ते तस्य सौख्यं निरन्तरम् ॥ ७॥ इदं स्तोत्रं पवित्रं च श्रीधराचार्यभाषितम् । एकाग्रमनसा साध्यं तस्य सौख्यं निरन्तरम् ॥ ८॥ रणे राजकुले चैव दुर्ग्गमे शत्रुसङ्कटे । महावने महाभीमे विध्नो यान्ति दिसो दिसा ॥ ९॥ अपुत्रो लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां सुखार्थी लभते सुखम् ॥ १०॥ इति श्रीधराचार्यविरचितं श्रीपद्मावतीस्तोत्रं सम्पूर्णम् ।