अक्षर आकार:

श्रीपद्मावतीस्तोत्रम् ३

Shri Padmavatistotram 3

श्रीपद्मावतीस्तोत्रम् ३

जय जय जगदानन्ददायिनि ! जय जय धरणेन्द्रवलभे ! सुभगे ! देवि ! फणत्रयधारिणि ! त्वं जय पद्मानने ! पद्मे ! ॥ १॥ विजया जयाऽजिता त्वं अपराजिता शिवा गौरी । रम्भा त्वं वैरोट्या प्रज्ञप्तिर्भद्रकाली च ॥ २॥ काली च महाकाली शिवङ्करी शङ्करी पद्मनेत्रा । हिमवत्तनया लक्ष्मीर्धृतिमतिभुवनेश्वरी देवी ॥ ३॥ त्वं वुद्धि-सिद्धि-वृद्धिस्त्वं ज्वालामालिनीश्वरी बाला । कामाक्षा जगदम्बा अम्बा जगदीश्वरी तारा ॥ ४॥ त्वमम्विकाऽन्नपूर्णा श्रीर्विद्यात्रिपुरन्दरीजननी । त्वं भगवती भवानी मातङ्गी राजमातङ्गी ॥ ५॥ त्वं भैरवी त्रिनेत्री शक्तिस्त्वं हिङ्गुलाज-हीङ्गोली । त्वं वाग्वादिनीशारदा सरस्वती सत्यदेवी च ॥ ६॥ ज्वालामुखि भो बाला पीठा शाकम्भरी च त्यमनन्ता । शीतला तोतला भद्रा वज्रा कूष्माण्डी चक्रधरा ॥ ७॥ चामुण्डी महामाया गायत्री सर्वविश्वविख्याता । श्रुतदेवी जिनवाणी त्वं विद्या वर्द्धमानस्य ॥ ८॥ नागकुमारकुमारी देवी कात्यायनी मधुमती च । कुण्डलिनी ह्रीङ्कारी आई माई च दुर्गोमा ॥ ९॥ भोगी चानन्दकरी त्वं वरदानन्ददायिनी नित्या । ब्रह्माणी बाहुवली सिंहमराले समारूढा ॥ १०॥ त्वं चैकाक्षरनामा अक्षरी त्र्यक्षरी षडक्षरी माता । पञ्चदशाक्षरगर्भिता त्वं भुवनत्रयस्य सौख्यकरी ॥ ११॥ त्रिजगन्नाप्तशरीरा जनजाड्यविभञ्जना रविकराभा । सेवकवाच्छितफलदा पद्मदला भास्वरी सेव्या ॥ १२॥ श्रीपार्श्वनाथपदपङ्कजभक्तिलीना पद्मासना प्रवरकुर्कुटसर्पयाना । दारिद्र्यदुःखरिपुवर्गविनाशनोत्का पद्मावती भवतु मे खलु सा प्रसन्ना ॥ १३॥ इति श्रीपद्मावतीस्तोत्रं सम्पूर्णम् ।