अक्षर आकार:

श्रीपद्मावतीस्तोत्रम् २

Shri Padmavatistotram 2

श्रीपद्मावतीस्तोत्रम् २

श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमाला- ज्योतिर्ज्वालाकरालास्फुरितमुकुरिकाधृष्ठपादारविन्दे ! व्याघोरोल्कासहस्र्ड्फुरज्ज्वलनशिखालोलपाशाङ्कुशाढद्ये ॐ आँ क्रोँ ह्रीँ मन्त्ररूपे ! क्षपितकलिमले ! रक्ष मां देवि ! पद्मे ॥ १॥ भित्त्वा पातालमूलं चलचलचलिते ! व्याललीलाकरालै- विंशुद्दण्ड्यचण्डमप्रहरणसहितैस्तदूद्भुत्रैस्तर्जयन्ती । दैत्येन्द्रक्रूरदंष्ट्राकटकटघटिते ! स्पष्टभीमाट्टहासे ! मायाजीमूतमालाकुहरितगगने ! रक्ष मां देवि ! पद्मे ! ॥ २॥ कूजत्कोदण्डकाण्डोडुमरविधुरिते ! क्रूरधोरोपसर्गं दिव्यं वज्रातपत्रं प्रगुणमणिरणत्किङ्किणीक्वाणरम्यम् । भास्वद्वैडूर्यदण्डं मदनविजयिनो विभ्रती पार्श्वर्वभर्तुः सा देवी पद्महस्ता विघटयतु महाडामरं मामकीनम् ॥ ३॥ भृङ्गी काली कराली परिजनसहिते ! चण्डि चामुण्डि नित्ये ! क्षां क्षीं क्षूं क्षः क्षणार्धे क्श्ःअतरिपूनिवहने ! ह्रीं महामन्त्ररूपे ! । भ्रां भ्रीं भ्रूं भृङ्गसङ्गभ्रुकुटिपुटतटशसितोद्दामदैत्ये ! झ्वां झ्वीं झ्वूं झ्वः प्रचण्डे ! स्तुतिशतमुखरे ! रक्ष मां देवि ! पद्मे ! ॥ ४॥ चञ्चत्काञ्चीकलापे ! स्तनतटविलुठत्तारहारावलीके ! प्रोत्फुल्लत्पारिजातद्रुमकुसुममहामञ्जरीपूज्यपादे ! । ह्रां ह्रीं क्लीं ब्लूँ समेते भुवनवशकरे ! क्षोभिणी द्राविणी त्वं आं ईं ऊं पद्महस्ते ! कुरु कुरु घटने रक्ष मां देवि ! पद्मे ! ॥ ५॥ लीलाव्यालोलनीलोत्पलदलनयने ! प्रज्वलद्वाडवाग्नि- प्रोद्यज्ज्वालास्फुलिङ्गस्फुरदरुणकरोदग्रवज्जाग्रहस्ते ! । ह्राँ ह्रीँह्रूँ ह्रः हरन्ती हरद्वरहरहुञ्कारभीमैकनादे ! पद्मे ! पद्मासनस्थे व्यपनय दुरितं देवि ! देवेन्द्रवन्द्ये ! ॥ ६॥ कोपं वं झं सहसः कुवलयकलितोद्दामलीलाप्रबन्धे ! ज्रां ज्रीं ज्रूं ज्रः पवित्रे शशिकरधवले प्रक्षरत्क्षीरगौरे ! । व्यालव्याबद्धजूटे प्रबलबलमहाकालकूटं हरन्ती हा हा हुङ्कारनादे ! कृतकरकमले ! रक्ष मां देवि ! पद्मे ! ॥ ७॥ प्रातर्बालार्करश्मिच्छुरितघनमहासान्द्रसिन्दूरधूली- सन्ध्यारागारुणाङ्गि त्रिदशवरवधूवन्द्यपादारविन्दे ! । चञ्चच्चन्द्रासिधाराप्रहतरिपुकुले कुण्डलोद्धृष्टगल्ले ! श्रां श्रीं श्रूं श्रः स्मरन्ती मदगजगमने ! रक्ष मां देवि ! पद्मे ! ॥ ८॥ विस्तीर्णे पद्मपीठे कमलदलनिवासोचिते कामगुप्ते लान्ताङ्गीश्रीसमेते प्रहसितवदने दिव्यहस्ते । प्रसन्ने ! । रक्ते रक्तोत्पलाङ्गि प्रतिवहसि सदा वाग्भवं कामराजं हंसारूढे ! त्रिनेत्रे ! भगवति ! वरदे ! रक्ष मां देवि ! पद्मे ! ॥ ९॥ षट्कोणे चक्रमध्ये प्रणतवरयुते वाग्भवे कामराजे हंसारूढे सविन्दौ विकसितकमले कर्णिकाग्रे निधाय । नित्ये क्लिन्ने मदद्रैर्द्रव इति सहितं साङ्कुशे पाशहस्ते ! ध्यानात्सङ्क्षोभकारित्रिभुवनवशकृद् रक्ष मां देवि ! पद्मे ! ॥ १०॥ आं क्रों ह्रीं पञ्चबाणैलिखितषट्दले चक्रमध्ये सहंसः ह्र्स्क्लीँ श्रीं पत्रान्तराले स्वरपरिकलिते वायुना वेष्टिताङ्गी । ह्रीं वेष्टे रक्तपुष्पैर्जपति मणिमतां क्षोभिणी वीक्ष्यमाणा चन्द्रार्कं चालयन्ती सपदि जनहिते रक्ष मां देवि ! पद्मे ! ॥ ११॥ गर्जन्नीरदगर्भनिर्गततडिरुज्ज्वालासहस्रस्फुरत्- सद्वज्राङ्कुशपाशपङ्कजधरा भक्त्यामरैरर्चिता । सद्यः पुष्पितपारिजातरुचिरं दिव्यं वपुर्बिभ्रती सा मां पातु सदा प्रसन्नवदना पद्मावती देवता ॥ १२॥ जिह्वाग्रे नासिकान्ते हृदि मनसि दृशोः कर्णयोर्नाभिपद्मे स्कन्धे कण्ठे ललाटे शिरसि च भुजयोः पृष्ठिपार्श्वप्रदेशे । सर्वाङ्गोपाङ्गशुद्ध्यान्यतिशयभवनं दिव्यरूपं स्वरूपं ध्यायामः सर्वकालं प्रणयलयगतं पार्श्वनाथेतिशब्दम् ॥ १३॥ ब्रह्माणी कालरात्री भगवति वरदे ! चण्डि चामुण्डि नित्ये मातङ्गी गौरिधारी धृतिमतिविजये कीर्तिह्रींस्तुत्यपद्मे ! । सङ्ग्रामे शत्रुमध्ये जलज्वलनजले वेष्टिते तैः स्वरास्त्रैः क्षां क्षीं क्षूं क्षः क्षणार्धं क्षतरिपुनिवहे ! रक्ष मां देवि ! पद्मे ! ॥ १४॥ भूविश्वेक्षणचन्द्रचन्द्रपृथिवीयुग्मैकसङ्ख्याक्रमा- ञ्चन्द्राम्भोनिधिबाणषण्मुखवशं दिकूखेचराशादिषु । ऐश्वर्यं रिपुमारविश्वभयकृत्क्षोभान्तराया विषाः लक्ष्मीलक्षणभारतीगुरुमुखान्मन्त्रानिमा देवते ! ॥ १५॥ खङ्गैः कोडण्डकाण्डैर्मुशलहलकिणैर्वज्रनाराचचक्रैः शक्त्या शल्यैस्त्रिशूलैर्वरफरशफर्ल्मैद्गरैर्मुष्टिदण्डैः । पाशैः पाषाणवक्षैर्वरगिरिसहितैर्दिव्यशस्त्रैरमानै- र्दुष्टान् संहारयन्ती वरभुजललिते ! रक्ष मां देवि ! पद्मे ! ॥ १६॥ यस्या देवर्नरेन्द्रैरमरपगितगणैः किन्नरैर्दानवेन्द्रैः सिद्धैर्नीगेन्द्रयक्षैर्नरमुकुटतटैर्घृष्टपादारविन्दे ! । सौम्ये सौभाग्यलक्ष्मीदलितकलिमले ! पद्मकल्याणमाले ! अम्बे ! काले समाधिं प्रकटय परमं रक्ष मां देवि ! पद्मे ! ॥ १७॥ धूपैश्चन्दनतण्डुलैः शुभमहागन्धैः समन्त्रालिकै- नानावर्णफलैर्विचित्रसरसैर्दिव्यैर्मिनोहारिभिः । पुष्पैर्नैवेद्यवस्त्रर्मनभुवनकरा भक्तियुक्तैः प्रदाता राज्ये हेत्वं गृहाणे भगवति वरदे ! रक्ष मां देवि ! पद्मे ! ॥ १८॥ क्षुद्रोपद्रवरोगशोकहरणी दारिद्र्य विद्रावणी व्यालव्याघ्रहरा फणत्रयधरा देहप्रभाभास्वरा । पातालाधिपतिप्रिया प्रणयिनी चिन्तामणिः प्राणिनां श्रीमत्पार्श्वजिनेशशासनसुरी पद्मावती देवता ॥ १९॥ तारा त्वं सुगतागमे भगवती गौरीति शैवागमे वज्रा कौलिकशासने जिनमते पद्मावती विश्रुता । गायत्री श्नुतशालिनां प्रकृतिरित्युक्तासि साङ्खयागमे मातर्भारति ! किं प्रभूतभणितैर्व्याप्तं समस्तं त्वया ॥ २०॥ पाताले कृशता विषं विषधरा धूर्मन्ति ब्रह्माण्डजाः स्वर्भूमीपतिदेवदानवगणाः सूर्येन्दवो यद्गुणाः । कल्पेन्द्राः स्तुतिपादपङ्कजनता मुक्तामणिं चुम्बिता सा त्रैलोक्यनता मता त्रिभुवने स्तुत्या स्तुता सर्वदा ॥ २१॥ सञ्जप्ता कणवीररक्तकुसुमैः पुष्पैः समं सञ्चितैः सन्मिश्रैर्धृतगुग्गुलौघमधुभिः कुण्डे त्रिकोणे कृते । होमार्थं कृतषोडशाङ्गुलशता वह्नौ दशांशैर्जपेत् तं वाचं वचसीह देवि ! सहसा पद्मावती देवता ॥ २२॥ ह्रीङ्कारैश्चन्द्रमध्ये पुनरपि वलयं षोडशावर्णपूर्णै- र्वाह्या कण्ठैरवेष्ट्य कमलदलयुतं मूलमन्त्रप्रयुक्तम् । साक्षात्त्रैलोक्यवश्यं पुरुषवशकृतं मन्त्रराजेन्द्रराजं ....एतत्स्वरूपं परमपदमिदं पातु मां पार्श्वनाथः २३॥ प्रोत्फुल्लत्कुन्दनादे कमलकुवलये मालतीमाल्यपूज्ये पादस्थे भूधराणां कृतरणक्वणिते रम्यझङ्काररावे । गुञ्जत्काञ्चीकलापे पृथुलकटितटे तुच्छमध्यप्रदेशे हा हा हुङ्कारनादे ! कृतकरकमले ! रक्ष मां देवि ! पद्मे ! ॥ २४॥ दिव्ये पद्मे सुलग्ने स्तनतटमुपरि स्फारहारावलीके केयूरैः कङ्कणाद्यैर्बहुविधरचितैर्बाहुदण्डप्रचण्डैः । भाभाले वृद्धतेजःस्फुरन्मणिशतैः कुण्डलोद्घृष्टगण्डे स्रां स्रीं स्रूं स्रः स्मरन्ती गजपतिगमने ! रक्ष मां देवि ! पद्मे ! ॥ २५॥ या मन्त्रागमवृद्धिमानवितनोल्लासप्रसादार्पणां या इष्टाशयक्लॄप्तकार्मणगणप्रध्वंसदक्षाङ्कुऽशा । आयुर्वृद्धिकरां ज्वरामयहरां सर्वार्थसिद्धिप्रदां सद्यः प्रत्ययकारिणीं भगवतीं पद्मावतीं संस्तुवे ॥ २६॥ पद्मासना पद्मदलायताक्षी पद्मानना पद्मकराङ्घ्रिपद्मा । पद्मप्रभा पार्श्वजिनेन्द्रशक्ता पद्मावती पातु फणीन्द्रपत्नी ॥ २७॥ मातः प्र पद्मिनि ! पद्मरागरुचिरे ! पद्मप्रसूनानने ! पद्मे ! पद्मवनस्थिते ! परिलसत्पद्माक्षि ! पद्मानने ! । पद्मामोदिनि ! पद्मकान्तिवरदे ! पद्मप्रसूनार्चिते ! पद्मोल्लासिनि ! पद्मनाभिनिलये ! पद्मावती पाहि माम् ॥ २८॥ या देवी त्रिपुरा पुरत्रयगता शीघ्रासि शीघ्रप्रदा या देवी समया समस्तभुवने सङ्गीयते कामदा । तारा मानविमर्दिनी भगवती देवी च पद्मावती तास्ताः सर्वगतास्तमेव नियतं मायेति तुभ्यं नमः ॥ २९॥ त्रुट्यत्शङ्कलबन्धनं बफुविधैः पाशैश्च यन्मोचनं स्तम्भे शत्रुजलाग्निदारुणमहीनागारिनाशे भयम् । दारिद्रयाग्रहरोगशोकशमनं सौभाग्यलक्ष्मीप्रदं ये भक्त्या भुवि संस्मरन्ति मनुजास्ते देवि ! नामग्रहम् ॥ ३०॥ भक्तानां देहि सिद्धिं मम सकलमघं देवि ! दूरीकुरु त्वं सर्वेषां धार्मिकाणां सततनियततं वाञ्छितं पूरयस्व । ससाराब्धौ निमग्नं प्रगुणगणयुतं जीवराशिं च त्राहि श्रीमज्जैनेन्द्रधर्मं प्रकटय विमलं देवि ! पद्मावति ! त्वम् ॥ ३१॥ दिव्यं स्तोत्रं पवित्रं पटुतरपठतां भक्तिपूर्वं त्रिसन्ध्यं लक्ष्मीसौभाग्यरूपं दलितकलिमलं मङ्गलं मङ्गलानाम् । पूज्य कल्याणमाद्यं जनयति सततं पार्श्वनाथप्रसादाद् देवी पद्मावती नः प्रहसितवदना या स्तुता दानवेन्द्रैः ॥ ३२॥ पठितं भणितं गुणितं जयविजयरमानिबन्धनं परमम् । सर्वाधिव्याधिहरं जपतां पद्मावती स्तोत्रम् ॥ ३३॥ आद्यं चोपद्रवं हन्ति द्वितीयं भूतनाशनम् । तृतीये चामरीं हन्ति चतुर्थे रिपुनाशनम् ॥ ३४॥ पञ्च पञ्चजनानां च वशीकारं भवेद् भ्रुवम् । षष्ठे चोच्चाटनं हन्ति सप्तमे रिपुनाशनम् ॥ ३५॥ अत्योद्वेगा चाष्टमे च नवमे सर्वकार्यकृत् । इष्टा भवन्ति तेषां च त्रिकालपठनार्थिनाम् ॥ ३६॥ आह्वानं नैव जानामि न जानामि विसर्जनम् । पूजार्चे नैव जानामि त्वं गतिः परमेश्वरि ध ॥ ३७॥ अथाह्वाननम् । श्रीपार्श्वनाथ ! जिननायक ! रत्नचूडा- पाशाङ्कुशोरगफलाङ्कितदोश्चतुष्का । पद्मावती त्रिनयना त्रिफणावतंसं पद्मावती जयति शासनपुण्यलक्ष्मीः ॥ ॐ आँ क्रोँ अरुणवर्णसर्वलक्षणसम्पूर्णः स्वायुधवाहनवन्धुचिह्नसपरिवारान् नमोऽस्तुते हे पद्मावति ! देवि ! अत्रागच्छागच्छ तिष्ठ तिष्ठ ठः ठः मम सन्निहिता भव भव वषट् स्वाहा । अथाष्टकं ॐ ह्रीं श्रीँ मन्त्ररूपे ! विबुधजननुते ! देवदेवेन्द्रवन्द्ये ! चञ्चञ्चन्द्रावदाते ! क्षपितकलिमले ! हारनीहारगौरे ! । भीमे ! भीमाट्टहासे भवभयहरणे । भैरवे ! भीमरूपे ह्राँ ह्रीं ह्रूँकारनादे ! विशदजलभरैस्त्वां यजे देवि ! पद्मे ! ॥ १॥ ॐ ह्रीं श्राँ श्रीँ पद्मावत्यै जलं-१ हा पक्षी(क्षि) बीजगर्भे सुरवररमणीचचिन्तेऽनेकरूपे ! कोप वं झं विधेयं धरिततवधरे योगिनी योगमार्गे । हं हंसः स्वर्गजैश्च प्रतिदिननमिते ! प्रस्तुतापापपट्टे दैत्येन्द्रैर्ध्यायमाने ! विमलसलिलजैस्त्वां यजे देवि ! पद्मे ! ॥ २॥ गन्धं० २ दैत्येर्दैत्यारिनाथैर्नमितपदयुगे ! भक्तिपूर्वं त्रिसन्ध्यं यक्षैः सिद्धैश्च नम्रैरहमहमिकया देहकान्त्याश्च कान्त्यै । आं इं उं तं अ आ आ गृढ गृढ मृडने सः स्वरे न्यस्वरे नैः तेवप्राहीयमाने क्षतधवलभरैस्त्वां यजे देवि ! पद्मे ! ॥ ३॥ अक्षतम् । क्षां क्षीं क्षूं क्षः स्वरूपे ! हन विषमविषं स्थावरं जङ्गमं वा संसारे संसृतानां तव चरणयुगे सर्वकालान्तराले । अव्यक्तव्यक्तरूपे ! प्रणतनरवरे ! ब्रह्मरूपे ! स्वरूपे ! पङ्क्तियोगीन्द्रगम्ये सुरभिशुभक्रमे ! त्वां यजे देवि ! पद्म ! ॥ ४॥ पुष्पम् ॥ पूर्णं विज्ञानशोभाशशधरधवले दास्यविम्बं प्रसन्नै रम्ये स्वच्छे स्वकान्त्यै द्विजकरनिकरे चन्द्रिकाकारभासे । आस्मिङ्किन्नाभवर्ज्यां दिनमनुसततं कल्मषं क्षालयन्ती श्रां श्रीं श्रूं मन्त्ररूपे ! विमलचरुवरैस्त्वां यजे देवि ! पद्मे ! ॥ ५॥ नैवेद्यम् ! भास्वत्पद्मासनस्थे ! जिनपदनिरते ! पद्महस्ते ! प्रशस्ते ! प्रां प्रीं प्रूं प्रः पवित्रे ! हर हर दुरितं दुष्टजं दुष्टचेष्टे ! । वाचाला भावभक्त्या त्रिदशयुवतिभिः प्रत्यहं पूज्यपादे ! चन्द्रे चन्द्रीकराले मुनिगृहमणिभिस्त्वां यजे देवि पद्मे ! ॥ ६॥ दीपम् ॥ नम्रीभूतक्षितीशप्रवरमणितटोद्घृष्टपादारविन्दे ! पद्माक्षे ! पद्मनेत्रे ! गजपतिगमने ! हंसशुभ्रे विमाने । कीर्तिश्रीवृद्धिचक्रे ! शुभजयविजये ! गौरिगान्धारियुक्ते ! दी दी शरण्ये गुरुसुरभिभरैस्त्वां यजे देवि ! पद्मे ! ॥ ७॥ धूपम् ॥ विद्युज्ज्वालाप्रदीप्ते प्रवरमणिमयामक्षमालां कराले रम्ये वृत्तां धरन्ती दिनमनुसततं मङ्ककं सारदं च । नागेन्द्रैरिन्द्रचन्द्रैर्दिविपमनुजनैः संस्तुता देवदेवि ! पद्मर्चे ! त्वां फलौघैदिंशतु मम सदा निर्मलशर्मसिद्धिः ॥ ८॥ फलम् ॥ श्रीमन्महाचीनदुकूलनेत्रे सत्क्षौमकौशेयकचीनवस्त्रैः । शुभ्रांशुके श्यनमनिप्रभाङ्गी(? ) यजामहे पन्नगराजदेवि ! ॥ ९॥ शुभ्रवस्रम् । काञ्चीसूत्रविनूतरनिचिते केयूरसत्कुण्डलै- र्मञ्जीराङ्गदमुद्रिकादिमुकुटप्रालम्बिकावासकैः । अञ्चच्चाटिकपट्टिकादिविलगद्ग्रैवेयकैर्भूपाणैः सिन्दूराङ्गसुकान्तिवर्षसुभगैः सम्पूजयामो वयम् ॥ १०॥ षोडशाभरणम् ॥ वारिभिर्गन्धैरक्षतपुष्पैश्चरुवरदीपैर्घूपफलार्घैः । क्रोँ ह्रीं श्रीं क्षां सुबीजपूरमन्त्रे झ्वीं प्रां धं हुं हुं यन्त्रशुभमर्चे ॥ ११॥ अर्घ्यम् ॥ अम्भोभिर्दिव्यगन्धैरलिकुलकलितैर्गन्धशाल्यक्षर्तौघैः कुन्दाद्यैर्दिव्यवद्भिरतुलशुचिवरैर्दीपकैः काम्यधूपैः । सुस्वादैर्नालिकेरैविंलसितविमलैर्वप्रचक्रैरणार्घैः कल्याणानाङ्गभाजां विमलगुणवती पूजयामीष्टसिद्ध्यै ॥ १२॥ पूर्णार्ध्यम् ॥ अथ प्रत्येकपूजा । श्रीसव्यपाणिगततीक्ष्णमस्त्रं वज्रायुध नाम जगत्प्रसिद्धम् । त्रैलोक्यव्याप्तं भयनाशनं च पद्मावति ! त्वत्पदमर्चयामि ॥ १॥ ॐ आँ क्राँ ह्रीं सव्यद्वस्तवज्रधारणे जलं १ भित्त्वा सुपातालमूलं च शस्त्रं कृत्वा विनाशं कलिघोरदुःखम् । सुवामभागे करमङ्कुशं च अर्चामि शस जनशर्मकारि ॥ २॥ इति श्रीपद्मावतीस्तोत्रं सम्पूर्णम् ।