अक्षर आकार:

श्रीपद्मावतीस्तोत्रम्

shrIpadmAvatIstotram

श्रीपद्मावतीस्तोत्रम्

% २७ श्रीः ॥ अस्तु पद्मसरोमध्यादाविर्भूतं परं महः । वशे यस्य परं धाम तद्वृषाचल मास्थितम् ॥ १॥ अनन्याधीनविभवमद्भुतं दैवतं श्रये । मातरं जगतां लक्ष्मीं जगन्मातुः परां प्रियाम् ॥ २॥ सखीभिश्श्रुतिभिर्नित्यं यां यथावत् पनायिताम् । आकर्ण्य हृदये न्यस्यन् लब्धात्मा श्रीनिधिः परः ॥ ३॥ मातुस्ते नामधेयं तत् देबतेति हरिर्ध्रुवम् । पद्मदेव्युच्यते तेन नित्यश्लिष्टतया त्वया ॥ ४॥ प्रजाः पतिप्रियाः कृत्वा भोगसाम्यविधित्सया । स्वच्छायाश्रयणं तासु तनोषि कृपया रमे ॥ ५॥ सरोजसौरभाऽऽधायि दिव्यं लावण्यवर्षि ते । वशीकृतवृषाद्रीशं रूपं पापं व्यपोहतु ॥ ६॥ अभये कृपया देवि प्रतिज्ञाते त्वया हरिः । व्याजभङ्गभिया वक्ति प्रपत्तिं पाणिमुद्रया ॥ ७॥ यया खलु परिष्वक्तो देवो देवत्वमश्नुते । श्रद्धया सर्वलोकैकहितां त्वां मातरं श्रये ॥ ८॥ अम्बुजनिवासरसिकामम्बुजनेत्रस्य वल्लभां देवीम् । अनवद्यगुणगरिम्ना श्रियं परां निस्समां वन्दे ॥ ९॥ आश्रयतु मानसं सुखमासीनामम्बुजे जगज्जननीम् । आश्रितरक्षणहेतोरादृतपद्मावतीरूपाम् ॥ १०॥ प्रणमयति सव्यकरतो दक्षिणतो या ददाति चाप्यभयम् । स्वाधीनलोकवृत्तिं सरोजवासां परां वन्दे ॥ ११॥ परया मया त्वया खलु परमोऽभूत्पुरुष एष देवि तथा । अपरमताऽऽपत्तिभियाऽनपायिनीमुरसि धत्ते त्वाम् ॥ १२॥ निग्रहनितान्तदूरामाग्रहरहितैः प्रबुद्धविभवां त्वाम् । प्राप्यां प्रापकभूतां परमां विष्णोः प्रियां वन्दे ॥ १३॥ निखिलविभूतिनियन्ता यत्पदलाक्षाङ्कलक्षितोरस्कः । अत्यन्तसौम्यमूर्तिं मातरमनघां श्रियं वन्दे ॥ १४॥ दुष्कृतकर्तृबहिष्कृतिबद्धश्रद्धे परे हरौ पुंसि । प्रादुष्कृतवचनसुधां श्रियं प्रपद्ये शुभं ददतीम् ॥ १५॥ अखिलैराश्रितह्रुद्यैर्गुणैः परां त्वां निरीक्ष्य सव्रीडम् । विष्णुं श्रुतीर्ध्रुवं श्रीः सखीस्त्वमादिष्टवत्यसि स्तोतुम् ॥ १६॥ पापानि वर्धयति नः परो रणं तैश्चिकीर्षुरतिवेलम् । रक्षोवधान्त इव ते परिरम्भं मातरद्भुतं लिप्सुः ॥ १७॥ अनघैरम्बुजवासिनि कटाक्षितैस्सहजशीतलैर्दिव्यैः । अच्युतरूपोल्लासिभिरस्माक भवुकमत्र देहि त्वम् ॥ १८॥ शुकपुरमध्यशोभिशुभसद्मसमुज्ज्वलया वृषगिरिश‍ृङ्गवासिपुरुषोत्तमसंश्रितया । अखिलजगद्धितैकपरया कृपया परया मम शुभमस्तु नित्यमनयाऽनघया रमया ॥ १९॥ कमलकुहर दीव्यद्दिव्यरूपां श्रयन्तः पुनरपि पुरुहूतोऽन्ये च यां प्राप्तसत्ताः । वृषगिरिवरवासी यद्वशे विश्रुतोऽसौ सविनयमयमस्यै साधु बद्धोऽञ्जलिर्मे ॥ २०॥ त्रायस्व मामखिलरक्षणजागरूके नारायणस्य हृदये विहिताधिवासे । पाथोजवासरसिके पदपङ्कजं ते कारुण्यदुग्धजलधे शरणं भजामि ॥ २१॥ श्रीस्त्वं श्रिता शरणमीप्सुभिरमार्तरावं श्रुत्वा श्रिता वृषगिरीशभुजान्तरालम् । तं श्रावयस्यथ श‍ृणासि समस्तमेनः श्रीणासि सर्वमपि शेषजनोचितं नः ॥ २२॥ मध्ये समस्तजगदीशितुरब्जगेहे मातश्चितश्च भवती प्रणवे विभान्ती । सत्यं व्यनक्ति घटनां सरसैर्वचोभिः शेषाद्रिगस्य चरणे शरणार्थिनां न: ॥ २३॥ शुकपत्तनवासतत्परां जगतां भाग्यमनुग्रहात्मिकाम् । सरसीरुहवासिनीमिमां शरणं याभ्यहमन्वहं श्रियम् ॥ २४॥ अतिशाय्यनुरूपदिव्यरूपा सततं त्वं श्रितरक्षकस्थ शौरेः । दयया वृषशैलमाश्रितेऽस्मिन् कमलेऽधः कमले यदाविरासीः ॥ २५॥ वृषपर्वततुङ्गश‍ृङ्गभाजा निहिता मादृशनीचरक्षणार्थे । यग्रीवकटशकाव्यकलापं कमले करुणारसैकसान्द्रा स्वकसंवीक्षणसंहतिर्ध्रुवं त्वम ॥ २६॥ निकटेऽत्र गिरौ समागतोऽसौ तनयाः! मैवभितो विधत्त पापम् । इति दुःखनिराचिकीर्षुरस्म- त्प्रतिबोधार्थमिहैत्य भासि मातः ॥ २७॥ पतिरेष परं पदं विहाय प्रथितं वेङ्कटशैलमाश्रितस्सन् । उपतिष्ठति मे गुणीभवस्तत् न भयं वः श्रयतेति वक्षि मातः ॥ २८॥ नानारूपाण्यधिगतवती नाथमेनं श्रयन्ती नाकित्वं त्वं जननि तनुषे नारकिष्वप्यरं यत् । तत्किं चित्रं जगति हतकाः कष्टगत्या तवेदं प्राप्ताः पादाम्बुजमिह लसन्त्येव लब्धेष्टवर्गाः ॥ २९॥ (टिप्पणी -अरं - भृशं, रेफशून्यमित्यप्यर्थः । नारकिणां रेफशून्यत्वे नाकित्वम् । हतकाः हतककारा इत्यर्थान्तरम् । इदं इकारदम् कष्टगतौ ककारहानौ इकारे सति इष्टगतिर्भवति) त्वदाश्लिष्टोरस्के स्वकचरणयुग्मं प्रणयतः प्रपत्तव्यं देवे प्रकटयति नारायण इह । त्वमम्ब श्रीः स्वस्मिन् श्रुतिमितमुपायत्वमभय- स्फुटीकृत्या पत्या तुलितमनुकम्प्य प्रथयसि ॥ ३०॥ तपसा श्रीनिवासेन प्राप्तां शुकपुरे पुरा । श्रियं पद्मावतीमित्थं प्रणतो वीरराघवः ॥ ३१॥ इति तर्कार्णवश्च पण्डितरत्न वात्स्य श्रीवीरराघवविरचितं पद्मावतीस्तोत्रं सम्पूर्णम् ॥ From veNkaTeshakAvyakalApaH