अक्षर आकार:

श्रीपद्मावतीसहस्रनामस्तोत्रम् २

Shri Padmavati Sahasranama Stotram 2

श्रीपद्मावतीसहस्रनामस्तोत्रम् २

ॐ श्रीगणेशाय नमः भैरव उवाच - श्रीशैलशिखरासीनं देवीशं परमेश्वरम् । प्रहसन्तं विरूपाक्षं गणगन्धर्वसेवितम् ॥ १॥ ब्रह्मोपेन्द्रेन्द्रचन्द्रार्कगुरुभार्गवपूजितम् । नागयज्ञोपवीतं च भूतिभूषितविग्रहम् ॥ २॥ त्रिशूलखट्वाङ्गधरं शरहस्तं पिनाकिनम् । जटाजूटोज्ज्वलं देवं गङ्गाधरमुमेश्वरम् ॥ ३॥ जयन्तं मनसा तत्त्वं ध्यानोन्मीलितलोचनम् । उभया परया भक्त्या सेविताङ्घ्रिसरोरुहम् ॥ ४॥ प्रसन्नवदनं देवं करुणपूर्णमानसम् । प्राणम्योत्थाय रुद्राणी भैरवं वाक्यमब्रवीत् ॥ ५॥ ॐ भगवन् देवदेवेश भक्तानुग्रहकारक । शरण्यं वरदेशान त्रिनेत्र त्रिपुरान्तक ॥ ६॥ त्वमात्मा जगतां साक्षी त्वं तत्त्वं वेदवित्परः । (६४) त्वं तन्त्रवादी मन्त्रेशो नेत्रेशो घोरभैरवः ॥ ७॥ हाटकेश्वर ईशोऽसि नागराजोपसेवितः । श्रीसर्वज्ञेश्वरी देवी परा पद्मावतीति या ॥ ८॥ तस्या नामसहस्रं मे वक्तुमर्हसि भैरव । भैरव उवाच - देवदेवीति या देवि श्रीसर्वज्ञेश्वरेश्वरी ॥ ९॥ पद्मावतीति या देवि महाचीनद्रुमाश्रया । श्रीबुद्धोपासिता विद्या महाविद्याधीदेवता ॥ १०॥ परब्रह्म परा देवी अधाराम्नायनायकी । विंशाक्षरी च कमला कमलाक्षी च पञ्चमी ॥ ११॥ तस्या नामसहस्रं ते वक्ष्ये परमदुर्लभम् । स्तुत्यं पुण्यप्रदं पुण्यं सर्वदेवादिपूजितम् ॥ १२॥ सर्वपापप्रशमनं सर्ववैरिनिषूदनम् । सर्वरोगहरं देवि सर्वोपद्रवनाशनम् ॥ १३॥ पूजाकोटिसमं दिव्यं सर्वदारिद्र्यनाशनम् । (६५) लक्ष्मीप्रदं च धनदं विद्याश्चातुर्यकारणम् ॥ १४॥ सर्वशापूरकं साध्यमष्टसिद्धिप्रदायकम् । वेदतत्त्वं तन्त्रत्तत्वं मन्त्रतत्त्वैककारणम् ॥ १५॥ जयदं वलदं गुह्यं सर्वयज्ञफलप्रदम् । श्रुत्वा गोपय यत्नेन मन्त्रनामसहस्रकम् ॥ १६॥ पद्मावत्या रहस्यं मे सर्वस्वं पारदैवतम् । मन्त्रनामसहस्रस्य सदाशिवऋषिः स्मॄतः ॥ १७॥ त्रिष्टुप्छन्दो देवता च श्रीसर्वज्ञेश्वरेश्वरी । पद्मावतीति मा बीजं पराशक्तिरिति स्मॄता ॥ १८॥ कामकीलकमीशानि दिग्बन्धः प्रणवः स्मॄतः । धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥ १९॥ ॐ अस्य श्रीपद्मवतीनामसहस्रस्य श्रीसदाशिवऋषिः, त्रिष्टुप्छन्दः, श्रीसर्वज्ञेश्वरेश्वरी पद्मावति देवता । श्रीम्बीजं ह्रींशक्तिः क्लीं कीलकम् । ॐ इतिदिग्बन्धनम् । (६६) श्रीधर्मार्थकममोक्षार्थे पद्मावती मन्त्रनामसहस्रस्य जपे पाठे विनियोगः । अथ ध्यानम् । ॐ उद्यत्सूर्यमरीचिकोटिसदृशीमापीनन्तुङ्गस्तनी- मारक्ताम्बरधारिणीं शशिकलाचूडां त्रिनेत्रोज्ज्वलाम् । मालापद्मकपालकुम्भककरां पद्मासनां शीधुपाम् । देवीं मुक्तकचां सुरासवरसां रक्तोक्षणां चिन्तये ॥ इति ध्यानम् ॥ ॐ ह्रीं श्रीं क्लीं ब्लूं नागी नागराजोपसेविता । नागेन्द्रतनया नारी नगराजसुतानघा ॥ १॥ नगरी नागरी नुत्या नगनायकनन्दनी । नीलम्बरधरानन्ता नीला नीलपताकिनी ॥ २॥ नीलक्रमेश्वरी नुन्ना नीलद्रूमलताश्रया । निशा निशाकरकला कोमला च कलावती ॥ ३॥ जयाश्रया जयकरी विजया विजयप्रदा । विलासिनी विश्वमाता विश्वेशी विश्वसूदिनी ॥ ४॥ विश्वप्रसूर्विश्वधात्री धात्री धातृवरप्रदा । अमृती मृत्युशमनी मारी मृत्युर्मनोन्मयी ॥ ५॥ मनस्विनी मानवती मनोज्ञा मदिरावती । इन्द्राणी दाहनी दीप्तिर्धर्मदा धर्मनायकी ॥ ६॥ रक्षोधात्री राक्षसेशी रक्षोलोकोपसेविता । वारुणी मदिरा मोदा वारुणीमदविह्वला ॥ ७॥ यात्याली वायुसूर्वाणी वयुपूज्या विभावरी । श्रीदा श्रीदेश्वरी श्रीला श्रीशोभा शङ्करी शिवा ॥ ८॥ ईश्वरी शाम्भवी मूर्तिर्ब्रह्मसूर्ब्रह्मवल्लभा । नारायणी शेषमूर्तीर्गुरुमूर्तिर्गरीयसी ॥ ९॥ कृसराकेशरवती कमला कमलावती । विमला निर्मला माला मालाक्षीरक्षपाकुला ॥ १०॥ कपालीश्वरसेव्या च कपालीशी कपालिनि । माल्याम्बरधरा साध्वी मालिनी हारिणी हरित् ॥ ११॥ हालाहालावती हेलालीला लीलावती तटी । वालिका कलिकाकाली कुरुकुल्लाच कोमला ॥ १२॥ डाकिनी डक्किका योग्या योगिनी खेचरी चरी । ब्रह्माणी ब्रह्मरुद्राणी वैष्णवी चण्डिका जया ॥ १३॥ दैत्यदर्पहरी ध्येया दर्पवत्यपराजिता । कौमारी कुलिकाकुह्या वाराही वरदायिनी ॥ १४॥ नारसिंही वीरसिंही नृपसिंहसमर्चिता । असिताङ्गी नताङ्गी च रुरुभैरवपूजिता ॥ १५॥ कपालभैरवेशानी भीषणा भीषणेश्वरी । संहारभैरवी भीमा भीमावामाङ्गवासिनी ॥ १६॥ गणेश्वरी गुणातीता निर्गुणा निष्कला कला । सकला सकलाधारा धराधरसुताप्रसूः ॥ १७॥ प्रजावती प्रेमवती विनता विनयप्रदा । विश्वम्भरा वरगतिः सुगतिः सुगतार्चिता ॥ १८॥ स्वर्गतिः समतिः साध्वी सुखदाच सुखावती । त्रिनेत्रा त्रिपुरेशानी महात्रिपुरसुन्दरी ॥ १९॥ त्रिकुला त्रिपुराध्याक्षा त्रिवर्णा त्रिपुटेश्वरी । त्र्यक्षरी त्रिपुरा बाला महात्रिपुरभैरवी ॥ २०॥ वीरागिणी वीरगतिरध्विनी चास्ववाहिनी । अश्वप्लुतिः साधुगतिर्भरणी भारिणी भगा ॥ २१॥ भगमाला भगेशानी भगबिम्बाभमालिनी । कृत्तिका कृत्तिवस्त्रा च कृत्तिवासकुटुम्बिनी ॥ २२॥ कार्तिकेयप्रसूः कीर्तिः कीर्तिदा कीर्तिवर्धिनी । रोहिणि रोहिणिमूर्तिः रौहिणीयवरप्रदा ॥ २३॥ मृगावती मृगीनेत्री मृगलाञ्छनशेखरा । मृगराजगतिर्मृग्या मृगी मृगशिरोधरा ॥ २४॥ आर्द्रार्द्रवासना सान्द्रा पुनर्भूतिः पुनर्वसुः । पुनर्जया पुर्नर्दीना पुनर्वारा पुनर्वधूः ॥ २५॥ तिथ्या तिथिप्रिया तिथ्यापुष्पा पुष्पवती पुरी । अश्लेषाश्लेष रसिका मघा मोघावती सुहॄत् ॥ २६॥ पूर्वा पुर्वमुखी पौर्वा पुर्वाफाल्गुणिका तडित् । सौदामिनी सुदामा च सुधापानपरायणा ॥ २७॥ उत्तरा चोत्तराषा च सोत्तरोत्तरफाल्गुणी । हस्ता हस्तजनीत्री च खनित्री खनिरुत्तमा ॥ २८॥ चित्रा चित्राम्बरधरा स्वातिः स्वादुसुह्वीसुरी । विशाखा शाखिनी शाखा विशाखाजननी जडी ॥ २९॥ अरागिणी परा राग्यानुराधानुरुपूजिता । ज्येष्ठा श्रेष्ठा ज्येष्ठकला मूलं मूलधरागतिः ॥ ३०॥ पूर्वाषाढा च या षण्डी चोत्तराषाढवल्लभा । श्रावणी श्रावणीमुर्तिः श्रवणेशी श्रुतिस्मृतिः ॥ ३१॥ विश्रवा सश्रवा श्रव्या श्रान्ता वैश्रवणीश्वरी । धनेश्वरी धनिष्ठा च धनिलोकवरप्रदा ॥ ३२॥ शतं शमा शतभिषक् कलिकल्मषनाशिनी । पूर्वाभाद्रपदा भाद्रभाद्रदा भाद्रकालिका ॥ ३३॥ श्मशानकालिका घोरा कालिका वीरकालिका । उत्तरोतरभद्रा च पदचोत्तरकालिका ॥ ३४॥ रेवती देवकी देवी श्यामा दक्षिणकालिका । सूर्यांशुसदृशी शूरी चन्द्रिका चन्द्रवल्लभा ॥ ३५॥ मङ्गली मङ्गलवती योद्धदा बुद्धिवर्धिनी । बुद्धोपसेविता बोधा जीवदा जीवसेविता ॥ ३६॥ जीवन्तो गुरुदेहा च वाग्विलासप्रदायिनी । शुक्रः शुक्रप्रसूः शुक्रो शुक्रलिप्ता च शुक्रला ॥ ३७॥ शुक्रात्मिका शुक्रपूज्या शुक्रनीतिविवर्धिनी । शुक्रप्रिया शुक्रजया शुक्रचन्दनचर्चिता ॥ ३८॥ श्रुक्राङ्गरागलिप्ताङ्गी श्रुक्रैकतिलकप्रिया । शनिप्रस्था मन्दगतिर्मन्दमाता मदालसा ॥ ३९॥ मन्दाकिनी च मदिरा मदिरारुणलोचना । रक्तबाहुर्हरीकेतुः कैतवी केतुमालिनी ॥ ४०॥ ध्रुवा ध्रुवजनित्री च ध्रुवमार्गप्रवर्त्तिनी । अनुसुयानुलोमा च लोआपमुद्रा च लोपिनी ॥ ४१॥ अगस्त्योपासिता विद्या नवग्रहसमर्चिता । प्रतिपद्विकलातिथ्या द्वितीया सैव शक्तिका ॥ ४२॥ तृतीया कारिणीमुर्तिश्चतुर्था वेदनायकी । पञ्चमी षोम पञ्चेसी षष्ठी षड्रसलोलुपा ॥ ४३॥ सप्तमी सप्तशाखा च सप्तर्षिजनसेविता । अष्टमी वसुपूज्या च नवमी नवरात्रिका ॥ ४४॥ नवदुर्गाश्रया मूर्तिः श्रीदुर्गा कालरात्रिका । दशमी दशमीपुज्या दशदिक्पालवन्दिता ॥ ४५॥ एकादशी रुद्रमूर्ति द्वादशी सूर्यवल्लभा । त्रयोदशी शिवप्रीता भुतेशी च चतुर्दशी ॥ ४६॥ अमावास्य पितृकला पूर्णिमा चन्द्रवन्दिता । विद्याधरी मेनकाच चित्रलेखाप्यलम्बुषा ॥ ४७॥ तिलोत्तमाक्षरा रम्भा रम्भोरू लम्भकुन्दला । ऊर्वशी शीतलाङ्गी च शूलिनी कुन्तकेश्वरी ॥ ४८॥ सुन्दोपसुन्दशमनी महिषसुरसूदिनी । रक्तबीजहरा रक्तचण्डमुण्डनिषूदिनी ॥ ४९॥ निशुम्भशुम्भहर्त्री च मधुकैटभनाशिनी । हिरण्याक्षहरी धूर्ती रावणान्तकरी धृतिः ॥ ५०॥ सीता साध्वी शीलवती शम्भरान्तकरी सती । शम्बरारिसहाया च शम्बरारिरिपुप्रिया ॥ ५१॥ यक्षेश्वरी यक्षवधूर्यक्षिणी यक्षनायकी । रक्षोमाता राक्षसी च गान्धारी किन्नरीश्वरी ॥ ५२॥ पिशाची सुमुखी देवी मातङ्गी राजवल्लभा । (७४) उच्छिष्टमुखचाण्डाली राजमातङ्गिनी तुरी ॥ ५३॥ महापिशाचिनी देवी शङ्किनी शङ्खिनी शता । गुह्या गुह्यतमा गोप्त्री यक्षिणी गुह्यकेश्वरी ॥ ५४॥ सुलोचना सुगोत्रा च सुवस्त्रा स्वर्णकङ्कणा । सिद्धेस्वरी सिद्धमाता सिद्धलोकनिवासिनी ॥ ५५॥ ॥ अणिमा महिमा सिद्धिर्गरिमा लघिमा तथा । ईशत्वसिद्धिः सत्सिद्धिः सप्तसिद्धिः सदाश्रया ॥ ५६॥ सकाम्यसिद्धिः सिद्धेछा मन्त्रसिद्धिः सुसिद्धिदा । भूतेश्वरी महाराज्ञी भुतेश्वरविलासिनी ॥ ५७॥ भूतधात्रि भूतविद्या भूतवेतालसेविता । तपस्विनी तपस्या च यश्स्या च यसखिनी ॥ ५८॥ स्तम्भिनी मुखमुद्रा च महास्तम्भेश्वरेश्वरी । गतिस्तम्भकरी त्रेता बगला बगलामुखी ॥ ५९॥ (७४) मोहिनी काममोहा च मोहा त्रिपुरमोहिनी । (७५) मारणीमुर्तिरीशानी मृत्युरूपा करालिनी ॥ ६०॥ केनाशवरदा केला जगदाकर्षिणीश्वरी । वशीकरणमूर्तिश्च राजलोकवशङ्करी ॥ ६१॥ उच्चाटनकरी मुद्रा शान्तिका शान्तिदायिनी । पौष्टिकी पुष्टिदा पुष्टिः सन्तानकतकस्थिता ॥ ६२॥ वन्ध्या च काकवन्ध्या च मृतवत्सा च वत्सला । वन्ध्यापुत्रप्रदा पौत्री पौत्रीपुत्रप्रियङ्करी ॥ ६३॥ मौक्तिकी मुक्तिदा मुक्तिर्मुक्ताहारविभूषणा । सरस्वती भारती च जडभावविनाशिनी ॥ ६४॥ उग्रताराभतारा च तिथितारोत्तरोत्तरा । नीली सुरार्चिता नीवी नीला नीलसरस्वती ॥ ६५॥ एका चैकजटजूटा महातारा जटालिनी । शैलदुर्गा शैलपुत्री ब्रह्मेशी ब्रह्मचारिणी ॥ ६६॥ चण्डघण्टा चण्डदुर्गा प्रचण्डा चण्डिका च्युता । (७५) कूष्माण्डी स्कन्दमाता च गुहदुर्गा सुदुर्जया ॥ ६७॥ (७६) कात्यायनी पुटदुर्गा कालदुर्गा कृकाटिकी । कालरात्री रत्नदुर्गा महागौरी गुणप्रिया ॥ ६८॥ देवदूती शिवादूती दूतदुर्गा पराम्बिका । वनदुर्गेति दुर्गा च पद्मदुर्गा पिलम्पिला ॥ ६९॥ श्रीविद्यावासिनी दुर्गा हिमाचलकृतालया । निषधाद्रिनिवासा च माल्यवद्गिरिवासिनी ॥ ७०॥ पारिजातगिरिस्था च गन्धमादनवासिनी । सह्यपर्वतसंस्था च कैलासाचलवासिनी ॥ ७१॥ मलयस्था लयातीता सप्तसागरवासिनी । सप्तद्वीपाश्रया पृथ्वी सप्तपातालवासिनी ॥ ७२॥ सप्तग्रहेश्वरी सप्तभुवनान्तरवासिनी । शिवतत्त्वमयी शक्तिः सदाशिवविलासिनी ॥ ७३॥ ईश्वराश्रयिणी काम्या शुद्धविद्या सदालसा । (७६) माया मायवती याम्या कलातत्त्वप्रकाशिनी ॥ ७४॥ (७७) विद्यावाग्वादिनी वाणी रागतत्त्वप्रमोदिनी । कालतत्त्वानुरागा च नियतिर्यतिवल्लभा ॥ ७५॥ पुरुषाकृतितत्त्वा च पुरुषार्थप्रदायिनी । प्रकृतिः प्रकृतिस्तुल्पा सकृतादेशदक्षिणा ॥ ७६॥ अहङ्कृतिरहन्तत्त्वा महतत्त्वभरालसा । बुद्धिर्मनोवेगवती त्वक् चक्षुर् ज्योतिरम्मयी ॥ ७७॥ श्रोत्रतत्त्वा च रसना रसाला रसपायिनी । घ्राणी मोहाकुला माद्री वामीशी पाणिपङ्कजा ॥ ७८॥ पादाश्रितधरा॥काशा पायुतत्त्वविचारिणी । तपस्तरसिकालिङ्ग्या लिङ्गामृतसुतर्पिता ॥ ७९॥ भगलिङ्गमयीमृर्तिर्भगलिङ्गसुखाश्रया । शब्दरूपा शब्दसुखा नादबिन्दुस्वरूपिणी ॥ ८०॥ (७७) स्पर्शप्रिया स्पर्शतत्त्वा रसतत्त्वा रसालसा । (७८) गन्धिनी च सुगन्धा च परमाकाररूपिणी ॥ ८१॥ शून्यरूपा शून्यमतिः शून्ययोनिः पराकृतिः । वह्निज्वाला महाज्वाला ज्वाललिङ्गनिवासिनी ॥ ८२॥ ज्वालामुखी कोटराक्षी ज्वालाजटिलरूपिणी । सलिलेशी जलेशा च हयोरूपा पयस्विनी ॥ ८३॥ पृथिवीपञ्चतत्वेशी षट्त्रिंशत्तत्त्वरूपिणी । वसन्तकुसुमश्रीश्च वसन्तर्तुसुखाश्रया ॥ ८४॥ ग्रीष्मज्वाला रविप्रीता वर्षावृष्टिविधायिनी । शरत्कुसुमसम्पश्च शारदा सिंहविष्टरा ॥ ८५॥ हेमन्तश्रीर्हैमवती हरिकान्ता हरेश्वरी । शिखरश्रीः शशिमुखी शरिकाशुकसेविता ॥ ८६॥ यमुना यमिनी याम्या नर्मदा शतरुद्रिका । सरस्वती वेत्रवती रेवा रैवतकाश्रया ॥ ८७॥ (७८) विपाशा पराहन्त्री च भाग्यदा भगमालिनी । (७९) ऐरावती सरित्सिन्धुः शतद्रुः शतरुद्रिका ॥ ८८॥ वितस्ता सिन्धुरैन्द्री च विशोका पापनाशिनी । चन्द्रवती मधुमती सरयू चामरावती ॥ ८९॥ तापी हैमवती शीस चम्पा चम्पावती कुरू । कर्मनाशा च कावेरी कौशिकी कौशिकेश्वरी ॥ ९०॥ शुचिर्हैमवती हैमी गण्डकी देविका दितिः । अदितिर्विनता कद्रूः सभागा वीरभागिका ॥ ९१॥ सुधावती चर्मवती चर्मवत्यपि वेणुका । रत्नावती मणिमुखा नदीरूपा चिदीश्वरी ॥ ९२॥ वाराणसी शिवपुरी मयापुरी गुडी तथा । काञ्ची चोज्जयिनी प्रेय्या मथुराय च दुर्ल्लभा ॥ ९३॥ अयोध्यायां च सेव्या च द्वारिका दुर्गावासिनी । उड्डीयानावनिः कुड्या कामरूपनिवासिनी ॥ ९४॥ (७९) हिङ्गुलापीठ्वासा च शारदापीठवासिनी । कुब्जिका पाश्चिमाम्नायवीरपीठनिवासिनि ॥ ९५॥ (८०) श्यामाविद्या महाकाली दक्षिणाम्नायनायकी । उग्रचण्ड्युत्तराकाली उत्तराम्नायनयकी ॥ ९६॥ श्रीमहाषोडशी देवी परोर्ध्वाम्नायनायकी । पद्मावती नगविद्या चाधराम्नायनायकी ॥ ९७॥ षडाम्नायेश्वरी देवी पराशक्तिः समातृका । अकारनायकी चाम्बा चानन्तानन्दविग्रहा ॥ ९८॥ अम्बिकाम्बालिकानन्दा चाद्रिजाद्रिनिषेविता । अलोपाकालितानल्पा चाजिताजसमर्चिता ॥ ९९॥ अलिमाम्सस्वरूपा च अवर्णाकृतिवर्णिनी । आद्यात्मरूपिणी चाज्ञा आनन्दरसतर्पिता ॥ १००॥ आकारजितसर्वाशा आपायितपदाश्रया । आचारपञ्चकप्रीता आकारक्षरमतृका ॥ १०१॥ (८०) इन्द्रस्तुत्या महेन्द्राक्षी इन्दिरेन्दीवरप्रदा । इडामङ्गलसम्भ्रान्त चेतिहासकथास्मृतिः ॥ १०२॥ इत्यपूजापरस्तृप्तिः इकारक्षरमातृका । ईश्वरप्रेयसी इशा ईईकाराक्षराश्रया ॥ १०३॥ उमा चोल्का चेरुहासा चोग्रवामाङ्गवासिनी । उल्लासनवरूपोक्षा विक्षारक्षरविग्रहा ॥ १०४॥ ऊष्मा ऊती उरुमति ऊस्वरोहा स्वरोत्तमा । ऋभु ऋक्षेश्वरी ऋत्या ऋमात्रा लृकृतिस्तिथा ॥ १०५॥ लृमातृका विभूषाढ्या योण्ठस्वरविनायकी । एणांशुमुकुटा चेणि चैणनेत्रा सवर्णिका ॥ १०६॥ ऐङ्कारबीजभूषाढ्या ऐहिकामुष्मिकप्रदा । ॐकाररूपिणी और्वा अंस्वरूपा स्वरोत्थिता ॥ १०७॥ अःस्वरुपपरम्ब्रह्मरूपीणी स्वरनायकी । कनकाङ्गदभूषा च कनकी कनकावती ॥ १०८॥ कठोराङ्गी कृपाकारा मोक्षदा च कृपावती । काश्मीरी काश्यपाकारा कारीका कलिकावती ॥ १०९॥ कादम्बरी कश्मला च कुजस्था कश्मलावती । कामेश्वरी काञ्चनाभा कामुकी कामुकावती ॥ ११०॥ काञ्चुकी कुड्मला कन्था केतकी कनकावती । कपेश्वरी कोपवती कपिला कपिलावती ॥ १११॥ करञ्जकुञ्जसंस्था च कम्पिला कम्पिलावती । केयूरहारशोभाढ्या किंशुकी किंशुकावती ॥ ११२॥ कोकिलालापरसिका कोकिली कोमलावती । कलङ्करहिता केश्या कलविङ्ककुलावती ॥ ११३॥ कुलाकुलपदेशानी कुरुकुल्लाधिदेवता । ककारमातृकादेवी ककारमातृकावती ॥ ११४॥ खड्गहस्ता खर्पराशी खटिला खटिलावती । खेटेश्वरी खगगतिः खड्गिनी खेटकावती ॥ ११५॥ (८२) खञ्चनाक्षी खञ्जरीठी खंरूपा खञ्चनावती । (८३) गोप्त्री गोपालवनिता गोदातीत गयावती ॥ ११६॥ गणेशजननी गुर्वी गुणगम्या गुणावती । गरुन्मणिर्मरीचिश्च गणना गणकेश्वरी ॥ ११७॥ घुर्घुरा घरटा घारी घटिका घटिकावती । घनेश्वरी घनेहा च घनवाहा घनावती ॥ ११८॥ ङान्ता ङवर्णासंस्था च वर्गिणी च ङमातृका । चामीकरप्रभा चान्द्री चटुला चटुलावती ॥ ११९॥ चमत्कृतिश्चन्द्रहासा चन्द्रामोदा चलावती । चञ्चश्चकोरनयना चकोरी कोरकावती ॥ १२०॥ चलत्पवनवेगा च चलिता चुलुकावती । छत्रेश्वरी छत्रधारा छात्रेक्षा छत्रिकावती ॥ १२१॥ छिन्नमस्ता छिन्नभूषा छटिला छटिलावती । जप्या जेया जयकरी जीवान्ता जीवनावती ॥ १२२॥ (८३) जगज्जैत्रा जगद्रक्षा जगती जयिकावती । (८४) जटिला जङ्गमेशानी जम्भाली जम्भलावती ॥ १२३॥ झङ्कारीर्जलदा छाया झिञ्झिणी झिञ्झिणावती । ञणुरूपा ञवर्णेशी ञकारा ञणिणावती ॥ १२४॥ टङ्कायुधा टिण्टिणिका टाङ्कारी टङ्कणावती । ठाकुरी ठकुरेशानी ठाक्षरा ठाक्षरावती ॥ १२५॥ डिण्डीरवल्लभा डीणा डकारा डिण्डिमावती । ढत्कृतिर्ढुण्ढुपीढाक्षी ढकारमातृकावती ॥ १२६॥ णिणीवामा णवर्णेशी णवर्णाक्षरमातृका । तपनी तापनी त्र्यक्षी तपनीयसमप्रभा ॥ १२७॥ तोतुला तिलकद्योतिस्तोटिका तिलकावती । तौटिल्पराहिता तामी तमिका तुटिलावती ॥ १२८॥ तामरी तोमरकरा तौतिली तुलसी तुरी । तटाकधरणी तुट्यास्तुटिस्तुम्बुरुनिःस्वना ॥ १२९॥ (८४) ताण्डवीपरमप्रीता तुण्डघोणा तुलावती । (८५) तरी तामरसद्योतिस्तरणी तरुणावती ॥ १३०॥ त्रुटन्माला त्रुटिहारा त्रपाला चपलावती । स्थालिका स्थाण्डिला स्थाणुः स्थविरा स्थविरावती ॥ १३१॥ दमनी दमदा दारा दम्भोलीभृद्वरप्रदा । दण्डहस्ता दयार्द्रा च दोलारूढा दुरावती ॥ १३२॥ दुन्दुनी दुन्दुशमनी दाम्भिकी दाम्भिकावती । दीनैकजननी दान्ता दिण्डिनी दण्डकावती ॥ १३३॥ द्रोहिणी द्रोहदा हर्त्री द्रुहिका द्रुहिकावती । द्राक्षारसप्रिया द्रोता दकारक्षरमातृका ॥ १३४॥ धन्या धनदसेव्या च धर्मिला धर्मिलावती । नर्मकर्मकरी नाली नलिनी नलिनावती ॥ १३५॥ नरनारीजनस्तुत्या नरनारायणप्रिया । नटेश्वरी नाट्यकरी नटिनी नटिकावती ॥ १३६॥ नागरजेन्द्रद्रयिता नागरी नागरावती । परम्परापीवराङ्गी पाठकी पीठिकावती ॥ १३७॥ (८६) पाठा पदाम्बरधरा पदिनी पद्दिनावती । पदोदकाप्रिया पात्री पात्रजा पात्रिकावती ॥ १३८॥ परात्मिका परम्ब्राह्मी परमेश्वरवल्लभा । फुण्टिका फाण्टजा फान्ता फट्वर्णाक्षरमातृका ॥ १३९॥ बलन्धुरा बलकरी बलिदानवनाशिनी । बलोत्तरा बन्धकरी बन्धकी बन्धकावती ॥ १४०॥ बन्धुजा बान्धवप्रीता बर्बरी बर्बरावती । बगोला बन्धमुक्ता च बालकी बगलावती ॥ १४१॥ भगरूपा भगोल्लासा भागजा च भगावती । भगलिङ्गरसास्वादा भगलिङ्गामृतात्मिका ॥ १४२॥ भगरूपारतप्रीता भगिला भगलावती । मुद्रिका मोहमुद्रा च नवमुद्राप्रकाशिनी ॥ १४३॥ माद्यक्षीदुरसाक्षीवा मन्दुरा मोदकावती । मञ्जूषिका मञ्जुरवा मधुयष्टिर्मदावती ॥ १४४॥ (८६) मधुमत्ता मदोद्धसा मोदकी मोदकावती । (८७) मोदकाहारवरदा मोदिरा मद्रिकावती ॥ १४५॥ मनोवती मानसिकी मेठिका मण्ठिकावती । मैनाकवरदा मेधा मेरुजा मीनकावती ॥ १४६॥ यज्ञेश्वरीप्रिया यज्ञफलदा यज्ञकावती । यजमानप्रिया याज्ञयाजकी यज्ञकावती ॥ १४७॥ यष्टिहस्ता यन्त्रकरी याष्टिकी याष्टिकावती । यादस्पतिस्तुता योगजननी जनकावती ॥ १४८॥ रात्रिञ्चरक्षयकरी रात्रेश्वरनिषेविता । रोगकेहारिणी रावी रोलम्बा मधुरस्वना ॥ १४९॥ राजपूजा रटाला च रजसी राजिलावती । रजस्वला रजोरूपा रेतिजा रेतिलावती ॥ १५०॥ लक्ष्मिर्लालाकरी लोला लाङ्गलिशी लुलावती । लाक्ष्रसप्रभालुता लाङ्गलायुधसेविता ॥ १५१॥ (८७) ललज्जिह्वा च लोलाक्षी लास्यहास्य विचक्षणा । (८८) लम्बकेशावली लम्बरसना लम्बिकावती ॥ १५२॥ वशिनी वंशजा वंशी वसतिर्वशिकावती । शार्दूलचर्मवसना शम्बूककलिकावती ॥ १५२॥ शिर्दूलमध्या सारेशी शमदा शमिकावती । शौर्यप्रदा सूरमाता शौरिकी शौरिकावती ॥ १५३॥ षोडशी षोडशकला षडङ्गा षोडशाक्षरी । सतीमाता सत्रसाला सारसी सरसावती ॥ १५४॥ सुरसङ्घार्चिता सभ्या सभासेव्या सभावती । समस्तसुख सौभाग्या समस्त दुरितापहा ॥ १५५॥ समस्तसाधकस्तुत्या सर्वमङ्गलदायिनी । सरोजिनीधवद्योतिः सागरैकसुतासुरा ॥ १५६॥ सुरापानरसाला च सरला सरलावती । हूहूप्रिया च हुं बीजा हरिणी नयनाहुतिः ॥ १५७॥ होतृप्रिया हव्यभक्ष्या हविषा हविषावती । हालाहलप्रिया होला हलिनी हटिलावती ॥ १५८॥ होममाला हरिप्रीता हकाराक्षरमातृका । हयुषा हाटकद्योतिर्हेमकान्तिर्हलावती ॥ १५९॥ लक्षःस्वरूपा सदसच्चिदानन्देश्वरेश्वरी । दयावती सत्यवती यशोवत्यमरावती ॥ १६०॥ प्रभावती धनवती क्रियावत्यकलावती । मोहवती महवती स्तुवन्ती मल्लिकावती ॥ १६१॥ पार्वती पावनवती देवता श्रीधरावती । ॐ ह्रीं श्रीं ब्लूं च फट् स्वाहा पद्मा पद्मावतीश्वरी ॥ १६२॥ इति नाम्नां सहस्त्रं ते कथितं वीरवन्दिते । समस्तमतृकापूर्णसर्वक्षतु मनोहरे ॥ १६३॥ समस्ततिथिसम्पुर्णं मूलमन्त्रैकसाधनम् । देवि गुह्यतमं गुह्यं भवसागरतारणम् ॥ १६४॥ पापापहं महापुण्यं पुण्यदं पुण्यवर्धनम् । ब्रह्महत्यादिपापानां प्रायश्चित्तफलप्रदम् ॥ १६५॥ यःपठेत्पाठयेद्वापि श्रावयेद्वा श‍ृणेति यः । स लक्ष्मीभाजनं वीरो यशस्वी कुलनायकः ॥ १६६॥ तेजसः सुर्यसङ्काशो यशसः राघवोपमः । वलवान् वायुसदॄशो वागीशसदृशो गिरः ॥ १६७॥ नीत्या भार्गवसङ्काशो जपेन च विभूपमः । सौन्दर्येण स्मरः साक्षाच्छोभया च शशिप्रभः ॥ १६८॥ विभवेन शिवः साक्षाच्छ्रिया वैश्रवणोपमः । भृङ्गिरीज्योपमो भक्त्या शौर्येणेन्द्रोपमो भुवि ॥ १६९॥ बहुनोक्तेन किं देवि स साक्षाद्भैरवोपमः । यः पठेद्वीरपूजायामानन्दरसघूर्णितः ॥ १७०॥ दशवारं त्रिवारं वा प्रयोगार्हो भवेत्तु सः । श्मशाने चक्रपूजायां यः पठेच्छक्तिसन्निधौ ॥ १७१॥ स पुरश्चरणैकस्य फलमश्नाति साधकः । (९०) यः पठेच्छक्तिभोगान्ते जप्त्वा मूलं दशांशतः ॥ १७२॥ (९१) तस्य तत्र शयानस्य देवी दर्शनमेष्यति । यः पठेछून्यसदने मदिरानन्दनिर्भरः ॥ १७३॥ त्रिवारं दशधा जप्त्वा स भवेद्विभवास्पदम् । सर्पं दृष्ट्वा जपेन्मूलं पठेन्नामसहस्रकम् ॥ १७४॥ अष्टगन्धेन पुण्येन मातृकावेष्टितं लिखेत् । रक्ततन्तुनिबद्धं च लाक्षया परिवेष्टयेत् ॥ १७५॥ सौवर्णेनाथ संवेष्ट्य पञ्चगव्येन शोधयेत् । कुमारीपूजनं कृत्वा धारयेन्मूर्ध्नि वा भुजे ॥ १७६॥ योषिद्वामकरेवद्ध्वा पुरुषो दक्षिणे भुजे । रणे रिपून् जयेद्बीरो मघवत्तुल्पविक्रमान् ॥ १७७॥ जित्वा समस्तधरणीं सार्वभौमो भविष्यति । वन्धापि लभते पुत्रान् मृतवत्सा चिरायुषः ॥ १७८॥ काकवन्ध्या पूर्णगर्भा पुत्रं प्राप्नोति निश्चितम् । (९१) भौमवारे जपेद्विद्यां पठेन्नामसहस्रकम् ॥ १७९॥ (९२) भजेद्रामां रतां ते तु लभेत्कामान्यथेप्सितान् । सङ्क्रान्तौ भूमिकम्पे वा ग्रहणे चन्द्रसूर्ययोः ॥ १८०॥ त्रिवारं सधाको देवि पठेन्नामसहस्रकम् । धनवान् जयवांल्लोके भवेद्भैरव एव सः ॥ १८१॥ श्मशानेषु जपेद्विद्यां पठेत्कवचमुत्तमम् । मन्त्रनामसहस्रं च स्तोत्रं परमदुर्लभम् ॥ १८२॥ इहलोकेश्रियं भुक्त्वा परत्रेष्टं पदं लभेत् । इति पद्मावती देव्या मन्त्रनामसहस्रकम् ॥ १८३॥ रहस्यं सर्वसर्वस्वं सारात्सारोत्तमोत्तमम् । तत्त्वात्तत्त्वतमं गोप्यं तन्त्रयन्त्रालयं परम् ॥ १८४॥ अदातव्यं कुचैलाय निन्दकाय दुरात्मने । वीरलोकैकभ्रष्टाय वीरनिन्दापराय च ॥ १८५॥ गुरुभक्तिविहीनाय परशक्तिरताय च । अभक्ताय न दातव्यं न दातव्यं महेश्वरि ॥ १८६॥ (९२) देयं शिष्याय शान्ताय दीक्षिताय परात्मने । (९३) तस्य वित्तर्धिविभवे भोगमोक्षादि सिद्धयः ॥ १८७॥ इदं सारं हि तन्त्राणां मन्त्राणां मन्त्रतत्त्वकम् । पद्मावती प्रियतरं मन्त्रनामसहस्रकम् ॥ १८९॥ गुह्यं गोप्यतरं गोप्यं गुह्याद्गुह्यतमोत्तमम् । सर्वस्वं मे रहस्यं मे गोपनीयं स्वयोनिवत् ॥ १९०॥ इति श्रीदेवीयमले तन्त्रे उमामहेश्वरसंवादे षडाम्नायप्रदीपिकायां पद्मावतीसहस्रनामस्तोत्रं समाप्तम् ॥ The numbers in parenthesis correspond to the page numbers in the Padmavati panchanga manuscript. The sahasranama is on Shri Padmavati thAyAr of Tiruchanur, Tirupati, AP.