अक्षर आकार:

श्रीपद्मावतीसहस्रनामस्तोत्रम्

shrIpadmAvatIsahasranAmastotram

श्रीपद्मावतीसहस्रनामस्तोत्रम्

अथ पद्मावतीशतम् ।

प्रणम्य परया भक्त्या देव्याः पादाम्बुजां त्रिधा । नामान्यष्टसहस्राणि वक्तुं तद्भक्तिहेतवे ॥ १॥ श्रीपार्श्वनाथचरणाम्बुजचञ्चरीका भव्यान्धनेत्रविमलीकरणे शलाका । नार्गेद्रप्राणधरणीधरधारणाभृत् मां पातु सा भगवती नितरामघेभ्यः ॥ २॥ पद्मावती पद्मवर्णा पद्महस्तापि पद्मनी । पद्मासना पद्मकर्णा पद्मास्या पद्मलोचना ॥ ३॥ पद्मा पद्मदलाक्षी च पद्मी पद्मवनस्थिता । पद्मालया पद्मगन्धा पद्मरागोपरागिका ॥ ४॥ पद्मप्रिया पद्मनाभिः पद्माङ्गा पद्मशायिनी । पद्मवर्णवती पूता पवित्रा पापनाशिनी ॥ ५॥ प्रभावती प्रसिद्धा च पार्वती पुरवासिनी । प्रज्ञा प्रह्लादिनी प्रीतिः पीताभा परमेश्वरी ॥ ६॥ पातालवासिनी पूर्णा पद्मयोनिः प्रियंवदा । प्रदीप्ता पाशहस्ता च परा पारा परंपरा ॥ ७॥ पिङ्गला परमा पूरा पिङ्गा प्राची प्रतीचिका । परकार्यकरा पृथ्वी पार्थिवी पृथिवी पवी ॥ ८॥ पल्लवा पानदा पात्रा पवित्राङ्गी च पूतना । प्रभा पताकिनी पीता पन्नगाधिपशेखरा ॥ ९॥ पताका पद्मकटिनी पतिमान्यपराक्रमा । पदाम्बुजधरा पुष्टिः परमागमबोधिनी ॥ १०॥ परमात्मा परानन्दा परमा पात्रपोषिणी । पञ्चबाणगतिः पौत्रि पाषण्डघ्नी पितामही ॥ ११॥ प्रहेलिकापि प्रत्यञ्चा पृथुपापौघनाशिनी । पूर्णचन्द्रमुखी पुण्या पुलोमा पूर्णिमा तथा ॥ १२॥ पावनी परमानन्दा पण्डिता पण्डितेडिता । प्रांशुलभ्या प्रमेया च प्रभा प्राकारवर्तिनी ॥ १३॥ प्रधाना प्रार्थिता प्रार्थ्या पददा पङ्क्तिवर्जिनी । पातालास्येश्वरप्राणप्रेयसी प्रणमामि ताम् ॥ १४॥ इति पद्मावतीशतम् ॥ १॥

अथ महाज्योतिशतम् ।

महाज्योतिर्मती माता महामाया महासती । महादीप्तिमती मित्रा महाचण्डी च मङ्गला ॥ १॥ महीषी मानुषी मेघा महालक्ष्मीर्मनोहरा । महाप्रहारनिम्नाङ्गा मानिनी मानशालिनी ॥ २॥ मार्गदात्री मुहूर्ता च माध्वी मधुमती मही । माहेश्वरी महेज्या च मुक्ताहारविभूषणा ॥ ३॥ महामुद्रा मनोज्ञा च महाश्वेतातिमोहिनी । मधुप्रिया मतिर्माय मोहिनी च मनस्विनी ॥ ४॥ माहिष्मती महावेगा मानदा मानहारिणी । महाप्रभा च मदना मन्त्रवश्या मुनिप्रिया ॥ ५॥ मन्त्ररूपा च मन्त्राज्ञा मन्त्रदा मन्त्रसागरा । मधुप्रिया महाकाया महाशीला महाभुजा ॥ ६॥ महासना महारम्या मनोभेदा महासमा । महाकान्तिधरा मुक्तिर्महाव्रतसहायिनी ॥ ७॥ मधुश्रवा मूर्छना च मृगाक्षी च मृगावती । मृणालिनी मनःपुष्टिर्महाशक्तिर्महार्थदा ॥ ८॥ मूलाधारा मृडानी च मत्तमातङ्गगामिनी । मन्दाकिनी महाविद्या मर्यादा मेघमालिनी ॥ ९॥ मातामही मन्दगतिः महाकेशी महीधरा । var मन्दवेगा मन्दगतिः महाशोका महोत्साहा महादेवी महिला मानवर्द्धिनी ॥ १०॥ महाग्रहहरा मारी मोक्षमार्गप्रकाशिनी । मान्या मानवती मानि मणिनूपुरशेखरा ॥ ११॥ var शोभिनी मणिकाञ्चीधरा माना महामतिप्रकाशिनी । ईडेश्वरी दिज्येच्छेखे खेन्द्राणी कालरूपिणी ॥ १२॥ इति महाज्योतिर्मतिशतम् ॥ २॥

अथ जिनमाताशतम् ।

जिनमाता जिनेन्द्रा च जयन्ती जगदीश्वरी । जया जयवती जाया जननी जनपालिनी ॥ १॥ जगन्माता जगन्माया जगज्जैत्री जगज्जिता । जागरा जर्जरा जैत्री यमुनाजलभासिनी ॥ २॥ योगिनी योगमूला च जगद्धात्री जलन्धरा । योगपट्टधरा ज्वाला ज्योतिरूपा च जालिनी ॥ ३॥ ज्वालामुखी ज्वालमाला ज्वालनी च जगद्धिता । जैनेश्वरी जिनाधारा जीवनी यशपालिनी ॥ ४॥ यशोदा ज्यायसी जीर्णा जर्जरा ज्वरनाशिनी । ज्वररूपा जरा जीर्णा जाङ्गुलाऽऽमयतर्जिनी ॥ ५॥ युगभारा जगन्मित्रा यन्त्रिणी जन्मभूषिणी । योगेश्वरी च योर्गङ्गा योगयुक्ता युगादिजा ॥ ६॥ यथार्थवादिनी जाम्बूनदकान्तिधरा जया । नारायणी नर्मदा च निमेषा नर्त्तिनी नरी ॥ ७॥ नीलानन्ता निराकारा निराधारा निराश्रया । नृपवश्या निरामान्या निःसङ्गा नृपनन्दिनी ॥ ८॥ नृपधर्ममयी नीतिः तोतला नरपालिनी । नन्दा नन्दिवती निष्टा नीरदा नागवल्लभा ॥ ९॥ नृत्यप्रिया नन्दिनी च नित्या नेका निरामिषा। । नागपाशधरा नोका निःकलङ्का निरागसा ॥ १०॥ नागवल्ली नागकन्या नागिनी नागकुण्डली । निद्रा च नागदमनी नेत्रा नाराचवर्षिणी ॥ ११॥ निर्विकारा च निर्वैरा नागनाथेशवल्लभा । निर्लोभा च नमस्तुभ्यं नित्यानन्दविधायिनी ॥ १२॥ इति जिनमाताशतम् ॥ ३॥

अथ वज्रहस्ताशतम् ।

वज्रहस्ता च वरदा वज्रशैला वरूथिनी । वज्रा वज्रायुधा वाणी विजया विश्वव्यापिनी ॥ १॥ वसुदा बलदा वीरा विषया विषवर्द्धिनी । वसुन्धरा वरा विश्वा वर्णिनी वायुगामिनी ॥ २॥ बहुवर्णा बीजवती विद्या बुद्धिमती विभा । वेद्या वामवती वामा विनिद्रा वंशभूषणा ॥ ३॥ वरारोहा विशोका च वेदरूपा विभूषणा । विशाला वारुणीकल्पा बालिका बालकप्रिया ॥ ४॥ वर्तिनी विषहा बाला विवक्ता वनजासिनी । वन्द्या विधिसुता बाला विश्वयोनिर्बुधप्रिया ॥ ५॥ बलदा वीरमाता च वसुधा वीरनन्दिनी । वरायुधधरा वेषी वारिदा बलशालिनी ॥ ६॥ बुधमाता वैद्यमाता बन्धुरा बन्धुरूपिणी । विद्यावती विशालाक्षी वेदमाता विभास्वरी ॥ ७॥ वात्याली विषमा वेषा वेदवेदाङ्गधारिणी । वेदमार्गरता व्यक्ता विलोमा वेदशालिनी ॥ ८॥ विश्वमाता विकम्पा च वंशज्ञा विश्वदीपिका । वसन्तरूपिणी वर्षा विमला विविधायुधा ॥ ९॥ विज्ञाननी पवित्रा च विपञ्ची बन्धमोक्षिणी । विषरूपवती वर्द्धा विनीता विशिखा विभा ॥ १०॥ व्यालिनी व्याललीला च व्याप्ता व्याधिविनाशिनी । विमोहा बाणसन्दोहा वर्द्धिनी वर्द्धमानका ॥ ११॥ ईशानी तोतरा भिद्रा वरदायी नमोऽस्तु ते । व्यालेश्वरी प्रियप्राणा प्रेयसी वसुदायिनी ॥ १२॥ इति वज्रहस्ताशतम् ॥ ४॥

अथ कामदाशतम् ।

कामदा कमला काम्या कामाङ्गा कामसाधिनी । कलावती कलापूर्णा कलाधारी कनीयसी ॥ १॥ कामिनी कमनीयाङ्गा क्वणत्काञ्चनसन्निभा । कात्यायिनी कान्तिदा च कमला कामरूपिणी ॥ २॥ कामिनी कमलामोदा कम्रा कान्तिकरी प्रिया । कायस्था कालिका काली कुमारी कालरूपिणी ॥ ३॥ कालाकारा कामधेनुः काशी कमललोचना । कुन्तला कनकाभा च काश्मीरा कुङ्कुमप्रिया ॥ ४॥ कृपावती कुण्डलनी कुण्डलाकारशायिनी । कर्कशा कोमला काली कौलिकी कुलवालिका ॥ ५॥ कालचक्रधरा कल्पा कालिका काव्यकारिका । कविप्रिया च कौशाम्बी कारिणी कोशवर्द्धिनी ॥ ६॥ कुशावती किरालाभा कोशस्था कान्तिबद्धनी । कादम्बरी कठोरस्था कौशाम्बा कोशवासिनी ॥ ७॥म् कालघ्नी कालहननी कुमारजनती कृतिः । कैवल्यदायिनी केका कर्महा कलवर्जिनी ॥ ८॥ कलङ्करहिता कन्या कारुण्यालयवासिनी । कर्पूरामोदनिःश्वासा कामवीजवती करा ॥ ९॥ कुलीना कुन्दपुष्पाभा कुर्कुटोरगवाहिनी । कलिप्रिया कामबाणा कमठोपरिशायिनी ॥ १०॥ कठोरा कठिना क्रूरा कन्दला कदलीप्रिया । क्रोधनी क्रोधरूपा च चक्रहूंकारवर्तिनी ॥ ११॥ काम्बोजिनी काण्डरूपा कोदण्डकरधारिणी । कुहू क्रीडवती क्रीडा कुमारानन्ददायिनी ॥ १२॥ कमलासना केतकी च केतुरूपा कुतूहला । कोपिनी कोपरूपा च कुसुमावासवासिनी ॥ १३॥ इति कामदाशतम् ॥ ५॥

अथ सरस्वतीशतम् ।

सरस्वती शरण्या च सहस्राक्षी सरोजगा । शिवा सती सुधारूपा शिवमाया सुता शुभा ॥ १॥ सुमेधा सुमुखी शान्ता सावित्री सायगामिनी । सुरोत्तमा सुवर्णा च श्रीरूपा शास्त्रशालिनी ॥ २॥ शान्ता सुलोचना साध्वी सिद्धा साध्या सुधात्मिका । सारदा सरला सारा सुवेषा जशवर्द्विनी ॥ ३॥ शङ्करी शमिता शुद्धा शक्रमान्या शिवङ्करी । शुद्धाहाररता श्यामा शीमा शीलवती शरा ॥ ४॥ शीतला सुभगा सर्वा सुकेशी शैलवासीनी । शालिनी साक्षिणी सीता सुभिक्षा शियप्रेयसी ॥ ५॥ सुवर्णा शोणवर्णा च सुन्दरी सुरसुन्दरी । शक्तिस्तुषा सारिका च सेव्या श्रीः सुजनार्चिता ॥ ६॥ शिवदूती श्वेतवर्णा शुभ्राभा शुभनाशिकी । सिंहिका सकला शोभा स्वामिनी शिवपोषिणी ॥ ७॥ श्रेयस्करी श्रेयसी च शौरिः सौदामिनी शुचिः । सौभागिनी शोषिणी च सुगन्धा सुमनःप्रिया ॥ ८॥ सौरमेयी सुसुरभी श्वेतातपत्रधारिणी । श‍ृङ्गारिणी सत्यवक्ता सिद्धार्था शीलभूषणा ॥ ९॥ सत्यार्थिनी च सध्याभा शची संक्रान्तिसिद्धिदा । संहारकारिणी सिंही सप्तर्चिः सफलार्थदा ॥ १०॥ सत्या सिन्दूरवर्णाभा सिन्दूरतिलकप्रिया । सारङ्गा सुतरा तुभ्यं ते नमोऽस्तु सुयोगिनी ॥ ११॥ इति सरस्वतीशतम् ॥ ६॥

अथ भुवनेश्वरीशतम् ।

भुवनेश्वरी भूषणा च भुवना भूमिपप्रिया । भूमिगर्भा भूपवद्या भुजङ्गेशप्रिया भगा ॥ १॥ भुजङ्गभूषणाभोगाः भुजङ्गाकारशायिनी । भवभितिहरा भीमा भूमिर्भीमाट्टहासिनी ॥ २॥ भारती भवती भोगा भगनी भोगमन्दिरा । भद्रिका भद्ररूपा च भूतात्मा भूतभञ्जिनी ॥ ३॥ भवानी भैरवी भीमा भामिनी भ्रमनाशिनी । भुजङ्गिनी भ्रुसुण्डी च मेदिनी भूमिभूषणा ॥ ४॥ भिन्ना भाग्यवती भासा भोगिनी भोगवल्लभा । भुक्तिदा भक्तिग्राहा च भवसागरतारिणी ॥ ५॥ भास्वती भास्वरा भूर्तिर्भूतिदा भूतिवर्द्धिनी । भाग्यदा भोग्यदा भोग्या भाविनी भवनाशिनी ॥ ६॥ भीक्ष्णा भट्टारका भीरूर्भ्रामरी भ्रमरी भवा । भट्टिनी भाण्डदा भाण्डा भल्लाकी भूरिभञ्जिनी ॥ ७॥ भूमिगा भूमिदा भाषा भक्षिणी भृगुभञ्जिनी । भाराक्रान्ताभिनन्दा च भजिनी भूमिपालिनी ॥ ८॥ भद्रा भगवती भर्गा वत्सला भगशालिनी । खेचरी खड्गहस्ता च खण्डिनी खलमर्द्दिनी ॥ ९॥ खट्वाङ्गधारिणी खड्वा खडङ्गा खगवाहिनी । षट्चक्रभेदविख्याता खगपूज्या स्वगेश्वरी ॥ १०॥ लाङ्गली ललना लेखा लेखिनी ललना लता । लक्ष्मीर्लक्ष्मवति लक्ष्म्या लाभदा लोभवर्जिता ॥ ११॥ इति भुवनेश्वरीशतम् ॥ ७॥

अथ लीलावतीशतम् ।

लीलावती ललामाभा लोहमुद्रा लिपिप्रिया । लोकेश्वरी च लोकाङ्गा लब्धिर्लोकान्तपालिनी ॥ १॥ लीला लीलाङ्गदा लोला लावण्या ललितार्थिनी । लोभदा लावनिर्लङ्का लक्षणा लक्ष्यवर्जिता ॥ २॥ उर्मोवसी उदीची च उद्योतोद्योतकारिणी । उद्धारण्या धरोदक्यो दिव्योदकनिवासिनी ॥ ३॥ उदाहारोत्तमातंसा औषध्युदधितारणी । उत्तरोत्तरवादिभ्यो धराधरनिवासिनी ॥ ४॥ उत्कीलन्त्युत्कीलिनी च उत्कीर्णोकाररूपिणि । ॐकाराकाररूपा च अम्बिकाऽम्बरचारिणी ॥ ५॥ अमोघा सा पुरी चान्ताऽणिमादिगुणसंयुता । अनादिनिधनाऽनन्ता चातुलाटाऽट्टहासिनी ॥ ६॥ अपणार्द्धबिन्दुधरा लोकालल्यालिवाङ्गना । आनन्दानन्ददा लोका राष्ट्रसिद्धिप्रदानका ॥ ७॥ अव्यक्तास्त्रमयी मूर्तिरजीर्णा जीणहारिणी । अहिकृत्य रजाजारा हुंकाररातिरन्तिदा ॥ ८॥ अनुरूपाथ मूत्तिघ्नी क्रीडा कैरवपालिनी । अनोकहाशुगा भेद्या छेद्या चाकाशगामिनी ॥ ९॥ अनन्तरा साधिकारा त्वाङ्गा अनन्तरनाशिनी । अलका यवना लङ्घ्या सीता शिखरधारिणी ॥ १०॥ अहिनाथप्रियप्राणा नमस्तुभ्यं महेश्वरी । आकर्षण्याधरा रागा मन्दा मोदावधारिणी ॥ ११॥ इति लीलावतीशतम् ॥ ८॥।

अथ त्रिनेत्राशतम् ।

त्रिनेत्रा त्र्यम्बिका तन्त्री त्रिपुरा त्रिपुरभैरवी । त्रिपुष्टा त्रिफणा तारा तोतला त्वरिता तुला ॥ १॥ तपप्रिया तापसी च तपोनिष्ठा तपस्विनी । त्रैलोक्यदीपका त्रेधा त्रिसन्ध्या त्रिपदाश्रया ॥ २॥ त्रिरूपा त्रिपदा त्राणा तारा त्रिपुरसुन्दरी । त्रिलोचना त्रिपथगा तारा मानविमर्दिनी ॥ ३॥ धर्मप्रिया धर्मदा च धर्मिणी धर्मपालिनी । धाराधरधराधारा धात्री धर्माङ्गपालिनी ॥ ४॥ धौता धृतिधुरा धीरा धुनुनी च धनुर्द्धरा । ब्रह्माणी ब्रह्मगोत्रा च ब्राह्मणी ब्रह्मपालिनी ॥ ५॥ गङ्गा गोदावरी गौगा गायत्री गणपालिनी । गोचरी गोमती गुर्वाऽगाधा गान्धारिणी गुहा ॥ ६॥ ब्राह्मी विद्युत्प्रभा वीरा वीणावासवपूजिता । गीताप्रिया गर्भधारा गा गायिनी गजगामिनी ॥ ७॥ गरीयसी गुणोपेता गरिष्ठा गरमर्दिनी । गम्भीरा गुरुरूपा च गीता गर्वापहारिणी ॥ ८॥ ग्रहिणी ग्राहिणी गौरी गन्धारी गन्धवासना । गारुडी गासिनी गूढा गौहनी गुणहायिनी ॥ ९॥ चक्रमध्या चक्रधरा चित्रणी चित्ररूपिणी । चर्चरी चतुरा चित्रा चित्रमाया चतुर्भुजा ॥ १०॥ चन्द्राभा चन्द्रवर्णा च चक्रिणी चक्रधारिणी । चक्रायुधा करधरा चण्डी चण्डपराक्रमा ॥ ११॥ इति त्रिनेत्राशतम् ॥ ९॥

अथ चक्रेश्वरीशतम् ।

चक्रेश्वरी चमूश्चिन्ता चापिनी चञ्चलात्मिका । चन्द्रलेखा चन्द्रभागा चन्द्रिका चन्द्रमण्डला ॥ १॥ चन्द्रकान्तिश्चन्द्रमश्रीश्चन्द्रमण्डलवर्तिनी । चतु समुद्रपारान्ता चतुराश्रमवासिनी ॥ २॥ चतुर्मुखी चन्द्रमुखी चतुर्वर्णफलप्रदा । चित्स्वरूपा चिदानन्दा चिराश्चिन्तामणिः पिता ॥ ३॥ चन्द्रहासा च चामुण्डा चिन्तना चौरवर्जिनी । चैत्यप्रिया चत्यलीला चिन्तनार्थफलप्रदा ॥ ४॥ ह्रींरूपा हंसगमनी हाकिनी हिङ्गुलाहीता । हालाहलधरा हारा हंसवर्णा च हर्षदा ॥ ५॥ हिमानी हरिता हीरा हर्षिणी हरिमर्दिनी । गोपिनी गौरगीता च दुर्गा दुर्ललिता धरा ॥ ६॥ दामिनी दीर्धिका दुग्धा दुर्गमा दुर्लभोदया । द्वारिका दक्षिणा दीक्षा दक्षा दक्षातिपूजिता ॥ ७॥ दमयन्ती दानवती द्युतिदीप्ता दिवागतिः । दरिद्रहा वैरिदूरा दारा दुर्गातिनाशिनी ॥ ८॥ दर्पहा दैत्यदासा च दर्शिनी दर्शनप्रिया । वृषप्रिया च वृषभा वृषारूढा प्रबोधिनी ॥ ९॥ सूक्ष्मा सूक्ष्मगतिः श्लक्ष्णा धनमाला धनद्यूति । छाया छात्रच्छविच्छिरक्षीरादा क्षेत्ररक्षिणी ॥ १०॥ अमरी रतिरात्रीश्च रङ्गिनी रतिदा रुषा । स्थूला स्थूलतरा स्थूला स्थण्डिलाशयवासिनी ॥ ११॥ स्थिरा स्थानवती देवी घनघोरनिनादिनी । क्षेमङ्करी क्षेमवती क्षेमदा क्षेमवर्द्धिनी ॥ १२॥ शेलूषरूपिणो शिष्टा संसारार्णवतारिणी । सदा सहायिनी तुभ्यं नमस्तुभ्यं महेश्वरी ॥ १३॥ इती चक्रेश्वरीशतम् ॥ १०॥

फलश्रुतिः

नित्यं पुमान् पठति यो नितरां त्रिशुद्ध्या शौचं विधाय विमलं फणिशेखरायाः । स्तोत्रं द्युनाथ उदिते सुसहस्रनाम चाष्टोत्तरं भवति सो भवनाधिराजः ॥ १॥ तत्कालजातवरगोमयलिप्तभूमौ कुर्याद् दृढासनमतीन्द्रियपद्मकाख्यम् । धूपं विधाय वरगुग्गुलुमाज्ययुक्तं रक्ताम्बरं वपुषि भूप्य मनः प्रशस्तः ॥ २॥ न तस्य रात्रौ भयमस्ति किञ्चिन्न शोकरोगोद्भवदुःखजालम् । न राजपीडा न च दुर्जनस्य पद्मावतीस्तोत्र निशम्यतां वे ॥ ३॥ न बन्धनं तस्य न वह्निजातं भयं न चारेर्नृपतोऽपि किञ्चित् । न मत्तनागस्य न केशरीभयं यो नित्यपाठी स्तवनस्व पद्मे! ॥ ४॥ न सङ्गरे शस्त्रचयाभिघातः न व्याघ्रभीतिर्भुवि भीतिभीतिः । पिशाचिनीनां न च डाकिनीनां स्तोत्रं रमायाः पठतीति यो वं ॥ ५॥ न राक्षसानां न च शाकिनीनां न चापदा नैव दरिद्रता च । न चास्य मृत्योर्भयमस्ति किञ्चित् पद्मावतीस्तोत्र निशम्यतां वै ॥ ६॥ स्नानं विधाय विधिवद् भुवि पार्श्वभर्तुः पूजां करोति शुचिद्रव्यचयैर्विधिज्ञः । पद्मावती फलति तस्य मनोऽभिलाषं नानाविधं भवभवं सुखसारभूतम् ॥ ७॥ सुपूर्वाह्णमध्याह्नसन्ध्यासु पाठं तथैवावकाशं भवेदेकचित्तः । भवेत्तस्य लाभार्थं आदित्यवारे करोतीह भक्तिं सदा पार्श्वभर्तुः ॥ ८॥ शुभापत्यलक्ष्मीर्नु वाजीन्द्रयूथा गृहे तस्य नित्यं सदा सञ्चरन्ति नवीनाङ्गनानां गणास्तस्य नित्यं शिवायाः सुनामावलिर्यस्य चित्ते ॥ ९॥ ममाल्पबुद्ध्या स्तवनं विधाय var ममाल्पवद्धेः करोमि भक्तिं फणिशेस्वरायाः । यदर्थमन्त्राक्षरव्यञ्जनच्युतं विशोधनीयं कृपया हि सद्भिः ॥ १०॥ भो देवि! भो मात! ममापराधं संक्षम्यति तत्स्तवनाभिधाने । माता यथापत्यकृतापराधं संक्षम्यति प्रीत्यपलायनैक्यम् ॥ ११॥ ॥ इति श्रीभैरवपद्मावतीकल्पे पद्मावतीसहस्रनामस्तोत्रं सम्पूर्णम् ॥ जपं (१) ॐ ह्रीं श्रीं क्ळीं ब्लैं कलिकुण्डस्वामिन्! सिद्धिथ्भियं जगद् वश्यमानय आनय स्वाहा ॥ १०८॥ (२) ॐ ह्रीं ऐं श्रीं श्रीगौतमगणराजाय स्वाहा ॥ लक्ष १॥ (३) क्व नमो चालिदेवि! पद्मावति! आकृष्टिकरणि! कामचारि, मोहचारि, अबोलु वोलावि, अदयनुं दिवारि, आणि पासि घालि दासु ॐ फट् स्वाहा । जाप २४ सहस्रं । प्रत्यहं १०८ जपनीयम् । वश्यम् ॥ (४) ओं आं ऐं क्रों ह्रीं हसरूपे! सर्ववश्ये! श्रीं सोहं पद्मावत्यै ह्रीं नमः प० । जापोऽयं दीपोत्सवे । घृरतदीपोऽखण्डः रक्षणीयः । दिन ३ जाप २५ सहस्र कीजे । त० १२ सहस्र कीजे । पचामुत होम । सर्वार्थसिद्धि । नित्यपाठ २१ ॥ ॥ शुभं भवतु ॥