अक्षर आकार:

पद्मावतीनक्षत्रनामावलिः

padmAvatInakShatranAmAvaliH

पद्मावतीनक्षत्रनामावलिः

ॐ श्रीगणेशाय नमः ॥ श्रीपद्मावति तायार् नक्षत्रनामावलिः ॥ ॐ श्रियै नमः । ॐ लोकदात्रे नमः । ॐ ब्रह्ममात्रे नमः । ॐ पद्मनेत्रायै नमः । ॐ पद्ममुख्यै नमः । ॐ प्रसन्नमुखपद्मायै नमः । ॐ पद्मकान्त्यै नमः । ॐ बिल्ववनस्थायै नमः । ॐ विष्णुपत्न्यै नमः । ॐ विचित्रक्षोभधारिण्यै नमः । ॐ पृथुश्रोण्यै नमः । ॐ पक्वविल्वफलादीनतुङ्गस्तन्यै नमः । ॐ सुरक्तपद्मपत्राभकरपादतलायै नमः । ॐ शुभायै नमः । ॐ सुरत्नाङ्गदकेयूरकाञ्चीनूपुरशोभितायै नमः । ॐ यक्षकर्दमसंलिप्तसर्वाङ्गायै नमः । ॐ कटकोज्ज्वलायै नमः । ॐ माङ्गल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषितायै नमः । ॐ ताटङ्गैरवतम्सशोभमानमुखाम्बुजायै नमः । ॐ पद्महस्तायै नमः । ॐ हरिवल्लभायै नमः । ॐ ऋग्यजुस्सामरूपायै नमः । ॐ विद्यायै नमः । ॐ अब्धिदायै नमः । ॐ श्रीमहालक्ष्म्यै नमः । ॐ श्रीपद्मावत्यै नमः । ॐ श्रीं श्रीं श्रीं श्रियै नमः । २७ नानाविधपरिमलपत्रपुष्पाणि समर्पयामि ॥ इति पद्मावति तायार् नक्षत्रनामावलिः सम्पूर्णा ।