अक्षर आकार:

श्रीपद्मावतीकवचम् २

Shri Padmavatikavacham 2

श्रीपद्मावतीकवचम् २

भगवन् ! सर्वमाख्यातं मन्त्रं यन्त्रं शुभप्रदम् । पद्मायाः कवचं ब्रूहि यद्यहं तव वल्लभः ॥ १॥ महागोप्यं महागुह्यं पद्मायाः सर्वकामदम् । कवचं मोहनं देवि ! गुरुभक्ताय दीयते ॥ २॥ राज्ये देयं च सर्वस्वं कवचं न प्रकाशयेत् । गुरुभक्ताय दातव्यमन्यथा सिद्धिदं न हि ॥ ३॥ ऐं बीजम् । क्लीँ शक्तिः । ह्सौँ कीलकम् । पद्मावतीप्रीत्यर्थ जपे विनियोगः । ॐ परब्रह्मणे नमः शिरसि । अनुष्टुप्छन्दो यो नमः मुखे । श्रीपद्मावतीशक्तिदेवतायै नमः हृदये । आं बीजाय नम कण्ठे । ह्रीं शक्तये नमः गुह्ये । क्रौँ कीलकाय नमः पादयोः । श्रीपद्मावतीकवचसिद्ध्यर्थं जपे विनियोगः ॥ ॐ पद्मा बीजं शिरः पातु ललाटं पञ्चमी परा । नेत्रे कामप्रदा पातु मुखं भुवनसुन्दरी ॥ ४॥ नाशिकां नागनाथश्च जिह्वां वागीश्वरी तथा । श्रुतिरूपा जगद्धात्री करौ हृथिमवासिनी ॥ ५॥ उदरं मोहदमनी कुण्डली नाभिमण्डलम् । पार्श्व पृष्ठं कटिं गुह्यं शक्तिस्थाननिवासिनी ॥ ६॥ ऊरू जङ्घे तथा पादौ सर्वविघ्नविनाशिनी । रक्ष रक्ष महामाये पद्मे ! पद्मालये शिवे ॥ ७॥ वाञ्छितं पूरयत्याशु पद्मा सा पात सर्वतः । भवद तु कवचं ढेगृया यो जानाति स मन्त्रवित ॥ ८॥ राजद्वारे श्मशाने च भूतप्रेतोपचारके । बन्धने च महादुःखे भये शत्रुसमागमे ॥ ९॥ स्मरणात्कवचस्याम्य भयं किञ्चिन्न जायने । प्रयोगमुपचार च पद्मायाः कर्तुमिच्छति ॥ १०॥ कवचं प्रपठेदादौ ततः सिद्धिमवानुप्नुयात् । भूर्यपत्रे लिखित्वा तु कवचं यस्तु धारयेत् ॥ ११॥ देहे च यत्र कुत्रापि सर्वसिद्धिर्भवेद ध्रुवम् । शस्त्राग्निजं भयं नेव भूतादिभयनाशनम् ॥ १२॥ गुरुभक्तिं समासाद्य पद्मायाः स्तवनं कुरु । सहस्रनामपठने कवचं प्रथमं कुरु ॥ १३॥ नन्दिना कथितं देवि ! तवाग्रे तत्प्रकाशितम् । साङ्गता जायते देवि ! नान्यथा गिरिनन्दिनी ॥ १४॥ इद कवचमज्ञात्वा पद्मायाः स्तौति यो नर । कल्पकोटीशतेनापि न भवेत्सिद्धिदायिनी ॥ १५॥ इति श्रीपद्मावतीकवचं सम्पूर्णम् ।