अक्षर आकार:

पद्मावतीकवचम्

Padmavati Kavacham

पद्मावतीकवचम्

श्रीगणेशाय नमः । श्रीभैरव उवाच । अधुना कवचं दिव्यं मन्त्रगर्भं वराभयम् । वक्ष्ये पार्वति भक्ताते वज्रपञ्जरकाभिधम् ॥ १॥ गुह्यं च परमं गुह्यं सर्वस्वं मे रहस्यकम् । सर्वमन्त्रमयं तत्त्वं देवी पद्मावती प्रियम् ॥ २॥ विनाज्ञानेन सिद्धिः स्यात्कवचेन्द्रेण पार्वति । मन्त्रस्यास्य महादेव्या नाख्येयं यत्रकुत्रचित् ॥ ३॥ अस्य धारणमात्रेण भैरवोऽहं शिवोऽस्म्यहम् । विष्णुर्नारायणो लोके ब्रह्मलोक पितामहः ॥ ४॥ इन्द्रो दिवस्पतिर्देवि गुरुर्वागीशताङ्गतः । शुक्रो दैत्यगुरुर्देवि यः पठेद्श्रावयेदपि ॥ ५॥ धारयेन्मूर्ध्नि वा बाहौ सभवेद्भोगमोक्षभाक् । कवचस्यास्य देवेशि सदाशिव ऋषिरुढतः ॥ ६॥ त्रिष्टुप छन्द इतिख्यातं देवी पद्मावती स्मृता । रमाबीजं पराशक्तिः कामः कीलकमीश्वरि ॥ ७॥ भोगापवर्ग सिध्यर्थं धारयेविनियोगकः । ॐ अस्य श्रीपद्मावतीवज्रपञ्जरकवचस्य श्रीसदाशिवऋषिः त्रिष्टुपछन्दः श्रीसर्वज्ञेश्वरसहिता श्रीपद्मावतीदेवता श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकं श्रीभोगापवर्गसिद्ध्यर्थं कवचेपाठेधारणे विनियोगः ॥ ॐ ह्रीं श्रीं मे शिरः पातु राज्यलक्ष्मीः शिवप्रिया । क्लीं ब्लूं फट् पातु नेत्रे महालक्ष्मीर्हरिप्रिया ॥ ८॥ ॐ ऐं क्लीं मे श्रुती पातु सिद्धलक्ष्मी शिवासना । दयावती पातु नासां पातु सत्यवती मुखम् ॥ ९॥ कण्ठं यशोवती पातु स्कन्धौपात्वमरावती । प्रभावती भुजौ पातु पायाद्वनवती करौ ॥ १०॥ वक्षः क्रियावती पातु स्तनौ पातुमरावती । कुक्षिं मे कमला पातु नाभिं मे विमलावतु ॥ ११॥ पार्श्वौममावृतान्माला विशालाक्षीं कटिं मम । पृष्ठं कपालिनी पातु लिङ्गं मेऽवतु मालिनी ॥ १२॥ हारिणी पातु मे मेढ्रे गुदं हालाचतान्मम । ममोरू बालिका पातु जानू मे कोमलावतु ॥ १३॥ बलाममावताज्जङ्घे गुल्फौ सेव्याद्बलाकिनी । पादौ मे शाकिनी पातु लाकिनी नखरान्मम ॥ १४॥ पादादिमूर्धपर्यन्तं डाकिनी पातु मेवपुः । शिरसः पादपर्यन्तं खेचरी सकलं वपुः ॥ १५॥ पूर्वे मां पातु ब्रह्माणी वह्नौ नारायणी च माम् । पश्चिमे पातु मां नित्यं मङ्गलाख्यापराजिता ॥ १६॥ वायव्ये पातु कौमारी वाराहीचोत्तरेऽवतु । ऐशान्यां नारसिंही मां पातु सर्वत्र सर्वदा ॥ १७॥ असिताङ्गः प्रभातेव्यान्मध्यान्हे रुरुभैरवः । निशान्तेऽवतुसोन्मत्तः सर्वदामां कपालकः ॥ १८॥ रात्रिर्दिनं भीषणेशः संहारः सर्वतोऽवतु । सर्वतः सर्वदा सत्यं रणे राजभयादिषु ॥ १९॥ पातु मां सकलत्रं च देवी पद्मावती परा । इन्द्रोमे कमलां पातु पातु वन्हि भयाच्चमाम् ॥ २०॥ धर्मराजोऽवताद्वर्मं रक्षोभीतिषुनिन्दतिः । वरुणः सलिला पातु कल्पान्तपवनान्मरुत् ॥ २१॥ धनं धनपतिः पायादैश्वर्य परमेश्वरः । ऊर्ध्वं ब्रह्मा सदा पायादधोनारायणोऽवतुः ॥ २२॥ सर्वतः सकलं सेव्यात्सवज्ञेश्वरभैरवः । ॐ ॐ ॐ वं वं ॐ विषाद्विषधरात्पद्मावती पातुमाम् ॥ २३॥ ह्रीं ह्रीं ह्रीं ह ह हा ह्सौः हयगजन्त्रासात्परापातु माम् । श्रीं श्रीं श्रीं श श शा शशाङ्कमुकुटः सर्वज्ञनाथोऽवतु ॥ २४॥ क्लीं क्लीं क्लीं कलिपावतोरिपुभयान्नागेन्द्रभूनायकी । इतीदं कवचं दिव्यं वज्रपञ्जरकाभिधम् । सर्वमन्त्रमयं सिद्धं सर्वदेवीमयं परम् ॥ २५॥ सर्व सम्मोहनं वर्म सर्वासा परिपूरकम् । धनदं कीर्तिदं देवि सर्वसारस्वतप्रदम् ॥ २६॥ सर्वपूजारहस्यं च सर्वयज्ञफलप्रदम् । सर्वैश्वर्यप्रदं तत्त्वं सर्वमन्त्ररहस्यकम् ॥ २७॥ यः पठेत्पाठयेद्वापि श‍ृणोति श्रावयेदपि । सवाग्मीधनवांल्लोके विद्यया गुरूसन्निभः ॥ २८॥ ऐश्वर्येण महेशस्तु श्रियावैश्रवणोपमः । बलेन वायुःसदृशोनीत्या भार्गवसन्निभः ॥ २९॥ जयवान् रामसदृशो दययाविष्णुदेवसः । बहुनोक्तेन किं देवि यः पठेद्धारयेदिदम् ॥ ३०॥ इहलोके रिपूञ्जित्वा प्राप्नुयान्निश्चलां श्रियम् । रवौभूर्जे लिखेद्वर्म मूलमन्त्रमयं शिवे ॥ ३१॥ सयन्त्रं वाष्टगन्धेन मातृकाक्षरवेष्टितम् । श्वेतसूत्रेण संवेष्ट्य लाक्षयापरिवेष्टयेत् ॥ ३२॥ सौवर्णेनाथ संवेष्ट्य पूजयेद्यन्त्रराजवत् । धारयन् मूर्ध्निवाबाहौयोषिद्वामकरेतथा ॥ ३३॥ किं किं न साधयेद्वीरो भवेद्भैरवसन्निभः । वन्ध्याप्रसूयते पुत्रान् काकवन्ध्याचिरायुषः ॥ ३४॥ मृतवत्सापिदेवेशि लभेत्पुत्रकुलोत्तमान् । रणेरिपूञ्जयेद्वीरः शय्यराज्यमकण्टकम् ॥ ३५॥ भुक्त्वाभोगां लभेदन्ते परं भागवतं पदम् । इदं रहस्यमेशानि तवभक्त्यामयेरितम् ॥ ३६॥ अदातव्यमभक्ताय गोपनीयं स्वयोनिवत् । इति श्रीदेवीयामलतन्त्रे षडाम्नाय प्रदीपिकायां पद्मावतीकवचं सम्पूर्णम् ॥