अक्षर आकार:

पठितसिद्धसारस्वतस्तवः

paThitasiddhasArasvatastavaH

पठितसिद्धसारस्वतस्तवः

व्याप्तानन्तसमस्तलोकनिकरैङ्कारा समस्ता स्थिरा- याराध्या गुरुभिर्गुरोरपि गुरुदेवैस्तु या वन्द्यते । देवानामपि देवता वितरतात् वाग्देवता देवता स्वाहान्तः क्षिप ॐ यतः स्तवमुखं यस्याः स मन्त्रो वर ॥ १॥ ॐ ह्रीं श्रीप्रथमा प्रसिद्धमहिमा सन्तप्तचित्ते हि या सैं ऐं मध्यहिता जगत्त्रयहिता सर्वज्ञनाथाहिता । श्रीँ क्लीँ ब्लीँ चरमा गुणानुपरमा जायेत यस्या रमा विद्यैषा वषडिन्द्रगीःपतिकरी वाणीं स्तुवे तामहम् ॥ २॥ ॐ कर्णे ! वरकर्णभूषिततनुः कर्णेऽथ कर्णेश्वरी ह्रींस्वाहान्तपदां समस्तविपदां छेत्त्री पदं सम्पदाम् । संसारार्णवतारिणी विजयते विद्यावदाते शुभे यस्याः सा पदवी सदा शिवपुरे देवीवतंसीकृता ॥ ३॥ सर्वाचारविचारिणी प्रतरिणी नौर्वाग्भवाब्धौ नॄणां वीणावेणुवरक्वणातिसुभगा दुःखाद्रिविद्रावणी । सा वाणी प्रवणा महागुणगणा न्यायप्रवीणाऽमलं शेते यस्तरणी रणीषु निपुणा जैनी पुनातु ध्रुवम् ॥ ४॥ ॐ ह्रीं बीजमुखा विधूतविमुखा संसेविता सन्मुखा ऐं क्लीँ सौँ सहिता सुरेन्द्रमहिता विद्वज्जनेभ्यो हिता । विद्या विस्फुरति स्फुटं हितरतिर्यस्या विशुद्धा मतिः सा ब्राह्मी जिनवक्त्रवज्रललने लीना तु लीलानु माम् ॥ ५॥ ॐ अर्हन्मुखपद्मवासिनि शुभे ! ज्वालासहस्रांशुभे पापप्रक्षयकारिणि ! श्रुतधरे ! पापं दहत्या शुभे । क्षाँ क्षीँ क्षूँ वरबीजदुग्धवले ! वं वं वहं स्वावहा श्रीवाग्देव्यमृतोद्भवे ! यदि भवे मे मानसे सा भवे ॥ ६॥ हस्ते शर्मदपुस्तिकां विदधती सत्पात्रकं चापरं लोकानां सुखदं प्रभूतवरदं सज्ज्ञानमुद्रं परम् । तुभ्यं बालमृणालकन्दललसल्लीलाविलोलं करं प्रख्याता श्रुतदेवता विदधती सूक्ष्मं नृणां सूनृतम् ! ॥ ७॥ हंसो हंसोतिगर्वं वहति हि विधृता यन्मयैषा मयैषा यन्त्रं यन्त्रं यदेतत् स्फुटति सिततरां सैव यक्षावयक्षा । साध्वी साध्वी शिवार्या प्रविधृतभुवना दुर्धरा या धराया देवी देवीजनार्थ्या रमतु मम सदा मानसे मानसे सा ॥ ८॥ स्पष्टपाठं पठत्येतत् ध्यानेन पटुनाष्टकम् । अजस्रं यो जनस्तस्य भवनयुत्तमसम्पदः ॥ ९॥ ॥ इति साध्वीशिवार्याविरचितं पठितसिद्धसारस्वतस्तवः सम्पूर्णः ॥