अक्षर आकार:

श्रीपूर्णाष्टकम्

Shri Purnashtakam

श्रीपूर्णाष्टकम्

भगवति भवबन्धच्छेदिनि ब्रह्मवन्द्ये शशिमुखि रुचिपूर्णे भालचन्द्रेऽन्नपूर्णे । सकलदुरितहन्त्रि स्वर्गमोक्षादिदात्रि जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ १॥ तव गुणगरिमाणं वर्णितुं नैव शक्ता विधि-हरि-हरदेवा नैव लोका न वेदाः । कथमहमनभिज्ञो वागतीतां स्तुवीयां जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ २॥ भगवति वसुकामाः स्वर्गमोक्षादिकामा- दितिजसुर-मुनीन्द्रास्त्वां भजन्त्यम्ब सर्वे । तव पदयुगभक्तिं भिक्षुकस्त्वां नमामि जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ ३॥ यदवधि भवमातस्ते कृपा नास्ति जन्तौ तदवधि भवजालं कः समर्थो विहातुम् । भवकृतभयभीतस्त्वां शिवेऽहं प्रसन्नो जननि निटिलेनेत्रे देवि पूर्णे प्रसीद ॥ ४॥ सुरसुरपतिवन्द्ये कोटिरित्येकरम्ये निखिलभवनधन्ये कामदे कामदेहे । भवति भवपयोधस्तारिणीं त्वां नतोऽहं जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ ५॥ त्वमिह जगति पूर्णा त्वद्विहीनं न किञ्चिद् रजनि यदि विहीनं तत्स्वरूप तु मिथ्या । इति निगदति वेदो ब्रह्मभिन्नं न सत्यं जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ ६॥ स्वजनशरणदक्षे दक्षजे पूर्णकामे सुरहितकृतरूपे निर्विकल्पे निरीहे । श्रुतिसमुदयगीते सच्चिदानन्दरूपे जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ ७॥ भगवति तव पुर्यां त्वां समाराध्य याचे भवतु गणपमातभक्तितस्तेऽविरामः । त्वदितरजन आर्ये पूर्णकामो न पूर्णे जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ ८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य-श्रीमदुत्तराम्नायज्योतिष्पीठाधीश्वर- जगद्गुरुशङ्कराचार्य-स्वामिश्रीशान्तानन्दसरस्वतीशिष्य- स्वामिश्रीमदनन्तानन्द-सरस्वतीविरचितं श्रीपूर्णाष्टकं सम्पूर्णम् ।