अक्षर आकार:

पृथ्वीधरराजपुत्र्यष्टकम्

Prithvidhararajaputryashtakam

पृथ्वीधरराजपुत्र्यष्टकम्

ज्ञात्वापि दोषान्विषयेषु शब्दरसादिमेष्वप्रतिबद्धतर्षम् । आकारमात्रात्परहंसरूपं मां पाहि पृथ्वीधरराजपुत्रि ॥ १॥ विवेकवैराग्यशमादिषट्कमुमुक्षुतागन्धलवानभिज्ञम् । नक्तन्दिवं स्वोदरपूरणेच्छुं मां पाहि पुथ्वीधरराजपुत्रि ॥ २॥ काषायवस्त्रेण करात्तदण्डकमण्डलुभ्यां जपमालया च । विभ्रामयन्तं गृहिणां कदम्बं मां पाहि पृथ्वीधरराजपुत्रि ॥ ३॥ वेदान्तवाक्यानि मुधोच्चरन्तं तदर्थजातं बहु वर्णयन्तम् । कदापि न ध्यातपरात्मतत्त्वं मां पाहि पृथ्वीधरराजपुत्रि ॥ ४॥ सुवर्णतन्तूज्ज्वलचेलकामं यानेषु मानेषु विवृद्धरागम् । अङ्गीकृतानेकसुमित्रशत्रुं मां पाहि पृथ्वीधरराजपुत्रि ॥ ५॥ भोगा अनेका मनसाप्यलभ्या भूयासुरित्यन्वहमीहमानम् । गुरूत्तमाराधनदूरचित्तं मां पाहि पृथ्वीधरराजपुत्रि ॥ ६॥ कुतो यतेरस्य शरीरमानधनाभिमानः सततं दुरन्तः । अशेषलोकैरिति निन्द्यमानं मां पाहि पुथ्वीधरराजपुत्रि ॥ ७॥ निवारिताशेषमहाघवृन्दैरव्याजकारुण्यसुधातरङ्गैः । अपाङ्गपातैरवलोकयन्ती मां पाहि पूरथ्वीधरराजपुत्रि ॥ ८॥ इदं हि पृथ्वीधरराजपुत्रीपादारविन्दार्पितमानसेन । कर्मन्दिना निर्मितमष्टकं यः पठेत्स भूयादखिलेष्टगेहम् ॥ ९॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीपृथ्वीधरराजपुत्र्यष्टकं सम्पूर्णम् ।