अक्षर आकार:

श्रीपीताम्बरारत्नावलीस्तोत्रम्

Shri Pitambararatnavali Stotram

श्रीपीताम्बरारत्नावलीस्तोत्रम्

श्रीगणेशाय नमः ॥ श्रीपीताम्बरायै नमः । ओङ्कारद्वयसम्पुटान्तरपुटं मायास्थिराद्वन्द्वितं तन्मध्ये बगलामुखीति विमलं सम्बोधनं सर्वं च । दुष्टानामथ वाचमाशु च मुखं सस्तम्भयेत्यक्षरं जिह्वां कीलय कीलयेति च लिखेद्बुद्धि तथा नाशय ॥ १॥ ब्रह्मास्त्रं सकलार्थसिद्धिजनकं षट्त्रिंशदर्णात्मक- म्प्रोक्तं पद्मभुवां हिताय जगतां यन्नारदाग्रे पुरा । जीवन्मुक्तपदे विभान्ति सुधियो येषां मुखे भासते निर्द्वन्द्वामृतसागरेन्दुकिरणाहाराश्चकोरास्तु ते ॥ २॥ ओमित्यादिस्वरूपं जपति तव शिवे शब्दतन्मात्रगर्भा- वाचो यस्मात् परार्थप्रकटितपटवो वर्णरूपा निरीयुः । ब्रह्माद्यैः पञ्चतत्वैः परिवृतमनधं चित्प्रबोधाधिगम्यं दुर्ज्ञेयं योगयुक्तैः कथमपि मनसा योगिभिर्गृह्यमाणम् ॥ ३॥ ह्लीं बीज हृदियस्य भाति विमलं लक्ष्मीः स्थिरा तद्गृहे धैर्यं तस्य कलेवरेऽपि विशते दीर्घायुषो भूतले । कल्पान्तेष्वपि वृद्धिमेति विमला तद्वंशवल्ली परा शौर्यं स्थैर्यमुपैति तस्य पुरतस्त्रस्यन्ति वादीश्वरा ॥ ४॥ बद्धुं वारिधिमुद्यतो जनकजानाथोऽपि पीताम्बरे ! त्वां ध्यात्वाऽर्णवशोषणे कृतमतिः सेतु प्रचक्रे द्रुतम् । जित्वा रावणमुग्रशत्रुमबलान् बन्दीन् विमुच्याऽमरान् कीर्त्तिं लोकसुखोदयां व्यरचयत् कल्पस्थिरामम्बिके ॥ ५॥ गर्वी खर्वति रङ्कति क्षितिपतिर्मूकायते वाक्पति- र्वह्निः शीतति दुर्जनः सुजनते पुष्पायते वासुकिः । श्रीनित्ये बगले तवाक्षरपदैर्यन्त्रीकृता यन्त्रिताः के के नो निपतन्ति स्रस्तमुकुटाश्चन्द्रार्कतुल्या अपि ॥ ६॥ लावण्यामृतपूरिते तव कृपापाङ्गे निमग्ना नरा बह्मेशादिदिगीशवृन्दमपि ते जानन्ति गुञ्जोपमम् । येषां चेतसि संस्थिताऽसि बगले ! ते विश्वरक्षाक्षमाः प्रारब्धं द्रढयन्ति सत्वरतरं विघ्नैरविघ्नीकृताः ॥ ७॥ मुख्यत्वं समुपैति संसदि तवाऽपाङ्गावलोके नरः किं तच्चित्रमहो स्वयं प्रभवते सृष्टिस्थितिध्वंसने । यश्चित्ते तव ``भातिमामक इति'' त्वद्दर्शनं यस्य वा तं सर्वा ह्यणिमादयोऽप्यतितरामाराधयन्ते ध्रुवम् ॥ ८॥ क्षीणानां बलदायिनीं जलनिधौ पोतस्थिता नाविकां तत्त्राणं घनकुञ्जगह्वरगिरिव्याघ्रादिभीतेष्वपि । त्वां पीताम्बरधारिणीं परशिवा चन्द्रार्द्धचूडां गदा- हस्तां वामकरे प्रतीपरसनामुन्मीलयन्तीं भजे ॥ ९॥ स्वेच्छं ये प्रणमन्ति पादयुगलं पीताम्बरे ! तावकं ते वाञ्छाधिकमर्थमाप्य सकलां सिद्धिं भजन्ते पुनः । यद्यत्कर्त्तुमुरीकरोति बगले ! त्वत्साधकोऽत्राधुनाः तत्सञ्जातमिवेक्षते तव कृपाऽपाङ्गावलोके क्षणात् ॥ १ ०॥ वाणी सूक्तिसुधारसद्रवमयी सालङ्कृतिस्तन्मुखे शापानुग्रहकारिणी कविजनानन्दैकसम्वर्द्धिनी । व्याकर्तुं क्षमते विशालमतिमांस्त्वत्सेवको वाङ्मयं किं चित्रं यदि सृष्टिमाशु रचते ब्रह्माण्डकोट्यायते ॥ ११॥ देवि ! त्वद्भक्तदृष्ट्या तुहिनगिरिमुखाः पर्वताः पांसुतुल्या ज्वालामालाश्च चन्द्रामृतकरसदृशा पुष्पतां यान्ति नागाः । मूकत्वं वाक्यतीन्द्राः सरसि समतुलामाश्रयन्ते समुद्रा राजानो रङ्कभावं रणभुवि रिपवो विद्रवन्ते विशस्त्राः ॥ १२॥ लेख्यं तावकमन्त्रबीजममलं दुष्टौघसंस्तम्भन वश्याकर्षणमारणप्रमथनप्रक्षोभणोच्चाटने । व्यक्तं वज्रमिवापरं यदि मुखे जागर्ति तस्याग्रतः पादान्तः परिसञ्चरन्ति रिपवो ये सप्तद्वीपेश्वरा ॥ १३॥ नानारत्नविमूषितामलमणिद्वीपे सुधासागरे कल्पानोकहकाननान्तरगता या रत्नवेदी परा । तत्राकारितपञ्चप्रेतकमये सिंहासने संस्थितां ध्यायेऽहं करुणाकरां हरिहराराध्यामशेषार्थदाम् ॥ १४॥ वाग्देवी वदने वसत्यविरत्तं नेत्रे च लक्ष्मीः करे दानं दीनकृपालुता च हृदये वीरत्वमाजौ सदा । त्वद्भक्तस्य भवाब्धिपारतरणे तत्त्वोदयो जायते तेनेदं नलिनीदलोपरि जलाकारं जगद् भासते ॥ १५॥ चञ्चत्काञ्चनतुल्यपीतवसनां चन्द्रवतंसोज्ज्वलां केयूराङ्गदहारकुण्डलधरां भक्तोदयायोद्यताम् । त्वां ध्यायामि चतुर्भुजां त्रिनयनामुग्रारिजिह्वां करे कर्षन्तीमहमम्ब पाहि बगले ! त्राणं त्वमेवासि मे ॥ १६॥ मातस्ते महिमानमुग्रमधिकं प्रोक्तं स्वयं मानवै - र्वाक्यं सन्द्रियते श्रमेण यदि वा शक्त्या गुणाम्भोनिधेः । नो निश्शेषतया सुरैरविदितप्रान्तस्य पद्मालये तस्मात् सर्वगता त्वमेव सदसद्रूपा सदा गीयते ॥ १७॥ खञ्जं तार्क्ष्यसमोद्यमं प्रकुरुते तार्क्ष्यं च खञ्जाधिकं वान्तं स्तम्भयते जलाग्निशमने याऽव्यक्तशक्ति शिवे । तद्बीजं बगलेति मेऽस्तु रसनालग्नं सदैवामलं यद्ब्रह्मादिसूदुर्लभं भुवि नरैः सत्प्राक्तनैर्लभ्यते ॥ १८॥ स्तम्भत्वं पवनोऽपि याति भवतीह भक्तस्य पीताम्बरे । कि चित्रं यदि वारिधिः स्थलपदं मेरुस्तु माषोपमाम् । कल्पानोकहकामधेनुप्रमुखै रत्नैरलिन्दस्थितै- र्वाञ्छार्थाधिकदानमाशु कुरुते दीनेष्वदीनेष्वपि ॥ १९॥ भाग्याद्यस्य मुखे विभाति विमला विद्या विशेषाधिका षट्र्त्रिंशद्भिरथोदिता बहुगुणैर्बीजैस्तु सर्वार्थदा । तं सर्वे प्रणमन्ति मानवममी सेन्द्राः सुरा भूसुराः क्रान्ताशेपमहोदयं स्वकलनाक्रान्तत्रिलोकालयम् ॥ २०॥ यत्किञ्चिद्भुवने विभाति विमलं रत्नं महानन्दनं यां यां वृत्तिरुदारतां जनयते यद्यत्परं सुन्दरम् । यत्किञ्चित्भुवनेऽथवा नु महता शब्देन वा कीर्त्यते- तत्सर्वं तव रूपमेव बगले ! संसारपारप्रदे ॥ २१॥ जाग्रत्पूर्णकृपामृतौधभरिते श्रीमत्कटाक्षेक्षणे सर्वार्थप्रतिपादकव्रतधरे ये ये निमग्ना नराः । तेषां भावयमतीन्द्रिय निगदितुं ब्रह्मादयो न क्षमा ये सङ्कल्पविकल्पमात्ररचनाः प्राणात्यये हेतवः ॥ २२॥ हस्ते सङ्गृह्य चापं शरधरनिकरैर्यत्किरातं महाजौ पार्थो ब्रह्मास्त्रविद्याभ्यसनपटुमतिर्द्वन्द्वयुद्धे तुतोष । तत्सर्वं देववृन्दैरथ रिपुनिवहैर्वीक्षितं सिद्धलोकै - धैर्यं शौर्यं च सर्वं तव वरजनितं भाति पीताम्बरेऽत्र ॥ २३॥ पीतां पीतजटाघरां त्रिनयनां पीतांशुकोल्लासिनीं हेमाभाङ्गरुचिं शशाङ्कमुकुटां सच्चम्पकस्रग्युताम् । हस्तैर्मुद्गरवज्रवैरिरसनां सम्बिभ्रतीमादरात् दीप्ताङ्गी बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तये ॥ २४॥ कर्णालम्बितलोलकुण्डलयुगां श्वेतेन्दुमौलिं करैः केयूराङ्गदपाशमुद्गरगदावज्रादिकान् बिभ्रतीम् । देवीं पीतविभूषणामरिकुलध्वंसोद्यतां ये नरा ध्यायन्त्याशु लभन्ति सिद्धिमतुलां ते बालिशाः स्युः कथम् ॥ २५॥ लब्ध्वा मातरशेषकान्तिभरितानन्दं कृपावीक्षणं वर्षीयानपि मोहितुं प्रभवति स्त्रीवृन्दमुन्मीलितुम् । किं तञ्चित्रमनेकथा भ्रमयते दृष्ट्या त्रिलोकीमिमां सूर्येन्दुस्तनधारिणीमपि बलात् कन्दर्पदपार्धिकः ॥ २६॥ यन्त्रं जैत्रमनेकदुःखशमनं पीताम्बरे ! तावक- मोङ्कारद्वयसम्पुटेन पुटित शिष्टैस्तथावेष्टितम् । तद्बाह्ये स्थिरमाययाष्टपुटितं पाशाङ्कुशाद्यावृतं येषां चेतसि भाग्यतो निवसते ते विश्वसर्गक्षमाः ॥ २७॥ कर्पूरागुरुचन्दनैर्मृगमदैर्गोरोचनाकेशरै- स्त्वत्पादाम्बुजमर्चयन्ति बगले ! ये प्रत्यह मानवा । ते लब्ध्वा श्रियमद्भुतामपि चिरं भोगांश्च भुक्त्वाऽवनौ सायुज्यालयमाविशन्ति परमानन्दोऽस्ति यत्राधिकः ॥ २८॥ लव्ध्वा पादयुगे रतिं तव शिवे क्षुद्रोऽपि देवेन्द्रता- मासाद्यामरसुन्दरीभिरमलैर्भोगैर्दिवि क्रीडति । ये हित्वा तव भक्तिमन्यभजनानन्दाश्चिरं ते नरा भ्रष्टा घर्मपराङ्मुखा भ्रमधियो भारं वहन्ते भुवि ॥ २९॥ वामाराध्य हरो हरत्वमभजद् विष्णुस्तु विश्वात्मतां चक्रे सृष्टिमजोऽप्यवोचदखिलं वेदादिसद्वाङ्मयम् । ध्यात्वा ध्वान्तमशेषमाशु हरते सूर्योऽपि पीताम्बरे । तीव्रं तापमपाकरोति रजनीनाथोऽपि चूडाश्रितः ॥ ३०॥ बुद्धिं नाशय कीलयाशु रसनामङ्घ्र्योर्गतिं स्तम्भय दुष्टान् द्रावय मारयारिनिवहान् दासांश्चिरं पालय । इत्थं ये बगलामुखीं पदगतिं लब्ध्वा पठिष्यन्ति ते यन्त्रारूढमिवारिवृन्दमीखलं कर्त्तुं समर्थांः सदा ॥ ३१॥ ध्यात्वा त्वां बगले ! पुरा गिरिसुता चक्रे शिवं स्वं वरं प्रोक्तं नार्पयितुं शिवेन गदिता सङ्कल्पनाग्नौ तदा । त्यक्ताग्निर्गलितावलि गिरिसुतात् त्यक्त्वा गलस्तन्मुखात् तस्मात् त्वं बगलामुखी निगदिता नित्या परा योगिनी ॥ ३२॥ नागेन्द्रैर्देवसिद्धैर्मुनिवरनिवहैर्दानवै राक्षसेन्द्रै- र्दिक्पालैर्दिक्करीन्द्रैर्दिनकरप्रमुखैः सद्ग्रहैस्तारकाद्यैः । ब्रह्माद्यैः स्थूलसूक्ष्मैरविदितमुदिता त्वं परा चोन्मनी त्वं नित्या पीताम्बरा त्वं रिपुभयशमनी भक्तिचित्तासनस्था ॥ ३३॥ शम्भुर्यद्गुरगगानत्तोद्यतमतिर्नाट्योत्सवैस्ताण्डवे चक्रे चन्द्रमयूखकम्पनकरां नीराजनां पादयोः । हेमाम्भोजदलैर्जटाजलभरैरानन्दितैर्मौलिभिः पूजां प्रत्यहमातनोति नटयन् स्वैर्हस्ततालादिभिः ॥ ३४॥ यां दध्रे चतुराननोऽपि वदने चित्तारविन्दस्थितां यां वक्षःस्थलसंस्थितां हरिरजामालिङ्ग्य पीताम्बराम् । यद्देहार्धमुरीचकार पुरजित् सौन्दर्यसाराधिकां षट्चकाक्षररूपिणीं भज सखे ! देवी जगत्पालिकाम् ॥ ३५॥ हस्ते भाति गदा सदार्त्तिशमनी रत्नावली त्वद्भुजे पादे नूपुरमीशमौलिमणिभिर्नीराजितं राजते । ताटङ्कं श्रवणे कुचोपरि सदा कस्तुरिकालेपनं काश्मीरद्रवमङ्गरागमधिकां पीतच्छविं तन्वते ॥ ३६॥ ॐकारद्वयसम्पुटेन पुटिता विद्यागमे संस्थिता षट्चक्राक्षरबीजसाररचितां षट्त्रिंशदर्णात्मिकाम् । ये जानन्ति जपन्ति सन्ततमभिध्यायन्ति गायन्ति वा ते वन्द्या विबुधैश्चरन्ति भुवने सिद्धार्चिताः सिद्धये ॥ ३७॥ स्वाहाशक्तिरुपासने तव ऋषिः श्रीनारदो देवता नित्या श्रीबगलामुखी निगदिता छन्दो भवेत् त्रिष्टुभम् । बीजं तु स्थिरमायया विरचितं नानाविधस्तम्भने प्रोक्तं पद्मभुवाऽखिलाप्तिविनियोगोऽप्यच्युताकारता ॥ ३८॥ हृद्यं सर्वसुरेश्वरैश्च ऋषिभिर्दुष्प्राप्यमेवाद्भुतं स्तोत्रं गोप्यतमं स्वभाग्यवशतः प्राप्तं पठिष्यन्ति ये । सूक्त्या देवगुरुं धनेन घनदं जित्वा चिरञ्जीवितां षण्मासात् सुखसागरे शिवसमाक्रीडां करिष्यन्ति ते ॥ ३९॥ देवी स्वप्नगता स्वयैव लिखितं मह्यं ददावद्भुतं दिव्यास्त्रं पुरतः पठस्व विमलं सिन्दूरवर्णैः करैः । रोमाञ्चाङ्कितहर्षमाप्य लुलितैरङ्गैः पठन्तं नर- प्राप्तोऽहं परमोदयप्रदमिदं ज्ञानं कवीन्द्रादिदम् ॥ ४०॥ प्राप्ता श्रीबगलामुखीवदनतः स्वप्ने सुविद्या मया षट्त्रिंशद्भिरिमैः सुवर्णनिचयैः सद्बीजरत्नावली । येषां कण्ठगता विभाति जगतीपीठे प्रयोगक्षमा वश्याकर्षणमोहमारणविधौ स्तम्भे तथोच्चाटने ॥ ४१॥ चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां लसत्कनकचम्पकद्युतिविराजिचन्द्राननाम् । गदाहतविपक्षकां कलितलोलजिह्वाञ्चलां स्मरामि बगलामुखीं विमुखवाङ्मुखस्तम्भिनीम् ॥ ४२॥ ॥ श्रीपीताम्बरारत्नावलीस्तोत्रम् सम्पूर्णम् ॥ ॥ इति श्रीनारदोक्तं पीताम्बरादेवीस्तवराजस्स्तोत्रम् ॥ ॥ संवत् १७९० शाके १७५५ आषाढमासे शुक्लपक्षे ५ मन्दवासरे लिखितं ब्रह्मचारिकाशिनाथेन ॥ ॥ श्रीगङ्गाविश्वेश्वराभ्यां नमः ॥