श्रीपीताम्बरीसहस्रनामस्तोत्रम्
अथवा श्रीबगलामुखीसहस्रनामस्तोत्रम् अथ श्रीपीताम्बरीसहस्रनामस्तोत्रम् । सुरालयप्रधाने तु देवदेवं महेश्वरम् । शैलाधिराजतनया सङ्ग्रहे तमुवाच ह ॥ १॥ श्रीदेव्युवाच परमेष्ठिन्परन्धाम प्रधान परमेश्वर । नाम्नां सहस्रम्बगलामुख्याद्या ब्रूहि वल्लभ ॥ २॥ ईश्वर उवाच शृणु देवि प्रवक्ष्यामि नामधेयसहस्रकम् । परब्रह्मास्त्रविद्यायाश्चतुर्वर्गफलप्रदम् ॥ ३॥ गुह्याद्गुह्यतरन्देवि सर्वसिद्धैकवन्दितम् । अतिगुप्ततरव्विद्या सर्वतन्त्रेषु गोपिता ॥ ४॥ विशेषतः कलियुगे महासिद्ध्यौघदायिनी । गोपनीयङ्गोपनीयङ्गोपनीयम्प्रयत्नतः ॥ ५॥ अप्रकाश्यमिदं सत्यं स्वयोनिरिव सुव्रते । रोधिनी विघ्नसङ्घानां मोहिनी परयोषिताम् ॥ ६॥ स्तम्भिनी राजसैन्यानाव्वादिनी परवादिनाम् । पुरा चैकार्णवे घोरे काले परमभैरवः ॥ ७॥ सुन्दरीसहितो देवः केशवः क्लेशनाशनः । उरगासनमासीनो योगनिद्रामुपागमत् ॥ ८॥ निद्राकाले च ते काले मया प्रोक्तः सनातनः । महास्तम्भकरन्देवि स्तोत्रव्वा शतनामकम् ॥ ९॥ सहस्रनाम परमव्वद देवस्य कस्यचित् । श्रीभगवानुवाच शृणु शङ्कर देवेश परमातिरहस्यकम् ॥ १०॥ अजोहं यत्प्रसादेन विष्णुः सर्वेश्वरेश्वरः । गोपनीयम्प्रयत्नेन प्रकाशात्सिद्धिहानिकृत् ॥ ११॥ ॐ अस्य श्रीपीताम्बरीसहस्रनामस्तोत्रमन्त्रस्य भगवान्सदाशिव ऋषिरनुष्टुप्छन्दश्श्रीजगद्वश्यकरी पीताम्बरी देवता सर्वाभीष्टसिद्ध्यर्त्थे जपे विनियोगः ॥ अथ ध्यानम् पीताम्बरपरीधानां पीनोन्नतपयोधराम् । जटामुकुटशोभाढ्याम्पीतभूमिसुखासनाम् ॥ १२॥ शत्रोर्ज्जिह्वां मुद्गरञ्च बिभ्रतीम्परमाङ्कलाम् । सर्वागमपुराणेषु विख्याताम्भुवनत्रये ॥ १३॥ सृष्टिस्थितिविनाशानामादि भूताम्महेश्वरीम् । गोप्या सर्वप्रयत्नेन शृणु ताङ्कथयामि ते ॥ १४॥ जगद्विध्वंसिनीन्देवीमजरामरकारिणीम् । तान्नमामि महामायाम्महदैश्चर्यदायिनीम् ॥ १५॥ प्रणवम्पूर्वमुद्धृत्य स्थिरमायान्ततो वदेत् । बगलामुखी सर्वेति दुष्टानाव्वाचमेव च ॥ १६॥ मुखम्पदं स्तम्भयेति जिह्वाङ्कीलय बुद्धिमत् । विनाशयेति तारञ्च स्थिरमायान्ततो वदेत् ॥ १७॥ वह्निप्रियान्ततो मन्त्रश्चतुर्वर्गफलप्रदः । ब्रह्मास्त्रम्ब्रह्मविद्या च ब्रह्ममाता सनातनी ॥ १८॥ ब्रह्मेशी ब्रह्मकैवल्यबगला ब्रह्मचारिणी । नित्यानन्दा नित्यसिद्धा नित्यरूपा निरामया ॥ १९॥ सन्धारिणी महामाया कटाक्षक्षेमकारिणी । कमला विमला नीला रत्नकान्तिगुणाश्रिता ॥ २०॥ कामप्रिया कामरता कामकामस्वरूपिणी । मङ्गला विजया जाया सर्वमङ्गलकारिणी ॥ २१॥ कामिनी कामिनीकाम्या कामुका कामचारिणी । कामप्रिया कामरता कामाकामस्वरूपिणी ॥ २२॥ कामाख्या कामबीजस्था कामपीठनिवासिनी । कामदा कामहा काली कपाली च करालिका ॥ २३॥ कंसारिः कमला कामा कैलासेश्वरवल्लभा । कात्यायनी केशवा च करुणा कामकेलिभुक् ॥ २४॥ क्रियाकीर्त्तिः कृत्तिका च काशिका मथुरा शिवा । कालाक्षी कालिका काली धवलाननसुन्दरी ॥ २५॥ खेचरी च खमूर्त्तिश्च क्षुद्रा क्षुद्रक्षुधावरा । खड्गहस्ता खड्गरता खड्गिनी खर्परप्रिया ॥ २६॥ गङ्गा गौरी गामिनी च गीता गोत्रविवर्द्धिनी । गोधरा गोकरा गोधा गन्धर्वपुरवासिनी ॥ २७॥ गन्धर्वा गन्धर्वकला गोपनी गरुडासना । गोविन्दभावा गोविन्दा गान्धारी गन्धमादिनी ॥ २८॥ गौराङ्गी गोपिकामूर्त्तिर्गोपीगोष्ठनिवासिनी । गन्धा गजेन्द्रगामान्या गदाधरप्रिया ग्रहा ॥ २९॥ घोरघोरा घोररूपा घनश्रोणी घनप्रभा । दैत्येन्द्रप्रबला घण्टावादिनी घोरनिस्स्वना ॥ ३०॥ डाकिन्युमा उपेन्द्रा च उर्वशी उरगासना । उत्तमा उन्नता उन्ना उत्तमस्थानवासिनी ॥ ३१॥ चामुण्डा मुण्डिता चण्डी चण्डदर्पहरेति च । उग्रचण्डा चण्डचण्डा चण्डदैत्यविनाशिनी ॥ ३२॥ चण्डरूपा प्रचण्डा च चण्डाचण्डशरीरिणी । चतुर्ब्भुजा प्रचण्डा च चराचरनिवासिनी ॥ ३३॥ क्षत्रप्रायश्शिरोवाहा छला छलतरा छली । क्षत्ररूपा क्षत्रधरा क्षत्रियक्षयकारिणी ॥ ३४॥ जया च जयदुर्गा च जयन्ती जयदा परा । जायिनी जयिनी ज्योत्स्ना जटाधरप्रिया जिता ॥ ३५॥ जितेन्द्रिया जितक्रोधा जयमाना जनेश्वरी । जितमृत्युर्जरातीता जाह्नवी जनकात्मजा ॥ ३६॥ झङ्कारा झञ्झरी झण्टा झङ्कारी झकशोभिनी । झखा झमेशा झङ्कारी योनिकल्याणदायिनी ॥ ३७॥ झञ्झरा झमुरी झारा झराझरतरा परा । झञ्झा झमेता झङ्कारी झणाकल्याणदायिनी ॥ ३८॥ ईमना मानसी चिन्त्या ईमुना शङ्करप्रिया । टङ्कारी टिटिका टीका टङ्किनी च टवर्गगा ॥ ३९॥ टापा टोपा टटपतिष्टमनी टमनप्रिया । ठकारधारिणी ठीका ठङ्करी ठिकरप्रिया ॥ ४०॥ ठेकठासा ठकरती ठामिनी ठमनप्रिया । डारहा डाकिनी डारा डामरा डमरप्रिया ॥ ४१॥ डखिनी डडयुक्ता च डमरूकरवल्लभा । ढक्का ढक्की ढक्कनादा ढोलशब्दप्रबोधिनी ॥ ४२॥ ढामिनी ढामनप्रीता ढगतन्त्रप्रकाशिनी । अनेकरूपिणी अम्बा अणिमासिद्धिदायिनी ॥ ४३॥ अमन्त्रिणी अणुकरी अणुमद्भानुसंस्थिता । तारा तन्त्रावती तन्त्रतत्त्वरूपा तपस्विनी ॥ ४४॥ तरङ्गिणी तत्त्वपरा तन्त्रिका तन्त्रविग्रहा । तपोरूपा तत्त्वदात्री तपःप्रीतिप्रधर्षिणी ॥ ४५॥ तन्त्रा यन्त्रार्च्चनपरा तलातलनिवासिनी । तल्पदा त्वल्पदा काम्या स्थिरा स्थिरतरा स्थितिः ॥ ४६॥ स्थाणुप्रिया स्थपरा स्थिता स्थानप्रदायिनी । दिगम्बरा दयारूपा दावाग्नि दमनीदमा ॥ ४७॥ दुर्गा दुर्गापरा देवी दुष्टदैत्यविनाशिनी । दमनप्रमदा दैत्यदयादानपरायणा ॥ ४८॥ दुर्गार्तिनाशिनी दान्ता दम्भिनी दम्भवर्जिता । दिगम्बरप्रिया दम्भा दैत्यदम्भविदारिणी ॥ ४९॥ दमना दशनसौन्दर्या दानवेन्द्रविनाशिनी । दया धरा च दमनी दर्ब्भपत्रविलासिनी ॥ ५०॥ धरिणी धारिणी धात्री धराधरधरप्रिया । धराधरसुता देवी सुधर्मा धर्मचारिणी ॥ ५१॥ धर्मज्ञा धवला धूला धनदा धनवर्द्धिनी । धीरा धीरा धीरतरा धीरसिद्धिप्रदायिनी ॥ ५२॥ धन्वन्तरिधराधीरा ध्येया ध्यानस्वरूपिणी । नारायणी नारसिंही नित्यानन्दनरोत्तमा ॥ ५३॥ नक्ता नक्तावती नित्या नीलजीमूतसन्निभा । नीलाङ्गी नीलवस्त्रा च नीलपर्वतवासिनी ॥ ५४॥ सुनीलपुष्पखचिता नीलजम्बुसमप्रभा । नित्याख्या षोडशी विद्या नित्या नित्यसुखावहा ॥ ५५॥ नर्मदा नन्दनानन्दा नन्दानन्दविवर्द्धिनी । यशोदानन्दतनया नन्दनोद्यानवासिनी ॥ ५६॥ नागान्तका नागवृद्धा नागपत्नी च नागिनी । नमिताशेषजनता नमस्कारवती नमः ॥ ५७॥ पीताम्बरा पार्वती च पीताम्बरविभूषिता । पीतमील्याम्बरधरा पीताभा पिङ्गमूर्द्धजा ॥ ५८॥ पीतपुष्पार्च्चनरता पीतपुष्पसमर्च्चिता । परप्रभा पितृपतिः परसैन्यविनाशिनी ॥ ५९॥ परमा परतन्त्रा च परमन्त्रा परात्परा । पराविद्या परासिद्धिः परास्थानप्रदायिनी ॥ ६०॥ पुष्पा पुष्पवती नित्या पुष्पमालाविभूषिता । पुरातना पूर्वपरा परसिद्धिप्रदायिनी ॥ ६१॥ पीतानितम्बिनी पीता पीनोन्नतपयस्तनी । प्रेमाप्रमध्यमाशेषा पद्मपत्रविलासिनी ॥ ६२॥ पद्मावती पद्मनेत्रा पद्मा पद्ममुखी परा । पद्मासना पद्मप्रिया पद्मरागस्वरूपिणी ॥ ६३॥ पावनी पालिका पात्री परदा वरदा शिवा । प्रेतसंस्था परानन्दा परब्रह्मस्वरूपुणी ॥ ६४॥ जिनेश्वरप्रिया देवी पशुरक्तरतप्रिया । पशुमांसप्रिया पर्णा परामृतपरायणा ॥ ६५॥ पाशीनी पाशिका चापि पशुघ्नी पशुभाषिणी । फुल्लारविन्दवदनी फुल्लोत्पलशरीरिणी ॥ ६६॥ परानन्दप्रदा वीणापशुपाशविनाशिनी । फूत्कारा फुत्परा फेणी फुल्लेन्दीवरलोचना ॥ ६७॥ फट्मन्त्रा स्फटिका स्वाहा स्फोटा च फट्स्वरूपिणी । स्फाटिका घुटिका घोरा स्फटिकाद्रिस्वरूपिणी ॥ ६८॥ वराङ्गना वरधरा वाराही वासुकी वरा । बिन्दुस्था बिन्दुनी वाणी बिन्दुचक्रनिवासिनी ॥ ६९॥ विद्याधरी विशालाक्षी काशीवासिजनप्रिया । वेदविद्या विरूपाक्षी विश्वयुग्बहुरूपिणी ॥ ७०॥ ब्रह्मशक्तिर्विष्णुशक्तिः पञ्चवक्त्रा शिवप्रिया । वैकुण्ठवासिनी देवी वैकुण्ठपददायिनी ॥ ७१॥ ब्रह्मरूपा विष्णुरूपा परब्रह्ममहेश्वरी । भवप्रिया भवोद्भावा भवरूपा भवोत्तमा ॥ ७२॥ भवपारा भवधारा भाग्यवत्प्रियकारिणी । भद्रा सुभद्रा भवदा शुम्भदैत्यविनाशिनी ॥ ७३॥ भवानी भैरवी भीमा भद्रकाली सुभद्रिका । भगिनी भगरूपा च भगमाना भगोत्तमा ॥ ७४॥ भगप्रिया भगवती भगवासा भगाकरा । भगसृष्टा भाग्यवती भगरूपा भगासिनी ॥ ७५॥ भगलिङ्गप्रिया देवी भगलिङ्गपरायणा । भगलिङ्गस्वरूपा च भगलिङ्गविनोदिनी ॥ ७६॥ भगलिङ्गरता देवी भगलिङ्गनिवासिनी । भगमाला भगकला भगाधारा भगाम्बरा ॥ ७७॥ भगवेगा भगाभूषा भगेन्द्रा भाग्यरूपिणी । भगलिङ्गाङ्गसम्भोगा भगलिङ्गासवावहा ॥ ७८॥ भगलिङ्गसमाधुर्या भगलिङ्गनिवेशिता । भगलिङ्गसुपूजा च भगलिङ्गसमन्विता ॥ ७९॥ भगलिङ्गविरक्ता च भगलिङ्गसमावृता । माधवी माधवीमान्या मधुरा मधुमानिनी ॥ ८०॥ मन्दहासा महामाया मोहिनी महदुत्तमा । महामोहा महाविद्या महाघोरा महास्मृतिः ॥ ८१॥ मनस्विनी मानवती मोदिनी मधुरानना । मेनिका मानिनी मान्या मणिरत्नविभूषणा ॥ ८२॥ मल्लिका मौलिका माला मालाधरमदोत्तमा । मदनासुन्दरी मेधा मधुमत्ता मधुप्रिया ॥ ८३॥ मत्तहंसासमोन्नासा मत्तसिंहमहासनी । महेन्द्रवल्लभा भीमा मौल्यञ्च मिथुनात्मजा ॥ ८४॥ महाकाल्या महाकाली महाबुद्धिर्महोत्कटा । माहेश्वरी महामाया महिषासुरघातिनी ॥ ८५॥ मधुराकीर्त्तिमत्ता च मत्तमातङ्गगामिनी । मदप्रिया मांसरता मत्तयुक्कामकारिणी ॥ ८६॥ मैथुन्यवल्लभा देवी महानन्दा मह्वोत्सवा । मरीचिर्मारतिर्म्माया मनोबुद्धिप्रदायिनी ॥ ८७॥ मोहा मोक्षा महालक्ष्मीर्म्महत्पदप्रदायिनी । यमरूपा च यमुना जयन्ती च जयप्रदा ॥ ८८॥ याम्या यमवती युद्धा यदोः कुलविवर्द्धिनी । रमा रामा रामपत्नी रत्नमाला रतिप्रिया ॥ ८९॥ रत्नसिंहासनस्था च रत्नाभरणमण्डिता । रमणी रमणीया च रत्यारसपरायणा ॥ ९०॥ रतानन्दा रतवती रधूणाङ्कुलवर्द्धिनी । रमणारिपरिभ्राज्या रैधाराधिकरत्नजा ॥ ९१॥ रावी रसस्वरूपा च रात्रिराजसुखावहा । ऋतुजा ऋतुदा ऋद्धा ऋतुरूपा ऋतुप्रिया ॥ ९२॥ रक्तप्रिया रक्तवती रङ्गिणी रक्तदन्तिका । लक्ष्मीर्ल्लज्जा लतिका च लीलालग्नानिताक्षिणी ॥ ९३॥ लीला लीलावती लोमाहर्षाह्लादनपट्टिका । ब्रह्मस्थिता ब्रह्मरूपा ब्रह्मणा वेदवन्दिता ॥ ९४॥ ब्रह्मोद्भवा ब्रह्मकला ब्रह्माणी ब्रह्मबोधिनी । वेदाङ्गना वेदरूपा वनिता विनता वसा ॥ ९५॥ बाला च युवती वृद्धा ब्रह्मकर्मपरायणा । विन्ध्यस्था विन्ध्यवासी च बिन्दुयुग्बिन्दुभूषणा ॥ ९६॥ विद्यावती वेदधारी व्यापिका बर्हिणी कला । वामाचारप्रिया वह्निर्वामाचारपरायणा ॥ ९७॥ वामाचाररता देवी वामदेवप्रियोत्तमा । बुद्धेन्द्रिया विबुद्धा च बुद्धाचरणमालिनी ॥ ९८॥ बन्धमोचनकर्त्री च वारुणा वरुणालया । शिवा शिवप्रिया शुद्धा शुद्धाङ्गी शुक्लवर्णिका ॥ ९९॥ शुक्लपुष्पप्रिया शुक्ला शिवधर्मपरायणा । शुक्लस्था शुक्लिनी शुक्लरूपशुक्लपशुप्रिया ॥ १००॥ शुक्रस्था शुक्रिणी शुक्रा शुक्ररूपा च शुक्रिका । षण्मुखी च षडङ्गा च षट्चक्रविनिवासिनी ॥ १०१॥ षड्ग्रन्थियुक्ता षोढा च षण्माता च षडात्मिका । षडङ्गयुवती देवी षडङ्गप्रकृतिर्वशी ॥ १०२॥ षडानना षड्रसा च षष्ठी षष्ठेश्वरीप्रिया । षङ्गवादा षोडशी च षोढान्यासस्वरूपिणी ॥ १०३॥ षट्चक्रभेदनकरी षट्चक्रस्थस्वरूपिणी । षोडशस्वररूपा च षण्मुखी षड्रदान्विता ॥ १०४॥ सनकादिस्वरूपा च शिवधर्मषरायणा । सिद्धा सप्तस्वरी शुद्धा सुरमाता स्वरोत्तमा ॥ १०५॥ सिद्धविद्या सिधमाता सिद्धा सिद्धस्वरूपिणी । हरा हरिप्रिया हारा हरिणी हारयुक् तथा ॥ १०६॥ हरिरूपा हरिधारा हरिणाक्षी हरिप्रिया । हेतुप्रिया हेतुरता हिताहितस्वरूपिणी ॥ १०७॥ क्षमा क्षमावती क्षीता क्षुद्रघण्टाविभूषणा । क्षयङ्करी क्षितीशा च क्षीणमध्यसुशोभना ॥ १०८॥ अजानन्ता अपर्णा च अहल्याशेषशायिनी । स्वान्तर्गता च साधूनामन्तरानन्तरूपिणी ॥ १०९॥ अरूपा अमला चार्द्धा अनन्तगुणशालिनी । स्वविद्या विद्यकाविद्या विद्या चार्विन्दलोचना ॥ ११०॥ अपराजिता जातवेदा अजपा अमरावती । अल्पा स्वल्पा अनल्पाद्या अणिमासिद्धिदायिनी ॥ १११॥ अष्टसिद्धिप्रदा देवी रूपलक्षणसंय्युता । अरविन्दमुखा देवी भोगसौख्यप्रदायिनी ॥ ११२॥ आदिविद्या आदिभूता आदिसिद्धिप्रदायिनी । सीत्काररूपिणी देवी सर्वासनविभूषिता ॥ ११३॥ इन्द्रप्रिया च इन्द्राणी इन्द्रप्रस्थनिवासिनी । इन्द्राक्षी इन्द्रवज्रा च इन्द्रमद्योक्षणी तथा ॥ ११४॥ ईला कामनिवासा च ईश्वरीश्वरवल्लभा । जननी चेश्वरी दीना भेदाचेश्वरकर्मकृत् ॥ ११५॥ उमा कात्यायनी ऊर्द्ध्वा मीना चोत्तरवासिनी । उमापतिप्रिया देवी शिवा चोङ्काररूपिणी ॥ ११६॥ उरगेन्द्रशिरोरत्ना उरगोरगवल्लभा । उद्यानवासिनी माला प्रशस्तमणिभूषणा ॥ ११७॥ उर्द्ध्वदन्तोत्तमाङ्गी च उत्तमा चोर्ध्वकेशिनी । उमासिद्धिप्रदा या च उरगासनसंस्थिता ॥ ११८॥ ऋषिपुत्री ऋषिच्छन्दा ऋद्धिसिद्धिप्रदायिनी । उत्सवोत्सवसीमन्ता कामिका च गुणान्विता ॥ ११९॥ एला एकारविद्या च एणीविद्याधरा तथा । ओङ्कारवलयोपेता ओङ्कारपरमा कला ॥ १२०॥ ओंवदवदवाणी च ओङ्काराक्षरमण्डिता । ऐन्द्री कुलिशहस्ता च ओंलोकपरवासिनी ॥ १२१॥ ओङ्कारमध्यबीजा च ओंनमोरूपधारिणी । प्रब्रह्मस्वरूपा च अंशुकांशुकवल्लभा ॥ १२२॥ ओङ्कारा अःफड्मन्त्रा च अक्षाक्षरविभूषिता । अमन्त्रा मन्त्ररूपा च पदशोभासमन्विता ॥ १२३॥ प्रणवोङ्काररूपा च प्रणवोच्चारभाक् पुनः । ह्रीङ्काररूपा ह्रींङ्कारी वाग्बीजाक्षरभूषणा ॥ १२४॥ हृल्लेखा सिद्धि योगा च हृत्पद्मासनसंस्थिता । बीजाख्या नेत्रहृदया ह्रीम्बीजाभुवनेश्वरी ॥ १२५॥ क्लीङ्कामराजा क्लिन्ना च चतुर्वर्गफलप्रदा । क्लीङ्क्लीङ्क्लींरूपिका देवी क्रीङ्क्रीङ्क्रींनामधारिणी ॥ १२६॥ कमलाशक्तिबीजा च पाशाङ्कुशविभूषिता । श्रींश्रीङ्कारा महाविद्या श्रद्धा श्रद्धावती तथा ॥ १२७॥ ओं ऐं क्लींह्रींश्रीम्परा च क्लीङ्कारी परमा कला । ह्रीङ्क्लींश्रीङ्कारस्वरूपा सर्वकर्मफलप्रदा ॥ १२८॥ सर्वाढ्या सर्वदेवी च सर्वसिद्धिप्रदा तथा । सर्वज्ञा सर्वशक्तिश्च वाग्विभूतिप्रदायिनी ॥ १२९॥ सर्वमोक्षप्रदा देवी सर्वभोगप्रदायिनी । गुणेन्द्रवल्लभा वामा सर्वशक्तिप्रदायिनी ॥ १३०॥ सर्वानन्दमयी चैव सर्वसिद्धिप्रदायिनी । सर्वचक्रेश्वरी देवी सर्वसिद्धेश्वरी तथा ॥ १३१॥ सर्वप्रियङ्करी चैव सर्वसौख्यप्रदायिनी । सर्वानन्दप्रदा देवी ब्रह्मानन्दप्रदायिनी ॥ १३२॥ मनोवाञ्छितदात्री च मनोवृद्धिसमन्विता । अकारादि-क्षकारान्ता दुर्गा दुर्गार्त्तिनाशिनी ॥ १३३॥ पद्मनेत्रा सुनेत्रा च स्वधास्वाहावषट्करी । स्ववर्गा देववर्गा च तवर्गा च समन्विता ॥ १३४॥ अन्तस्स्था वेश्मरूपा च नवदुर्गा नरोत्तमा । तत्त्वसिद्धिप्रदा नीला तथा नीलपताकिनी ॥ १३५॥ नित्यरूपा निशाकारी स्तम्भिनी मोहिनीति च । वशङ्करी तथोच्चाटी उन्मादी कर्षिणीति च ॥ १३६॥ मातङ्गी मधुमत्ता च अणिमा लघिमा तथा । सिद्धा मोक्षप्रदा नित्या नित्यानन्दप्रदायिनी ॥ १३७॥ रक्ताङ्गी रक्तनेत्रा च रक्तचन्दनभूषिता । स्वल्पसिद्धिस्सुकल्पा च दिव्यचारणशुक्रभा ॥ १३८॥ सङ्क्रान्तिस्सर्वविद्या च सस्यवासरभूषिता । प्रथमा च द्वितीया च तृतीया च चतुर्त्थिका ॥ १३९॥ पञ्चमी चैव षष्ठी च विशुद्धा सप्तमी तथा । अष्टमी नवमी चैव दशम्येकादशी तथा ॥ १४०॥ द्वादशी त्रयोदशी च चतुर्द्दश्यथ पूर्णिमा । आमावस्या तथा पूर्वा उत्तरा परिपूर्णिमा ॥ १४१॥ खड्गिनी चक्रिणी घोरा गदिनी शूलिनी तथा । भुशुण्डी चापिनी बाणा सर्वायुधविभूषणा ॥ १४२॥ कुलेश्वरी कुलवती कुलाचारपरायणा । कुलकर्मसुरक्ता च कुलाचारप्रवर्द्धिनी ॥ १४३॥ कीर्तिश्श्रीश्च रमा रामा धर्मायै सततन्नमः । क्षमा धृतिः स्मृतिर्मेधा कल्पवृक्षनिवासिनी ॥ १४४॥ उग्रा उग्रप्रभा गौरी वेदविद्याविबोधिनी । साध्या सिद्धा सुसिद्धा च विप्ररूपा तथैव च ॥ १४५॥ काली कराली काल्या च कलादैत्यविनाशिनी । कौलिनी कालिकी चैव क-च-ट-त-पवर्णिका ॥ १४६॥ जयिनी जययुक्ता च जयदा जृम्भिनी तथा । स्राविणी द्राविणी देवी भरुण्डा विन्ध्यवासिनी ॥ १४७॥ ज्योतिर्ब्भूता च जयदा ज्वालामालासमाकुला । भिन्ना भिन्नप्रकाशा च विभिन्ना भिन्नरूपिणी ॥ १४८॥ अश्विनी भरणी चैव नक्षत्रसम्भवानिला । काश्यपी विनता ख्याता दितिजादितिरेव च ॥ १४९॥ कीर्त्तिः कामप्रिया देवी कीर्त्त्या कीर्तिविवर्द्धिनी । सद्योमांससमालब्धा सद्यश्छिन्नासिशङ्करा ॥ १५०॥ दक्षिणा चोत्तरा पूर्वा पश्चिमा दिक् तथैव च । अग्निनैरृतिवायव्या ईशान्यादिक् तथा स्मृता ॥ १५१॥ ऊर्ध्वाङ्गाधोगता श्वेता कृष्णा रक्ता च पीतका । चतुर्वर्गा चतुर्वर्णा चतुर्मात्रात्मिकाक्षरा ॥ १५२॥ चतुर्मुखी चतुर्वेदा चतुर्विद्या चतुर्मुखा । चतुर्गणा चतुर्माता चतुर्वर्गफलप्रदा ॥ १५३॥ धात्री विधात्री मिथुना नारी नायकवासिनी । सुरामुदा मुदवती मोदिनी मेनकात्मजा ॥ १५४॥ ऊर्द्ध्वकाली सिद्धिकाली दक्षिणाकालिका शिवा । नील्या सरस्वती सात्वम्बगला छिन्नमस्तका ॥ १५५॥ सर्वेश्वरी सिद्धविद्या परा परमदेवता । हिङ्गुला हिङ्गुलाङ्गी च हिङ्गुलाधरवासिनी ॥ १५६॥ हिङ्गुलोत्तमवर्णाभा हिङ्गुलाभरणा च सा । जाग्रती च जगन्माता जगदीश्वरवल्लभा ॥ १५७॥ जनार्द्दनप्रिया देवी जययुक्ता जयप्रदा । जगदानन्दकरी च जगदाह्लादकारिणी ॥ १५८॥ ज्ञानदानकरी यज्ञा जानकी जनकप्रिया । जयन्ती जयदा नित्या ज्वलदग्निसमप्रभा ॥ १५९॥ विद्याधरा च बिम्बोष्ठी कैलासचलवासिनी । विभवा वडवाग्निश्च अग्निहोत्रफलप्रदा ॥ १६०॥ मन्त्ररूपा परा देवी तथैव गुरुरूपिणी । गया गङ्गा गोमती च प्रभासा पुष्करापि च ॥ १६१॥ विन्ध्याचलरता देवी विन्ध्याचलनिवासिनी । बहू बहुसुन्दरी च कंसासुरविनाशिनी ॥ १६२॥ शूलिनी शूलहस्ता च वज्रा वज्रहरापि च । दूर्गा शिवा शान्तिकरी ब्रह्माणी ब्राह्मणप्रिया ॥ १६३॥ सर्वलोकप्रणेत्री च सर्वरोगहरापि च । मङ्गला शोभना शुद्धा निष्कला परमा कला ॥ १६४॥ विश्वेश्वरी विश्वमाता ललिता वसितानना । सदाशिवा उमा क्षेमा चण्डिका चण्डविक्रमा ॥ १६५॥ सर्वदेवमयी देवी सर्वागमभयापहा । ब्रह्मेशविष्णुनमिता सर्वकल्याणकारिणी ॥ १६६॥ योगिनी योगमाता च योगीन्द्रहृदयस्थिता । योगिजाया योगवती योगीन्द्रानन्दयोगिनी ॥ १६७॥ इन्द्रादिनमिता देवी ईश्वरी चेश्वरप्रिया । विशुद्धिदा भयहरा भक्तद्वेषिभयङ्करी ॥ १६८॥ भववेषा कामिनी च भरुण्डा भयकारिणी । बलभद्रप्रियाकारा संसारार्णवतारिणी ॥ १६९॥ पञ्चभूता सर्वभूता विभूतिर्ब्भूतिधारिणी । सिंहवाहा महामोहा मोहपाशविनाशिनी ॥ १७०॥ मन्दुरा मदिरा मुद्रा मुद्रामुद्गरधारिणी । सावित्री च महादेवी परप्रियनिनायिका ॥ १७१॥ यमदूती च पिङ्गाक्षी वैष्णवी शङ्करी तथा । चन्द्रप्रिया चन्द्ररता चन्दनारण्यवासिनी ॥ १७२॥ चन्दनेन्द्रसमायुक्ता चण्डदैत्यविनाशिनी । सर्वेश्वरी यक्षिणी च किराती राक्षसी तथा ॥ १७३॥ महाभोगवती देवी महामोक्षप्रदायिनी । विश्वहन्त्री विश्वरूपा विश्वसंहारकारिणी ॥ १७४॥ धात्री च सर्वलोकानां हितकारणकामिनी । कमला सूक्ष्मदा देवी धात्री हरविनाशिनी ॥ १७५॥ सुरेन्द्रपूजिता सिद्धा महातेजोवतीति च । परारूपवती देवी त्रैलोक्याकर्षकारिणी ॥ १७६॥ इति ते कथितन्देवि पीतानाम सहस्रकम् । पठेद्वा पाठयेद्वापि सर्वसिद्धिर्भवेत्प्रिये ॥ १७७॥ इति मे विष्णुना प्रोक्तम्महास्तम्भकरम्परम् । प्रातः काले च मध्याह्ने सन्ध्याकाले च पार्वति ॥ १७८॥ एकचित्तः पठेदेतत्सर्वसिद्धिर्ब्भविष्यति । एकवारम्पठेद्यस्तु सर्वपापक्षयो भवेत् ॥ १७९॥ द्विवारम्प्रपठेद्यस्तु विघ्नेश्वरसमो भवेत् । त्रिवारम्पठनाद्देवि सर्वं सिद्ध्यति सर्वथा ॥ १८०॥ स्तवस्यास्य प्रभावेण साक्षाद्भवति सुव्रते । मोक्षार्त्थी लभते मोक्षन्धनार्थी लभते धनम् ॥ १८१॥ विद्यार्त्थी लभते विद्यान्तर्कव्याकरणान्विताम् । महित्वव्वत्सरान्ताच्च शत्रुहानिः प्रजायते ॥ १८२॥ क्षोणीपतिर्वशस्तस्य स्मरणे सदृशो भवेत् । यः पठेत्सर्वदा भक्त्या श्रेयस्तु भवति प्रिये ॥ १८३॥ गणाध्यक्षप्रतिनिधिः कविकाव्यपरो वरः । गोपनीयम्प्रयत्नेन जननीजारवत्सदा ॥ १८४॥ हेतुयुक्तो भवेन्नित्यं शक्तियुक्तः सदा भवेत् । य इदम्पठते नित्यं शिवेन सदृशो भवेत् ॥ १८५॥ जीवन्धर्मार्त्थभोगी स्यान्मृतो मोक्षपतिर्ब्भवेत् । सत्यं सत्यम्महादेवि सत्यं सत्यन्न संशयः ॥ १८६॥ स्तवस्यास्य प्रभावेण देवेन सह मोदते । सुचित्ताश्च सुरास्सर्वे स्तवराजस्य कीर्त्तनात् ॥ १८७॥ पीताम्बरपरीधाना पीतगन्धानुलेपना । परमोदयकीर्त्तिः स्यात्परतस्सुरसुन्दरि ॥ १८८॥ इति श्रीउत्कटशम्बरे नागेन्द्रप्रयाणतन्त्रे षोडशसहस्रे विष्णुशङ्करसंवादे पीताम्बरीसहस्रनामस्तोत्रं समाप्तम् ॥The original text is from Muktabodha Indological Research Institute www.muktabodha.org Dyczkowski. Reprint of edition published in 1892. Revision 0 february 9, 2009 Publisher : Shrivenkateshvara press Publication year : 1949 pItAmbarI is also known as bagalAmukhI