अक्षर आकार:

श्रीपार्वत्यष्टोत्तरशतनामस्तोत्रम्

Shri Parvati Ashtottarashatanama Stotram

श्रीपार्वत्यष्टोत्तरशतनामस्तोत्रम्

महेश्वरी महादेवी महेश्वरविमोहिनी । महाप्रभा महामाया महासुरनिषूदनी ॥ १॥ उमा कुमारजननी हिमाचलतनूभवा । भवानी भावनागम्या भवपाशविमोचिनी ॥ २॥ शिवा भवाङ्कनिलया मृगाङ्कसदृशानना । अपङ्का शङ्करी शान्ता हृदयान्तःप्रकाशिनी ॥ ३॥ विजया दुर्जयामेया जयदा जगदीश्वरी । आर्या परापरमयी त्रिपुरा परमेश्वरी ॥ ४॥ कात्यायनी हैमवती शाम्भवी सुम्भमर्दिनी । शाकम्भरी कला कालि भैरवी भयहारिणी ॥ ५॥ नारायणी प्राणमयी शर्वाणी सर्वमङ्गला । अरुणा भूरिकरुणा शरणागतवत्सला ॥ ६॥ हरिणाङ्ककलाभूषा हरिणाक्षा हरप्रिया । भक्तप्रिया भगवती सुदया दनुजादया ॥ ७॥ पङ्कजाक्षसमाराध्या पङ्कजाक्षसहोदरी । किङ्करीमूतगीर्वाणा पङ्कजास्त्रोद्भवेक्षणा ॥ ८॥ ह्रीङ्कारी शबरी तारा मातङ्गी मङ्गलप्रदा । अङ्गीकृतहरार्द्धाङ्गा श‍ृङ्गारशरणानना ॥ ९॥ श‍ृङ्गारनायिका बाला जया सिंहासनेश्वरी । कामेश्वरी च कल्याणी सुन्दरी सुरसेविता ॥ १०॥ चक्रेश्वरी मधुमती पार्वती पद्मलोचना । कोदण्डिनी कुण्डलिनी चामुण्डा चण्डिकाम्बिका ॥ ११॥ चर्च्चिका गिरिजा दुर्गा सर्गस्थित्यन्तकारिणी । सुभगा ललिता गौरी मातामणिर्गृहेश्वरी ॥ १२॥ लोकेश्वरी महाराज्ञी मालिनी मेनकात्मजा । रुद्राणी शङ्करी शर्मदायिनी सर्वसाक्षिणी ॥ १३॥ श्रीविद्या श्रीकरी शक्तिष्षोडशी श्रीदिपूजिता । वाग्वादिनी विन्दुगृहा भवसङ्कटहारणी ॥ १४॥ करपङ्कजसंस्पर्शप्रधूतसुरशासना । पादपल्लवनिष्पिष्टमहिषासुरविग्रहा ॥ १५॥ तरुणार्कसहस्राभतनुच्छायाविजृम्भणा । वदनामोदबिभ्राम्यदलिपालिनिभालका ॥ १६॥ नवकुङ्कुमकस्तूरीतिलकालङ्कृतालिका । अधरारुणिमारक्तमुक्ताशोभितनासिका ॥ १७॥ कनत्कपोलयुगलप्रतिबिम्बितकुण्डला । तमःप्रवाहप्रतिमचिकुरभ्राजिदिङ्मुखा ॥ १८॥ इदमष्टोत्तरशतं पार्वत्यास्सर्वकामदम् । सर्वसम्पत्प्रदं श्रेष्ठं सर्वसौभाग्यपुष्टिदम् ॥ १९॥ सर्वविद्याप्रदं सर्वपुरुषार्थप्रदं परम् । रहस्यमिदमुत्कृष्टं न मीमांसमितस्ततः ॥ २०॥ यः पठेत्परया भक्त्या सन्ध्याकाले समाहितः । स्मरन्नपि महादेवं पार्वतीसहितं शिवम् । स भुक्त्वात्र महाभोगान् शिवलोके महीयते ॥ २१॥ इति पार्वत्यष्टोत्तरशतं सम्पूर्णम् ।