अक्षर आकार:

श्रीपार्वत्यष्टोत्तरशतनामावलिः

Shri Parvati Ashtottarashatanamavali 108 Names

श्रीपार्वत्यष्टोत्तरशतनामावलिः

ॐ महेश्वर्यै नमः । महादेव्यै । महेश्वरविमोहिन्यै । महाप्रभायै । महामायायै । महासुरनिषूदन्यै । उमायै । कुमारजनन्यै । हिमाचलतनूद्भवायै । भवान्यै । भावनागम्यायै । भवपाशविमोचिन्यै । शिवायै । भवाङ्कनिलयायै । मृगाङ्कसदृशाननायै । अपाङ्कायै । शङ्कर्यै । शान्तायै । हृदयान्तःप्रकाशिन्यै । विजयायै नमः । २० ॐ दुर्जयायै नमः । अमेयायै । जयदायै । जगदीश्वर्यै । आर्यायै । परापरमय्यै । त्रिपुरायै । परमेश्वर्यै । कात्यायन्यै । हैमवत्यै । शाम्भव्यै । शुम्भमर्दिन्यै । शाकम्भर्यै । कलायै । काल्यै । भैरव्यै । भयहारिण्यै । नारायण्यै । प्राणमय्यै । शर्वाण्यै नमः । ४० ॐ सर्वमङ्गलायै नमः । अरुणायै । भूरिकरुणायै । शरणागतवत्सलायै । हरिणाङ्ककलाभूषायै । हरिणाक्षायै । हरप्रियायै । भक्तप्रियायै । भगवत्यै । सुदयायै । दनुजादयायै । पङ्कजाक्षसमाराध्यायै । पङ्कजाक्षसहोदर्यै । किङ्करीभूतगीर्वाणायै । पङ्कजास्त्रोद्भवेक्षणायै । ह्रीङ्कार्यै । शबर्यै । तारायै । मातङ्ग्यै । मङ्गलप्रदायै नमः । ६० ॐ अङ्गीकृतहरार्द्धाङ्गायै नमः । श‍ृङ्गारशरणाननायै । श‍ृङ्गारनायिकायै । बालायै । जयायै । सिंहासनेश्वर्यै । कामेश्वर्यै । कल्याण्यै । सुन्दर्यै । सुरसेवितायै । चक्रेश्वर्यै । मधुमत्यै । पार्वत्यै । पद्मलोचनायै । कोदण्डिन्यै । कुण्डलिन्यै । चामुण्डायै । चण्डिकाम्बिकायै । चर्च्चिकायै । गिरिजायै नमः । ८० ॐ दुर्गायै नमः । सर्गस्थित्यन्तकारिण्यै । सुभगायै । ललितायै । गौर्यै । मातामणये । गृहेश्वर्यै । लोकेश्वर्यै । महाराज्ञ्यै । मालिन्यै । मेनकात्मजायै । रुद्राण्यै । शङ्कर्यै । शर्मदायिन्यै । सर्वसाक्षिण्यै । श्रीविद्यायै । श्रीकर्यै । शक्तये । षोडश्यै । श्रीदिपूजितायै नमः । १०० ॐ वाग्वादिन्यै नमः । विन्दुगृहायै । भवसङ्कटहारण्यै । करपङ्कजसंस्पर्शप्रधूतसुरशासनायै । पादपल्लवनिष्पिष्टमहिषासुरविग्रहायै । तरुणार्कसहस्राभतनुच्छायाविजृम्भणायै । वदनामोदबिभ्राम्यदलिपालिनिभालकायै । नवकुङ्कुमकस्तूरीतिलकालङ्कृतालिकायै । अधरारुणिमारक्तमुक्ताशोभितनासिकायै । कनत्कपोलयुगलप्रतिबिम्बितकुण्डलायै । तमःप्रवाहप्रतिमचिकुरभ्राजिदिङ्मुखायै नमः । १११ इति पार्वत्यष्टोत्तरशतनामावलिः समाप्ता । इति पार्वत्यष्टोत्तरशतनामावलिः समाप्ता ।