अक्षर आकार:

वीरककृता पार्वतीस्तुतिः

vIrakakRRitA pArvatIstutiH

वीरककृता पार्वतीस्तुतिः

वीरक उवाच । नतसुरासुरमौलिमिलन्मणिप्रचयकान्ति कराल नखाङ्किते । नगसुते! शरणागतवत्सले! तव नतोऽस्मि नतार्तिविनाशिनि ॥ १॥ तपनमण्डलमण्डितकन्धरे ! पृथुसुवर्णसुवर्णनगद्युते । विषभुजङ्गनिषङ्गविभूषिते ! गिरिसुते ! भवतीमहमाश्रये ॥ २॥ जगति कः प्रणताभिमतं ददौ झटिति सिद्धनुते भवती यथा । जगति कां च न वाङ्छति शङ्करो भुवनधृत्तनये ! भवतीं यथा ॥ ३॥ विमलयोग विनिर्मित दुर्जय स्वतनु तुल्यमहेश्वर मण्डले । विदलितान्धक बान्धवसंहतिः सुरवरैः प्रथमं त्वमभिष्टुता ॥ ४॥ सितसटापटलोद्धत कन्धरा भरमहा मृगराज रथस्थिता । विमलशक्तिमुखानलपिङ्गला यतभुजौघ विपिष्टमहासुरा ॥ ५॥ निगदिता भुवनैरिति चण्डिका जननि ! शुम्भ निशुम्भ निषूदनी । प्रणत चिन्तित दानव दानव प्रमथनैकरतिस्तरसा भुवि ॥ ६॥ वियति वायुपथे ज्वलनोज्ज्वलेऽवनितले तव देवि! च यद्वपुः । तदजितेऽप्रतिमे प्रणमाम्यहं भुवन भाविनि! ते भववल्लभे ॥ ७॥ जलधयो ललितोद्धत वीचयो हुतवहद्युतयश्च चराचरम् । फणसहस्रभृतश्च भुजङ्गमा स्त्वदभिधास्यति मय्यभयङ्कराः ॥ ८॥ भगवति! स्थिरभक्तजनाश्रये! प्रतिगतो भवती चरणाश्रयम् । करणजातमिहास्तु ममाचलं नुतिलवाप्तिफलाशयहेतुतः ॥ ९॥ प्रशममेहि ममात्मज वत्सले ! तव नमोऽस्तु ! जगत्त्रयसंश्रये ! । त्वयि ममास्तु मतिः सततं शिवे शरणगोऽस्मि नतोऽस्मि नमोऽस्तु ते ॥ १०॥ इति मत्स्यपुराणान्तर्गता वीरककृता पार्वतीस्तुतिः समाप्ता । matsyapurANa adhyAya 158 shlokAH 11-20