अक्षर आकार:

श्रीपार्वतीश्रीकण्ठस्तोत्रम्

Shri Parvatishrikanthastotram

श्रीपार्वतीश्रीकण्ठस्तोत्रम्

(श्रीगरलपुरतः प्रस्थानसमये) बहुभ्यो घस्रेभ्यस्तव पदसरोजातयुगलं निरीक्ष्याहं मोदं बहुलमगमं शैलतनये । भविष्यान्मातस्त्वत्पदयुगसरोजातविरहा- द्भवेद्यः खेदस्तं शमय हृदयाब्जे विलसनात् ॥ १॥ प्रभोऽष्टमूर्ते मम चित्तमध्ये संस्थाप्य चैकां तव मूर्तिमारात् । अपि स्थितस्य प्रमुदं विधेहि का ते क्षतिस्तेन कृपापयोधे ॥ २॥ मन्मूर्तिमेकां तव पादमूले दधासि यस्माच्छशिबालमौले । तस्माच्च मन्मानसपङ्कजाते त्वया विधेया तव मूर्तिरेका ॥ ३॥ आकाशस्य विभुत्वात्तत्रस्थत्वाच्च पादपद्मस्य । तव नटनाथ पदं मच्चित्ते स्फुरताद्धि यत्र कुत्रापि ॥ ४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीपार्वतीश्रीकण्ठस्तोत्रं सम्पूर्णम् ।