अक्षर आकार:

पार्वतीस्तोत्रम्

pArvatIstotram

पार्वतीस्तोत्रम्

विबुधाधिपतेजिनीशकान्ते वदनाभाजितयामिनीशकान्ते । नवकुन्दविराजमानदन्ते नलिनाभं प्रणमाम्यहं पदं ते ॥ १ ॥ विकचाम्बुरुहां विलासचोरैरतिशीतैः प्रवहद्दयाम्बुपूरैः । शशिशेखरचित्तनृत्तरङ्गैस्तरसालोकय देवि मामपाङ्गैः ॥ २ ॥ अवनीधरनायकस्य कन्ये कृपणं मां परिपालयातिधन्ये । विधिमाधववासवादिमान्ये द्रुतमुन्मूलितभक्तलोकदैन्ये ॥ ३ ॥ कुचनिन्दितशातकुम्भशैले मणिकाञ्चीवलयोल्लसद्दुकूले । परिपालय मां भवानि बाले त्रिजगद्रक्षणजागरूकलीले ॥ ४ ॥ स्वरुचा जिततप्तशातकुम्भे कचशोभाजितकालमेघडम्भे । परिपालय मां त्रसन्निशुम्भे मकुटोल्लासिसुधामयूखडिम्भे ॥ ५ ॥ कुसुमायुधजीवनाक्षिकोणे परितो मामव पद्मरागशोणे । स्मरवैरिवशीकृतप्रवीणे चरणाब्जानतसत्क्रियाधुरीणे ॥ ६ ॥ गिरिजे गगनोपमावलग्ने गिरितुङ्गस्तनगौरवेण भुग्ने । वस मे हृदये तवाङ्गलग्ने तव संदर्शनमोदसिन्धुमग्ने ॥ ७ ॥ सकलोपनिषत्सरोजवाटीकलहंस्यास्तव मे कवित्वधाटी । कृपयाविरभूदियं तु पेटी वहतु त्वद्गुणरम्यरत्नकोटीः ॥ ८ ॥ ॥ इति श्रीपार्वतीस्तोत्रं संपूर्णम् ॥ The hymn pArvatIstotram is specifically a hymn in praise of the goddess sundarakuchAmbikA at tejinivanam near Kumbakonam