अक्षर आकार:

नित्याकवचम्

nityAkavacham

नित्याकवचम्

तन्त्रराजतन्त्रे अष्टाविंशं पटलान्तर्गतम् । समस्तापद्विमुक्त्यर्थं सर्वसम्पदवाप्तये । भूतप्रेतपिशाचादिपीडाशान्त्यै सुखाप्तये ॥ १॥ समस्तरोगनाशाय समरे विजयाय च । चोरसिंहद्वीपिगजगवयादिभयानके ॥ २॥ अरण्ये शैलगहने मार्गे दुर्भिक्षके तथा । सलिलादिमनः पीडास्वब्धौ पोतादिसङ्कटे ॥ ३॥ प्रजप्य नित्याकवचं सकृत्सर्वन्तरत्यसौ । सुखी जीवति निर्द्वन्द्वो निःसपत्नो जितेन्द्रियः ॥ ४॥ श‍ृणु तत् कवचं देवि वक्ष्ये तव तदात्मकम् । येनाहमपि युद्धेषु देवासुरजयी सदा ॥ ५॥ सर्वतः सर्वदात्मानं ललिता पातु सर्वगा । कामेशी पुरतः पातु भगमाला त्वनन्तरम् ॥ ६॥ दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा । नित्यक्लिन्ना च भेरुण्डा दिशं पातु सदा मम ॥ ७॥ तथैव पश्चिमं भागं रक्षेत् सा वह्निवासिनी । महावज्रेश्वरी रक्षेदनन्तरदिशं सदा ॥ ८॥ वामपार्श्वं सदा पातु दूती मे त्वरिता ततः । पालयेत्तु दिशं चान्यां रक्षेन्मां कुलसुन्दरी ॥ ९॥ नित्या मामूर्द्ध्वतः पातु साधो मे पातु सर्वदा । नित्या नीलपताकाख्या विजया सर्वतश्च माम् ॥ १०॥ करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला । देहेन्द्रियमनःप्राणान् ज्वालामालिनिविग्रहा ॥ ११॥ पालयेदनिशं चित्रा चित्तं मे पातु सर्वदा । कामात् क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥ १२॥ पापान्मत्सरतः शोकात् संशयात् सर्वतः सदा । स्तैमित्याच्च समुद्योगादशुभेषु तु कर्मसु ॥ १३॥ असत्यक्रूरचिन्तातो हिंसातश्चौर्यतस्तथा । रक्षन्तु मां सर्वदा ताः कुर्वन्त्विच्छां शुभेषु च ॥ १४॥ नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः । तथा हयसमारूढाः पान्तु मां सर्वतः सदा ॥ १५॥ सिंहारूढास्तथा पान्तु मान्तरक्षगता अपि । रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे ॥ १६॥ तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगतास्तथा । भूगताः सर्वदा पान्तु माञ्च सर्वत्र सर्वदा ॥ १७॥ भूतप्रेतपिशाचापस्मारकृत्यादिकान् गदान् । द्रावयन्तु स्वशक्तीनां भीषणैरायुधैर्मम ॥ १८॥ गजाश्वद्वीपिपञ्चास्यतार्क्ष्यरूढाखिलायुधाः । असंख्याः शक्तयो देव्याः पान्तु मां सर्वतः सदा ॥ १९॥ सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् । कदाचिन्नाशुभं पश्येन्न श‍ृणोति च मत्समः ॥ २०॥ इति षोडशनित्यातन्त्रेषु श्रीकादिमते लोकतादात्म्यादिकथनं नाम अष्टाविशं पटलान्तर्गतं नित्याकवचम् सम्पूर्णम् ॥ १ From tantrarAja paTala@, shloka 52-71