श्रीनवयुवद्वन्द्वदिदृक्षाष्टकम्
स्फुरदमलमधूलीपूर्णराजीवराज-
न्नवमृगमदगन्धद्रोहिदिव्याङ्गगन्धं
मिथ इह उदितैरुन्मादितान्तर्विघूर्ण-
द्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ १॥
कनकगिरिखलोद्यत्केतकीपुष्पदीव्य-
न्नवजलधरमालाद्वेषिदिव्योरुकान्त्या ।
सबलमिव विनोदैरीक्षयात्स्वं मिथस्त-
द्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ २॥
निरुपमनवगौरीनव्यकन्दर्पकोटि
प्रठितमधुरिमोर्मिक्षालितश्रीनखान्तम् ।
नवनवरुचिरागैर्हृष्टमिष्टैर्मिथस्त-
द्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ३॥
मदनरसविघूर्णन्नेत्रपद्मान्तनृत्यैः
परिकलितमुखेन्दुह्रीविनाम्रं मिथोऽल्पैः ।
अपि च मधुरवाचं श्रोतुमावर्धिताशं
व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ४॥
स्मरसमरविलासोद्गारमङ्गेषु रङ्गै-
स्तिमितनवसखीषु प्रेक्षमानासु भङ्ग्या ।
स्मितमधुरदृगन्तैर्ह्रीणसम्फुल्लवक्त्रं
व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ५॥
मदनसमरचर्याचार्यमापूर्णपुण्य
प्रसरनववधूभिः प्रार्थ्यपादानुचर्यम् ।
स्मररसिकमेकप्राणमन्योन्यभूषं
व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ६॥
तटमधुरनिकुञ्जे श्रान्तयोः श्रीसरस्यः
प्रचुरजलविहारैः स्निग्धवृन्दैः सखीनाम् ।
उपहृतमधुरङ्गैः पाययात्तन्मिथस्तै-
र्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ७॥
कुसुमशररसौघग्रन्थिभिः प्रेमदाम्ना
मिथ इह वशवृत्त्या प्रौढयाद्धा निबद्धम् ।
अखिलजगति राधामाधवाख्यप्रसिद्धं
व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ८॥
प्रणयमधुरमुच्चैर्नव्ययूनोर्दिदृक्षा
ष्टकमिदमतियत्नाद्यः पठेत्स्फारदैन्यैः ।
स खलु परमशोभापुञ्जमञ्जु प्रकामं
युगलमतुलमक्ष्णोः सेव्यमारात्करोति ॥ ९॥
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
श्रीनवयुवद्वन्द्वदिदृक्षाष्टकं सम्पूर्णम् ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):