अक्षर आकार:

नवरत्नमाला अथवा श्यामलानवरत्नमालिकास्तोत्रम् कालिदासविरचितम्

Navaratnamala by Kalidas

नवरत्नमाला अथवा श्यामलानवरत्नमालिकास्तोत्रम् कालिदासविरचितम्

मातङ्गीस्तोत्रं च ओङ्कारपञ्जरशुकीमुपनिषदुद्यानकेलिकलकण्ठीम् । आगमविपिनमयूरीमार्यामन्तर्विभावये गौरीम् ॥ १॥ दयमानदीर्घनयनां देशिकरूपेणदर्शिताभ्युदयाम् । var देशक वामकुचनिहितवीणां वरदां सङ्गीतमातृकां वन्दे ॥ २॥ श्यामलिमसौकुमार्यां सौन्दर्यानन्दसम्पदुन्मेषाम् । तरुणिमकरुणापूरां मदजलकल्लोललोचनां वन्दे ॥ ३॥ नखमुखमुखरितवीणानादरसास्वादनवनवोल्लासम् । मुखमम्ब मोदयतु मां मुक्ताताटङ्कमुग्धहसितं ते ॥ ४॥ सरिगमपधनिरतां तां वीणासङ्क्रान्तकान्तहस्तां ताम् । शान्तां मृदुलस्वान्तां कुचभरतान्तां नमामि शिवकान्ताम् ॥ ५॥ अवटुतटघटितचूलीताडिततालीपलाशताटङ्काम् । वीणावादनवेलाऽकम्पितशिरसां नमामि मातङ्गीम् ॥ ६॥ वीणारवानुषङ्गं विकचमुखाम्भोजमाधुरीभृङ्गम् । करुणापूरतरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ७॥ मणिभङ्गमेचकाङ्गीं मातङ्गीं नौमि सिद्धमातङ्गीम् । यौवनवनसारङ्गीं सङ्गीताम्भोरुहानुभवभृङ्गीम् ॥ ८॥ मेचकमासेचनकं मिथ्यादृष्टान्तमध्यभागं ते । मातस्वरूपमनिशं मङ्गलसङ्गीतसौरभं वन्दे ॥ ९॥ var मातस्तव स्वरूपं नवरत्नमाल्यमेतद् रचितं मातङ्गकन्यकाभरणम् । यः पठति भक्तियुक्तः सः भवेत् वागीश्वरः साक्षात् ॥ इति कविकालिदासविरचितं नवरत्नमाला अथवा श्यामलानवरत्नमालिकास्तोत्रम् सम्पूर्णम् ।